________________
10
अङ्गविद्याशास्त्रं सटीकम् ।
२७९ निष्ठीवेत् , तिक्ते शुष्के श्लेष्माणमुत्सृजेदिति, लवणम् । क्रव्यादानां दर्शने मांसप्रायम् । तत्र भ्रू-गण्ड-जिह्वौष्ठसंस्पर्शने शाकुनम् , हन्वोराहम् , कर्णयोश्छागम् , जङ्घयोर्मार्गम् , केशानामौरभ्रम् , शङ्खयोर्गव्यम् , बस्ति-गलयोर्माहिषम् , मूर्ध्नि कौञ्जरम् , पाटित-छिन्न-भिन्नानां दर्शने श्रवणे गोधा-मत्स्ययोमा॑समिति ॥ ३५ ॥ अथ गर्भिण्या गर्भज्ञानमाह
पुं-स्त्री-नपुंसकाख्ये दृष्टेऽनुमिते पुरःस्थिते स्पृष्टे । - तज्जन्म भवति पाना-ऽन्न-पुष्प-फलदर्शने च शुभम् ॥ ३६॥
गर्भपृच्छायां पुरुषे 'दृष्टे' अवलोकिते 'अनुमिते' विकृते 'पुरःस्थिते' अग्रतः स्थिते स्पृष्टे वा तस्मिन् तस्मिन् 'तजन्म भवति' पुंजन्म भवति । एवं स्त्रियां दृष्टायां च पुरःस्थितायां वा स्पृष्टायां स्त्रीजन्म । नपुंसकाख्ये दृष्टे स्पृष्ट पुरःस्थितेऽनुमिते नपुंसकजन्म भवति । 'पाना-ऽन्न-पुष्प-फलदर्शने च शुभं' इति पानस्य-आसवस्य अन्नस्यभोजनादेः पुष्पाणां-कुसुमानां फलानां च दर्शने 'शुभं जन्म' सुखप्रसवो भवति ।। ३६ ।। अन्यदप्याह
अङ्गुष्ठेन भूदरं चाङ्गुलीर्वा स्पृष्ट्वा पृच्छेद् गर्भचिन्ता तदा स्यात् ।
मध्वाज्याचैहेम-रत्न-प्रवालैरग्रस्थैर्वा मात-धाच्यात्मजैश्च ॥३७॥ स्त्री स्वाङ्गुष्ठेन भ्रूयुगसुदरं वाऽङ्गुलीर्वा स्पृष्ट्वा पृच्छेत् तदा गर्भचिन्ता 'स्याद्' भवेत् । अथवा 'अग्रस्थितैः' पुरोऽवस्थितैः 'मध्वाज्याद्यैः' मधु-माक्षिकं आज्यं-घृतम् , आदिग्रहणात् पुनामभिः शोभनफलैश्च, तथा 'हेम-रत्नप्रवालैः' हेम-स्वर्णं रत्नानि-मणयः प्रवालं-विद्रुमम् , तथा 'मातृ-धात्र्यात्मजैश्च' माता-जननी धात्री-स्तनदायिनी आत्मजः-पुत्रः, एतैरप्यग्रस्थैर्गर्भपृच्छां जानीयात् । तथा च परासरः- “अथ स्त्री भ्रुवौ जठरमङ्गुष्ठेनाङ्गुलिं स्पृष्ट्वा 15 पृच्छेद् गर्भचिन्तां जानीयात्, तथा फल-च्छायावृक्ष-प्रवाला-ऽङ्कर-मधु-घृत-हेम-गर्भ-प्राजापत्यं वा मातृ-धात्रीपुत्रनिदर्शनशब्दप्रादुर्भावे गर्भपृच्छामेव" ॥ ३७ ॥ अन्यदप्याह
गर्भयता जठरे करगे स्याद दष्टनिमित्तवशात तददासः।
कर्षति तज्जठरं यदि पीडोत्पीडनतः करगे च करेऽपि ॥ ३८॥ ... 'जठरे' उदरे 'करगे' हस्तगते हस्तेन स्पृष्टे स्त्री गर्भयुता 'स्याद्' भवेत् । तस्मिन्नेव पृच्छासमये 'दुष्टनिमित्त- 20 वशादु'दुष्टनिमित्तदर्शनात् क्षुत्-पतित-भन्न-विनष्ट-दग्ध-क्षीणादिदर्शन-श्रवणात् 'तदुदासः' गर्भपतनं भवति । अथवा तज्जठरं 'पीडोत्पीडनतः' पीडमईनं कृत्वा कर्षति कद्रूवत् , 'करगे च करेऽपि' हस्तं हस्तेन वाऽवलम्ब्य पृच्छति तथापि वदुदास इति ॥ ३८ ॥ अथ गर्भग्रहणे कालज्ञानमाह- ..
प्राणाया दक्षिणे द्वारे स्पृष्टे मासोऽन्तरं वदेत् ।। .. वामेऽब्दी कर्ण एवं मा द्वि-चतुन श्रुति-स्तने ॥ ३९॥ ... अङ्गुष्ठेनेत्यनुवर्त्तते । 'घ्राणायाः' नासिकाया दक्षिणे 'द्वारे' श्रोतसि अङ्गुष्ठेन स्पृष्टे गर्भग्रहणे मासोऽन्तरं 'वदे' ब्रूयात् , मासेन गर्भग्रहणं भविष्यतीति । वामे श्रोतसि स्पृष्टे 'अब्दौ' वर्षद्वयमन्तरम् , वर्षद्वयेन गर्भग्रहणं भवतीति । एवं वामे कर्णे वर्षद्वयेनैव । माःशब्देन मास उच्यते, श्रुतिः-कर्णः दक्षिणे कर्णच्छिदे स्पष्ट मासे द्विघ्नं-द्विगणम मासद्वयेन गर्भग्रहणं भवतीति । वामे वर्षद्वयेन स्तनस्पर्शने। माश्चतुक़-चतुर्मासैः स्तनद्वयस्पर्शनेनेति ॥३९॥ अन्यदप्याह-: वेणीमूले त्रीन् सुतान् कन्यके द्वे कर्णे पुत्रान् पञ्च हस्ते त्रयं च।
30 __ अङ्गुष्ठान्ताः पश्चकं चाऽनुपूष्यों पादाङ्गुष्ठे पार्णियुग्मेऽपि कन्याम् ॥ ४०॥
वेणी-केशकलापः तन्मूले पृच्छायां स्पृष्टे त्रीन् 'सुतान्' पुत्रान् द्वे कन्यके जनयिष्यसीति वक्तव्यम्। 'कर्णे कर्णयुग्मे स्पृष्ठे पुत्रान् पञ्च । हस्तयोः स्पर्शने पुत्रत्रयं च । कनिष्ठिकाङ्गुलेरारभ्याङ्गुष्टाङ्गुलिं यावदानुपूर्व्या क्रमेण पुत्रपञ्चकं सूते । तत्र कनिष्ठिकास्पर्शने एकं पुत्रम् , अनामिकास्पर्शने द्वौ, मध्यमायां त्रयः, तर्जन्यां चत्वारः, अङ्गष्ठे पश्च । पादाङ्गुष्ठे स्पृष्टे पाणियुग्मेऽपि स्पृष्टे कन्यामेकां सूते ॥४०॥ अन्यदप्याह
25
Jain Education Interational
For Private & Personal Use Only
www.jainelibrary.org