SearchBrowseAboutContactDonate
Page Preview
Page 62
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ५४ काव्यमाला। दद्यान्मे ततविज्ञातशास्त्रः शातं तमःशमः। मय॑स्तुतस्तपागच्छाधीशः सततवैभवः ॥ २० ॥ श्रीवत्सः ॥ १७ ॥ एभिः सप्तदशभिश्चित्रैः स्वगुरुनामगर्भितं कर्तृनामगर्भितं चाष्टादशारं चक्र संपद्यते । स्थापना च प्राक्प्रदर्शिता । सूरीशविजयानन्दपादपद्मं सुखप्रदम् । अभितोभूय सद्भक्त्या नम्रकमनरेश्वरम् ॥ २१ ॥ अथ प्रतिद्वारवृत्तानि ॥३॥ तृतीयेऽथ परिच्छेदे प्रतिद्वारक्रमो मया । क्रियते कोविदवृन्दहृदयानन्ददायकः ॥ २२ ॥ हंसान्योक्तिः शुकान्योक्तिर्बकोक्तिः खञ्जनोक्तयः । कोकिलान्योक्तयस्तद्वत्काकस्यान्योक्तयः पुनः ॥ २३ ॥ कुक्कुटान्योक्तयो ज्ञेया मयूरान्योक्तयस्ततः । चक्रवाकोक्तिरपरा चातकोक्तिः स्मृता बुधैः ॥२४॥ चकोरोक्तिः सारसोक्तिष्टिट्टिभोक्तिः प्रभासुरा । तथा मयूरपिच्छोक्ति या कोविदकुञ्जरैः ॥ २५ ॥ अथ खचराधिकारपद्धतौ प्रथमं हंसान्योक्तयः ॥१॥ अम्भोजिनीवननिवासविलासमेव हंसस्य हन्त्यतितरां कुपितो विधाता । न त्वस्य दुग्धजलमेदविधिप्रसिद्धां वैदग्थ्यकीर्तिमपहर्तुमसौ समर्थः ॥ २६ ॥ सुखस्य मा लक्ष्मीर्यस्य तम् ॥ १९॥ चामरम् ॥१६॥ दद्यादिति । मर्यस्तुतो नरैर्नुतः शातं दद्यात्। कस्य मे मम । किंभूतः । ततानि विस्तीर्णानि विज्ञातानि शास्त्राणि येन सः । पुन: किंभूतः । तमोऽज्ञानं शमयतीति तमःशमः । पुनः कीदृशः । तपागच्छ स्याधीशस्तपागच्छाधीशः । पुनः किदृशः । सततं निरन्तरं वैभवः समृद्धिर्यस्य ॥ २० ॥ श्रीकरी ॥ १७॥ इत्यष्टादशारचक्रबन्धचित्रस्यावचूरिः ॥ For Private And Personal Use Only
SR No.020065
Book TitleAnyokti Muktavali
Original Sutra AuthorN/A
AuthorHansvijay Gani, Kedarnath Pandit, Vasudev L Shastri
PublisherNirnaysagar Press
Publication Year1907
Total Pages183
LanguageSanskrit
ClassificationBook_Devnagari
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy