Book Title: Angavijja
Author(s): Punyavijay, Vasudev S Agarwal, Dalsukh Malvania
Publisher: Prakrit Granth Parishad
View full book text
________________
अङ्गविद्याशास्त्रं सटीकम् । 'दासीमया' दासीकृता । तथा च परासरः-"अङ्गुष्ठेन भूमिं विलिखेत् क्षेत्रचिन्तां विजानीयात् ; हस्तेन पादौ कण्डूयेद् दासीकृता च सा" ॥ १३ ॥ अन्यदप्याह- . .. ...... ताल-भूर्जपटदर्शनेऽशुकं चिन्तयेत् कच-तुषा-ऽस्थि-भस्मगम् ।
व्याधिराश्रयति रज्जु-जालकं वल्कलं च समवेक्ष्य बन्धनम् ॥ १४ ॥ तालवृक्षपत्रदर्शने भूर्जपटदर्शने बा प्रष्टा 'अंशुक' वस्त्रं चिन्तयेत् । 'कचतुषा-ऽस्थि-भस्मगं व्याधिराश्रयति' कचा:-केशाः तुषं-धान्यवर्म अस्थि-प्रसिद्धम् , भस्म, एषामन्यतमस्योपरिगतं प्रष्टारं 'व्याधिः' पीडा आश्रयति । रजः-प्रसिद्धा, जालक-यत्र मत्स्य-पक्षिणो बध्यन्ते तदेव तत्सदृशं वा, 'वल्कलं' त्वक्, एषामन्यतमस्थं वा 'समवेक्ष्य' अवलोक्य गृहीत्वा वा पृच्छेत् तदा बन्धनं वदेत् । तथा च परासरः-"ताल-भूर्जपत्रदर्शने वस्त्रार्थे, केशा-ऽस्थिभस्मनाऽऽक्रम्य व्याधिभयं ब्रूयात् , निग(मृग)जाल-रज-सिक्थ-वल्कलान्यधिष्ठाय दर्शने वा बन्धनं मतम्" ॥ १४ ॥ अन्यदप्याह
. ....
10 पिष्पली-मरिच-सुण्ठि-वारिदै रोध्र-कुष्ठ-वसना-ऽम्बु-जीरकैः। ... गन्धमांसि-शतपुष्पया वदेत् पृच्छतस्तगरकेन चिन्तनम् ॥१५॥ स्त्री-पुरुषदोष-पीडित-सर्वा-ऽध्व-सुता-ऽर्थ-धान्य-तनयानाम् ।
द्वि-चतुःशफ-क्षितीनां विनाशतः कीर्तितैदृष्टैः ॥ १६॥ ... पिष्पलीति । पिष्पल्यादिदर्शने रुयादिचिन्तां क्रमशो व्यपदिशेत् । तत्र पिष्पलीदर्शने या स्त्री दोषदुष्टा 15 सदोषा तत्कृतां चिन्तां वदेत् । मरिचदर्शने दोषयुतस्य सपापस्य पुरुषस्य चिन्तां प्रवदेत् । सुण्ठिदर्शने पीडितस्यव्याधितस्य मृतस्य चिन्तां वदेत् । वारिदा-मुस्ता तेषां दर्शने सर्वनाशकृताम् । रोध्रदर्शने अध्वनाशकृताम् । कुष्ठदर्शने सुतनाशकृतां-पुत्रनाशजाम् । वसनं-वस्त्रं तद्दर्शने अर्थनाशकृताम् । अम्बुदर्शने धान्य[नाश] कृताम् । जीरकदर्शने तनयस्य-पुत्रस्य नाशकृताम् । गन्धमांस्या द्विशफानां-द्विपदनाशकृताम् । शतपुष्पया चतुःशफानां-चतुष्पदविनाशकृताम् । तगरेण क्षिते:-भूमेः नाशकृताम् । एतैः 'कीर्त्तितैः' उच्चरितैर्वा 'दृष्टैः' अवलोकितैर्वा विनाशहेतोः पृच्छा 20 भवति । तथा च परासरः-"पिप्पलीनां दर्शने प्रदुष्टस्त्रीकृतां चिन्ताम् , मरीचकस्य पापपुरुषकृताम् , शृङ्गबेरस्य मृतचिन्ताम् , अजाज्याः सुतनाशकृताम् , रोध्रस्याध्वनाशकृताम् , मुस्तस्य सर्वनाशकृताम् , कुष्ठस्य सर्वनाशकृताम् वसनस्यार्थनाशकृताम् , तगरस्य भूमिनाशकृताम् , शतपुष्पायाश्चतुष्पान्नाशकृताम, मांस्या द्विपदनाशार्थाम्" ॥ १५॥ १६ ॥ अन्यदप्याह
न्यग्रोध-मधुक-तिन्दुक-जम्बू-प्लक्षा-ऽऽम्र-बदरजातफलैः। ... धन-कनक-पुरुष-लोहां-ऽशुक-रूप्योदुम्बराप्तिरपि करगैः ॥१७॥
न्यग्रोधादिजातफलैः' तत्सम्भवैः फलैः 'करगैः' हस्तस्यैः धनाद्याप्तिर्भवति । तत्र न्यग्रोधजातफलैः प्रष्टुर्हस्तस्यै- . र्धनाप्तिः-वित्तलाभो भवति। मधुकफलैः कनकस्य-स्वर्णस्याप्तिः। तिन्दुकफलैः द्विपदस्य–पुरुषस्याप्तिः। जम्बूफलैर्लोहस्य । प्लक्षफलैः अंशुकस्य-वस्त्रस्य । आम्रफलैः रूप्यस्य । बदरफलैरुदुम्बरस्य-ताम्रस्येति । तथा च परासरः-“अथ .. न्यग्रोधफलैर्हस्तस्थैः पृच्छेद् धनागममादिशेत् , मधुकोदुम्बरफलैः काञ्चनागमम् , द्विपदागमं तिन्दुकैः, वस्त्रागमं प्लक्षजैः, 30 रूप्यस्य आप्रैः, ताम्रस्य बदरैः, लोहस्य जाम्बवैः” इति ॥ १७॥ अन्यदप्याह. धान्यपरिपूर्णपात्रं, कुम्भः पूर्णः कुटुम्बवृद्धिकरः। ... गज-गो-शुनां पुरीषं, धन-युवति-सुहृद्विनाशकरम् ॥ १८॥ . ... धान्यपरिपूर्ण पात्रं कुम्भः पूर्णः कुटुम्बवृद्धिकरः । 'गज-गो-शुनां पुरीषं धन-युवति-सुहृद्विनाशकरं' गजानां हस्तिनां .. 'पुरीषं' विष्ठा गवां पुरीषं च शुना-सारमेयानां पुरीषं धनस्य-ऐश्वर्यस्य युवतीनां-स्त्रीणां व्यभिचारं सुहृदां च विनाशं 35 करोति ॥ १८॥ अन्यदप्याह
28
Jain Education Intemational
For Private & Personal Use Only
www.jainelibrary.org
Page Navigation
1 ... 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487