Book Title: Amar Kosh
Author(s): Narayanram Acharya
Publisher: Chaukhamba Sanskrit Bhavan

View full book text
Previous | Next

Page 311
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir भामरको २२६ [५. नानार्यवर्ग: किंशारू सस्यशकेषु मरू धन्वधराधरौ २६६१ अद्रयो द्रुमशैलार्काः स्त्रीस्तनाब्दी पयोधरौ २६६२ ध्वान्तारिदानवा वृत्रा बलिहस्तांशवः करा: २६६३ प्रदरा भङ्गनारीरुग्बाणा अस्राः कचा अपि २६६४ अजातशृङ्गो गौः कालेऽप्यश्मश्रुर्ना च तूबरौ २६६५ स्वर्णेऽपि राः परिकरः पर्यङ्कपरिवारयोः २६६६ मुक्ताशुद्धौ च तारः स्याच्छारो वायौ स तु त्रि २६६७ कबुरेऽथ प्रतिज्ञाजिसंविदापत्सु संगर: २६६८ वेदभेदे गुप्तवादे मन्त्रो मित्रो रवावपि २६६९ मखेषुयूपखण्डेऽपि स्वरुर्गुह्येऽप्यवस्करः २६७० आडम्बरस्तूर्यरवे गजेन्द्राणां च गर्जिते २६७१ अभिहारोऽभियोगे च चौर्ये संनहनेऽपि च २६७२ स्याजङ्गमे परीवारः खड्गकोशे परिच्छदे २६७३ सस्ये शूके च किंशारुः । धन्वा निर्जलदेशः । धराधरः पर्वतः । सोऽपि मरुस्थलीसंबन्धान्मरुः । दुमशैलार्केषु अद्रिशब्दो वर्तते । त्रियाः स्तनः कुचः, अब्दो मेघः, उभौ पयोधरौ। ध्वान्तमन्धकारः, मरिः शत्रुः, दानवो दनुजमेदः, एते वृत्राः। राज्ञा ग्राह्यभागो बलिः । अंशू रश्मिः । हस्तश्च करः । नारीरुक् स्त्रीणां रोगमेदखत्र, भावाणयोश्च प्रदरः। कचाः केशाः, 'मपि'शब्दात्कोणेऽप्यन्नः। न जाते शृङ्गे यस्य स एवंभूतो गौः। काले श्मश्रूत्थानसमयेऽपि यो ना पुरुषोऽश्मश्रुः श्मश्रुरहितस्तावुभावपि तबरौ। खणे, 'अपि'शब्दाद्वित्तमात्रे रा इत्येकाक्षरम्। पर्यकपरिवारयोः परिकरः । मुक्तादिसंशुद्धौ तारः । वायो शारः। स तु शारशब्दः कर्बुरे शबलवर्णे त्रिषु । आजियुद्धम् । संवित् क्रियाकारः। आपदि प्रतिज्ञायां च संगरः। वेदमेदे गुप्तवादे रहसि कर्तव्यावधारणे मन्त्रःरवो मिन्टः, 'अपि'शब्दात्सख्यौ मित्रं क्लीबम् । वज्रध्वनी, बाणे, यूपमण्डे, अपि'शब्दाहम्भोली च स्वरुः । गुह्ये उपस्थे, 'अपि'शब्दाद्येऽप्यवस्करः । र्यरवे वाधध्वनी, गजगार्जिते तूर्ये च आडम्बरः । अभियोगोऽभिप्रहणम् , चोरस्य कर्म चौर्यम्। सबहनं कवचादिग्रहणम्, एतेष्वभिहारः । बामे बामविशेषे सड़कोशे असिपिधायके चर्मादौ परिच्छदे उपकरणे परीवारः । विटपी वृक्षः । For Private and Personal Use Only

Loading...

Page Navigation
1 ... 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339