________________
२७८.
. प्रथमं परिशिष्टम् । दग्ध-पाटितशब्दैरिति । तथा च परासरः-अथो रोगाभिचातत्थर्दि(?)मूत्र-पुरीषोत्सर्ग-केशा-ऽस्थि-भस्म-तुष-विषादानां अशुभानां दर्शने, तथा छिन्न-भिन्न-व्यापन्न-हृत-गत-क्षुत-जग्ध-बद्ध-दग्ध-पाटित-रुदितशब्दश्रवणे वा रोगिणां मरणमादिशेत्" ॥ अथ भोजनज्ञानमाह
अवयवमपि स्पृष्ट्वाऽन्तःस्थं दृढं मरुदाहरे
दतिबहु तदा भुक्त्वाऽन्नं सुस्थितः सुहितो वदेत् ॥ २९ ॥ 'अन्तःस्थं' अभ्यन्तरस्थितं 'दृढं' स्थिरमवयवं स्पृष्ट्वा 'मरुद्' वायुं 'संहरेत्' उद्गिरन् पृच्छेत् तदा स पृच्छको 'अतिबहु' अतिप्रभूतमन्नं भुक्त्वा 'सुहितः' तृप्तः सुस्थित इति वदेत् ॥ २९ ॥ अन्यदप्याह
ललाटदर्शनाच्छूकदर्शनाच्छालिजोदनम् ।।
उरःस्पर्शात् षष्टिकाख्यं ग्रीवास्पर्शे च यावकम् ॥ ३०॥ . 10 ललाटदर्शनाच्छूकधान्यानां वा दर्शनाच्छालिजौदनं पृच्छकेन भुक्तमिति वदेत् । उरः-वक्षःस्पर्शात् षष्टिकान्नम् । श्रीवास्पर्श ‘यावकं' यावान्नम् ॥ ३० ॥ अन्यदण्याह
कुक्षि-कुच-जठर-जानुस्पर्श माषाः पयस्तिल-यवागूः ।
आखादयतश्चौष्ठी लिहतो मधुरं रसं ज्ञेयम् ॥ ३१॥ — कुक्षिस्पर्शे माषा भुक्ताः । कुचौ-स्तनौ तयोः स्पर्शे पयः-क्षीरोदनम् । जठरं-उदरं तत्स्पर्शने. तिलौदनम् । 15 जानुस्पर्श यवागू-यावकम् । ओष्ठौ आस्वादयतो लिहतो वा प्रष्टुर्मधुरं रसं भुक्तमिति ज्ञेयम् ।। ३१ ।। अन्यदप्याह
विसके स्फोटयेजिह्वामम्ले वक्त्रं विकोपयेत् ।
कटुकेऽसौ कषाये च हिष्केत् ष्ठीवेच्च सैन्धवे ॥ ३२॥ 'जिह्वां रसनां विसृक्के स्फोटयेद्वा प्रष्टाऽम्ले भुक्ते । मुखं विकोपयेत् कटुके 'असौ' पृच्छकः । कषाये भुक्ते हिष्केत् । 'सैन्धवे' लवणे भुक्ते ष्ठीवेत् ॥ ३२ ॥ अन्यदप्याह20
श्लेष्मत्यागे शुष्क-तिक्तं तदल्पं श्रुत्वा क्रव्यादं प्रेक्ष्य वा मांसमिश्रम् ।
भ्रू-गण्डोष्ठस्पर्शने शाकुनं तद् भुक्तं तेनेत्युक्तमेतन्निमित्तम् ॥ ३३ ॥ श्लेष्मणः परित्यागे शुष्कं रूक्षं तिक्तं तदल्पं च भुक्तम् । 'क्रव्याद' मांसाशिनं प्राणिनं [श्रुत्वा] 'प्रेक्ष्य' दृष्ट्वा वा तन्मांसमिश्रं भुक्तम् । भ्रूगण्डोष्ठस्पर्शने शाकुनं मांसं 'तेन' प्रष्ट्रा तद् भुक्तमिति । 'उक्तं' कथितमेतद् 'निमित्तं' चिह्नम् ॥ ३३ ॥ अन्यदप्याह-. .
मूर्द्ध-गल-केश-हनु-शङ्ख-कर्ण-जङ्घ च बस्ति च स्पृष्ट्वा । . . . . . .
गज-महिष-मेष-शूकर-गो-शश-मृग-महिषमांसयुतम् ॥ ३४॥ . .... मूर्द्धादिस्पर्शने यथाक्रमं गजादिमांसं वक्तव्यम् । मूर्द्धा-शिरस्तत्स्पर्शने गजमांसं मुक्तं वदेत् । गलस्पर्शने माहिपम् । केशस्पर्शने मेषमांसम् । हनुस्पर्शने शौकरं मांसम् । शङ्खस्पर्शने गोमांसम् । कर्णस्पर्शने शशमांसम् । जङ्घास्पर्शने
मृगमांसम् । बस्तिस्पर्शने च माहिषमांसयुतमेव भुक्तमिति ॥ ३४ ॥ अन्यदप्याह-- 30 . . दृष्टे श्रुतेऽप्यशकुने गोधा-मत्स्यामिष वदेद् भुक्तम् ।
६ ... गर्भिण्या गर्भस्य विनिपतनमेवं प्रकल्पयेत् प्रश्ने ॥ ३५॥ .
अशकुने दृष्टे श्रुते अवलोकिते वा.........गोधामिषं मत्स्यमांसं वा भुक्तं वदेत् । एवमेव गर्मस्य पृच्छायां 'अशकुने दुनिमित्ते दृष्टे श्रुते वा गर्भिण्याः स्त्रियो गर्भपतनं वदेत् । तथा च परासरः-"तथा स्निग्ध-दृढमभ्यन्तराङ्गं स्पृष्ट्वोद्गिरन् पृच्छेद् भुक्तमन्नं विन्द्यात् । तत्र ललाटस्पर्श शूकानां च दर्शने शाल्योदनम् , उरसि संस्पृष्टे षष्टि55 कान्नम्, प्रीवायां यावकान्नम् , जठरे तिलौदनम् , कुक्षौ माषौदनम्, स्तनयोः क्षीरोदनम्, जान्वोर्यावकमास्वादयेत् , ओष्ठौ वा परिलेदि मधुरम् , विसृक्के जिह्वां वा स्फोटयेत् , अम्ले मुखं विकूणयेत् , कटुके हिष्केत्, कषाये
26
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org