Book Title: Angavijja
Author(s): Punyavijay, Vasudev S Agarwal, Dalsukh Malvania
Publisher: Prakrit Granth Parishad

View full book text
Previous | Next

Page 392
________________ 10 अङ्गविद्याशास्त्रं सटीकम् । २७९ निष्ठीवेत् , तिक्ते शुष्के श्लेष्माणमुत्सृजेदिति, लवणम् । क्रव्यादानां दर्शने मांसप्रायम् । तत्र भ्रू-गण्ड-जिह्वौष्ठसंस्पर्शने शाकुनम् , हन्वोराहम् , कर्णयोश्छागम् , जङ्घयोर्मार्गम् , केशानामौरभ्रम् , शङ्खयोर्गव्यम् , बस्ति-गलयोर्माहिषम् , मूर्ध्नि कौञ्जरम् , पाटित-छिन्न-भिन्नानां दर्शने श्रवणे गोधा-मत्स्ययोमा॑समिति ॥ ३५ ॥ अथ गर्भिण्या गर्भज्ञानमाह पुं-स्त्री-नपुंसकाख्ये दृष्टेऽनुमिते पुरःस्थिते स्पृष्टे । - तज्जन्म भवति पाना-ऽन्न-पुष्प-फलदर्शने च शुभम् ॥ ३६॥ गर्भपृच्छायां पुरुषे 'दृष्टे' अवलोकिते 'अनुमिते' विकृते 'पुरःस्थिते' अग्रतः स्थिते स्पृष्टे वा तस्मिन् तस्मिन् 'तजन्म भवति' पुंजन्म भवति । एवं स्त्रियां दृष्टायां च पुरःस्थितायां वा स्पृष्टायां स्त्रीजन्म । नपुंसकाख्ये दृष्टे स्पृष्ट पुरःस्थितेऽनुमिते नपुंसकजन्म भवति । 'पाना-ऽन्न-पुष्प-फलदर्शने च शुभं' इति पानस्य-आसवस्य अन्नस्यभोजनादेः पुष्पाणां-कुसुमानां फलानां च दर्शने 'शुभं जन्म' सुखप्रसवो भवति ।। ३६ ।। अन्यदप्याह अङ्गुष्ठेन भूदरं चाङ्गुलीर्वा स्पृष्ट्वा पृच्छेद् गर्भचिन्ता तदा स्यात् । मध्वाज्याचैहेम-रत्न-प्रवालैरग्रस्थैर्वा मात-धाच्यात्मजैश्च ॥३७॥ स्त्री स्वाङ्गुष्ठेन भ्रूयुगसुदरं वाऽङ्गुलीर्वा स्पृष्ट्वा पृच्छेत् तदा गर्भचिन्ता 'स्याद्' भवेत् । अथवा 'अग्रस्थितैः' पुरोऽवस्थितैः 'मध्वाज्याद्यैः' मधु-माक्षिकं आज्यं-घृतम् , आदिग्रहणात् पुनामभिः शोभनफलैश्च, तथा 'हेम-रत्नप्रवालैः' हेम-स्वर्णं रत्नानि-मणयः प्रवालं-विद्रुमम् , तथा 'मातृ-धात्र्यात्मजैश्च' माता-जननी धात्री-स्तनदायिनी आत्मजः-पुत्रः, एतैरप्यग्रस्थैर्गर्भपृच्छां जानीयात् । तथा च परासरः- “अथ स्त्री भ्रुवौ जठरमङ्गुष्ठेनाङ्गुलिं स्पृष्ट्वा 15 पृच्छेद् गर्भचिन्तां जानीयात्, तथा फल-च्छायावृक्ष-प्रवाला-ऽङ्कर-मधु-घृत-हेम-गर्भ-प्राजापत्यं वा मातृ-धात्रीपुत्रनिदर्शनशब्दप्रादुर्भावे गर्भपृच्छामेव" ॥ ३७ ॥ अन्यदप्याह गर्भयता जठरे करगे स्याद दष्टनिमित्तवशात तददासः। कर्षति तज्जठरं यदि पीडोत्पीडनतः करगे च करेऽपि ॥ ३८॥ ... 'जठरे' उदरे 'करगे' हस्तगते हस्तेन स्पृष्टे स्त्री गर्भयुता 'स्याद्' भवेत् । तस्मिन्नेव पृच्छासमये 'दुष्टनिमित्त- 20 वशादु'दुष्टनिमित्तदर्शनात् क्षुत्-पतित-भन्न-विनष्ट-दग्ध-क्षीणादिदर्शन-श्रवणात् 'तदुदासः' गर्भपतनं भवति । अथवा तज्जठरं 'पीडोत्पीडनतः' पीडमईनं कृत्वा कर्षति कद्रूवत् , 'करगे च करेऽपि' हस्तं हस्तेन वाऽवलम्ब्य पृच्छति तथापि वदुदास इति ॥ ३८ ॥ अथ गर्भग्रहणे कालज्ञानमाह- .. प्राणाया दक्षिणे द्वारे स्पृष्टे मासोऽन्तरं वदेत् ।। .. वामेऽब्दी कर्ण एवं मा द्वि-चतुन श्रुति-स्तने ॥ ३९॥ ... अङ्गुष्ठेनेत्यनुवर्त्तते । 'घ्राणायाः' नासिकाया दक्षिणे 'द्वारे' श्रोतसि अङ्गुष्ठेन स्पृष्टे गर्भग्रहणे मासोऽन्तरं 'वदे' ब्रूयात् , मासेन गर्भग्रहणं भविष्यतीति । वामे श्रोतसि स्पृष्टे 'अब्दौ' वर्षद्वयमन्तरम् , वर्षद्वयेन गर्भग्रहणं भवतीति । एवं वामे कर्णे वर्षद्वयेनैव । माःशब्देन मास उच्यते, श्रुतिः-कर्णः दक्षिणे कर्णच्छिदे स्पष्ट मासे द्विघ्नं-द्विगणम मासद्वयेन गर्भग्रहणं भवतीति । वामे वर्षद्वयेन स्तनस्पर्शने। माश्चतुक़-चतुर्मासैः स्तनद्वयस्पर्शनेनेति ॥३९॥ अन्यदप्याह-: वेणीमूले त्रीन् सुतान् कन्यके द्वे कर्णे पुत्रान् पञ्च हस्ते त्रयं च। 30 __ अङ्गुष्ठान्ताः पश्चकं चाऽनुपूष्यों पादाङ्गुष्ठे पार्णियुग्मेऽपि कन्याम् ॥ ४०॥ वेणी-केशकलापः तन्मूले पृच्छायां स्पृष्टे त्रीन् 'सुतान्' पुत्रान् द्वे कन्यके जनयिष्यसीति वक्तव्यम्। 'कर्णे कर्णयुग्मे स्पृष्ठे पुत्रान् पञ्च । हस्तयोः स्पर्शने पुत्रत्रयं च । कनिष्ठिकाङ्गुलेरारभ्याङ्गुष्टाङ्गुलिं यावदानुपूर्व्या क्रमेण पुत्रपञ्चकं सूते । तत्र कनिष्ठिकास्पर्शने एकं पुत्रम् , अनामिकास्पर्शने द्वौ, मध्यमायां त्रयः, तर्जन्यां चत्वारः, अङ्गष्ठे पश्च । पादाङ्गुष्ठे स्पृष्टे पाणियुग्मेऽपि स्पृष्टे कन्यामेकां सूते ॥४०॥ अन्यदप्याह 25 Jain Education Interational For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487