________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
काव्यमाला।
दमीश त्वां सुधीराहमानमामि ननाजित । तत्त्ववित् तततावेश्म स्मरमाननगेऽच्युत ॥ १४ ॥
श्रीकरी ॥ ११ ॥ दं तन्यास्त्वं तमःकंसकंसशत्रो सुरैर्नतः । तनुप्रभाजितवर्ण मुनिप्रभुर्मतो भुवि ॥ १५ ॥
हलम् ॥ १२॥ दक्षमानम मेधाविदकजातलसद्रविम् । विनतं वासवैः स्फारं विमलं सूरिसिन्धुरम् ॥ १६ ॥
छत्रम् ॥ १३ ॥
अकं दुःखं पापं वा । 'अकं दुःखाघयोः' इति हैमानेकार्थकोशः । छिन्धि जहीहि। कीदृशस्त्वम् । गदो रोग एव शैलः पर्वतः तस्मिन् दम्भोलिर्वज्रमिव, हे घनारव घनवन्मेघवदारवो ध्वनिर्यस्य तत्संबोधनम् । हे तमोद तमांस्यज्ञानानि द्यति खण्डयतीति, यद्वा न ददातीत्यदः तमसः अदस्तमोदस्तत्संबोधनम् , सद्भिर्नतः सन्नतस्तत्संबोधन हे सन्नत ॥ १३ ॥ भल्लः ॥१०॥ हे मुनीश, अहं खां आनमामीति संबन्धः । हे सुधीर सु शोभना धीर्येषां ते सुधियस्तैः राजत इति सुधीरः, यद्वा सु शोभना धीराः पण्डिता यस्य तत्संबोधनम् , हे नन, अजित, न जितःअजितः । द्वौ नकारौ प्रकृत्यर्थ सूचयतः । अपि तु अजित इत्यर्थः । अष्टकर्मभिरिति गम्यम् । हे तत्त्ववित् तत्त्वानि वेत्तीति तत्संबुद्धिः, हे तततावेश्म तता विस्तीर्णा चासौ ता लक्ष्मीश्च तस्या वेश्म गृहं तत्संबोधनं, हे अच्युत हे अपतित । 'पतितं गलितं च्युतम्' इति हैमः । कस्मिन् । स्मरमाननगे स्मरयुक्तो मानः स्मरमानः, यद्वा स्मरस्य मानोऽहंकारः स एव नगस्तस्मिन् ॥ १४ ॥ श्रीकरी ॥११॥ हे गुरो, त्वं दं दानं पुण्यं वा। 'दं दानं शरणं कर्म भव्यं न्यूनमकिल्बिषम्' इत्यनेकार्थकोशः । तन्या इति योगः । कीदृशस्त्वं सुरैर्देवैनतः प्रणतः। पुनः कीदृशः । मुनीनां प्रभुः खामी। पुनः कीदृशः।मतो मान्यः। कस्याम्। भुवि पृथिव्याम् । हे तमःकसकंसशत्रो तमोऽज्ञानमेव कंसः तस्मिन्कंसशत्रुर्विष्णुरिव तत्संबोधनम्, हे तनुप्रभाजितखर्ण तनोर्देहस्य प्रभया जितं वर्ण येन तत्संबुद्धिः ॥ १५ ॥ हलम् ॥ १२॥ हे जन, त्वं सूरिसिन्धुरं सूरिषु सिन्धुरो गज इव तं आनम । कीदृशम् । दक्षम् । पुनः कीदृशम् । मेधाविन एव दकजातानि पद्मानि तेषु बोधकखाल्लसद्रविं स्फूर्जत्सूर्यम् । पुनः कीदृशम् । वासवैरिन्द्रविनतम् । पुनः कीदृशम् । स्फारं मनोहरम् । पुनः कीदृशम् । विमलं पापमलरहितम् ॥ १६ ॥
For Private And Personal Use Only