________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
अन्योक्तिमुक्तावली। कंसारिचरणोद्भूतसिन्धुकल्लोललालितम् ।
मन्ये हंस मनो नीरे कुल्याया रमते न ते ॥ २७ ॥ अपसरणमेव शरणं मौनं वा तत्र राजहंसस्य । कटु रटति निकटवर्ती वाचाटष्टिट्टिभो यत्र ॥ २८ ॥ यदि नाम दैवगत्या जगदसरोजं कदापि संजातम् । अवकरनिकरं विकिरति तत्किं कृकवाकुरिव हंसः ॥ २९ ॥
अस्ति यद्यपि सर्वत्र नीरं नीरजराजितम् । रमते न मरालस्य मानसं मानसं विना ॥ ३० ॥ भृङ्गाङ्गनाजनमनोहरहारिगीत__ राजीवरेणुकणकर्णपिशङ्गतोयाम् । रम्यां हिमाचलनदी प्रविहाय हंस
हे हे हताश वद कां दिशमुत्सुकोऽसि ॥ ३१॥ स्थित्वा क्षणं विततपक्षतिरन्तरिक्ष
मातङ्गसङ्गकलुषां नलिनी विलोक्य । उत्पन्नमन्युपरिघर्घरनिःखनेन
हंसेन साश्रु परिवृत्य गतं नलीनम् ॥ ३२ ॥ सरसि बहुशस्ताराच्छाया दशन्परिवञ्चितः
कुमुदविटपान्वेषी हंसो निशास्वविचक्षणः । न दशति पुनस्ताराशङ्की दिवापि सितोत्पलं
कुहकचकितो लोकः सत्येऽप्यपायमपेक्षते ॥ ३३ ॥ वातान्दोलितपङ्कजच्युतरजःपुञ्जाङ्गरागोज्ज्वलो
यः शृण्वन्कलकूजितं मधुलिहां संजातहर्षः पुरा। कान्ताचञ्चुपुटापवर्जितबिसग्रासग्रहेऽप्यक्षमः
सोऽयं संप्रति हंसको मरुगतः कोष्णं पयो याचते ॥ ३४॥
१. 'स्थित्वा चिरं नभसि निश्चलतारकेण' इति वा पाठः. २. 'विततपक्षतिनान्तरिक्षे' इत्यपि पाठः.
For Private And Personal Use Only