Book Title: Amar Kosh
Author(s): Narayanram Acharya
Publisher: Chaukhamba Sanskrit Bhavan

View full book text
Previous | Next

Page 283
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org १९८ Acharya Shri Kailassagarsuri Gyanmandir मरकोषे स्तम्बघ्नस्तु स्तम्बघनः स्तम्बो येन निहन्यते आविधो विध्यते येन तत्र विष्वक्समे निघः उत्कारश्च निकारश्च द्वौ धान्योत्क्षेपणार्थकौ निगारोद्गारविक्षावोद्राहास्तु गरणादिषु आरत्यवरतिविरतय उपरामेऽथास्त्रियां तु निष्ठेवः निष्ठयूतिर्निष्ठेवनं निष्ठीवनमित्यभिन्नानि वने जूतिः सातिस्त्ववसाने स्यादथ ज्वरे जूर्तिः उदजस्तु पशुप्रेरणमकरणिरित्यादयः शापे गोत्रान्तेभ्यस्तस्य वृन्दमित्यौपगवकादिकम् आपूपिकं शाष्कुलिकमेवमाद्यमचेतसाम् माणवानां तु माणव्यं सहायानां सहायता हल्या हलानां ब्राह्मण्यवाडव्ये तु द्विजन्मनाम् द्वे पशुकानां पृष्ठानां पार्श्व पृष्ठ्य मनुक्रमात् [ ४. संकीर्ण वर्ग: २३२० २३२१ २३२२ २३२३ २३२४ २३२५ २३२६ २३२७ २३२८ २३२९ २३३० २३३१ २३३२ , । " इति १ ॥ -- स्तम्बघ्नः स्तम्बघनः इति २ स्तम्बघ्नस्य । येन विध्यते तत्र शस्त्रादौ आविध इति १ । विष्वक्समे सर्वतः समाने वृक्षे निघ इति १ ॥ - उत्कारः, निकारः, इति २ निकारस्य ॥ निगारादयो गरणादिषु । यथा गरणे अभ्यवहारे निगारः । एवं वमने उद्गारः शब्दे विक्षावः, उद्ग्रहणे उद्ग्राहः, इत्येकैकम् ॥ —-आरतिः, अवरतिः, विरतिः, उपरामः, इति ४ उपरतेः ॥ - निष्ठेवः, निष्फ्यूतिः, निष्ठेवनम्, निष्ठीवनम् इति ४ मुखेन श्लेष्मोत्सर्गस्य ॥ - जवनम्, जूतिः, इति २ वेगस्य । सातिः, अवसानम् इति २ अन्तस्य ॥ - ज्वरः, जूर्तिः, इति २ ज्वरस्य । पशूनां प्रेरणं उदजः स्यात् १ । शापे आक्रोशे द्योत्ये अकरणिरित्यादयः । 'आदि'शब्दादजीवनिः । गोत्रान्तेभ्य औपगवादिशब्देभ्यस्तस्य वृन्दमित्यर्थे औपगवकादिकं स्यात् १ । 'आदि' शब्दाद्गार्गकं दाक्षकमित्यादि । इतः परमावर्गसमाप्तेर्वृन्दमित्यधिकारः ॥ - आपूपिकम् शाष्कुलिकम्, साक्तकम्, इत्यादि । माणवानां समूहो माणव्यम् १ | सहायानां समूहः सहायता १ । हलानां समूहो हल्या इति १ ॥ ब्राह्मण्यम्, वाडव्यम् इति २ ब्राह्मणानां समूहस्य । पर्शुका अस्थिविशेषास्तासां समूहः, पार्श्वम् १ । पृष्ठानां समूहः > For Private and Personal Use Only

Loading...

Page Navigation
1 ... 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339