Book Title: Amar Kosh
Author(s): Narayanram Acharya
Publisher: Chaukhamba Sanskrit Bhavan

View full book text
Previous | Next

Page 313
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir २२८ अमरको [५. नानार्थवर्गः शर्करा कर्परांशेऽपि यात्रा स्याद्यापने गतौ २६८६ इरा भूवाक्सुराप्सु स्यात्तन्द्री निद्राप्रमीलयोः २६८७ धात्री स्यादुपमातापि क्षितिरप्यामलक्यपि २६८८ क्षुद्रा व्यङ्गा नटी वेश्या सरघा कण्टकारिका २६८९ त्रिषु क्रूरेऽधमेऽल्पेऽपि क्षुद्रं मात्रा परिच्छदे २६९० अल्पे च परिमाणे सा मात्रं कार्येऽवधारणे २६९१ आलेख्याश्चर्ययोश्चित्रं कलत्रं श्रोणिभार्ययोः २६९२ योग्यभाजनयोः पात्रं पत्रं वाहनपक्षयोः २६९३ निदेशग्रन्थयोः शास्त्रं शस्त्रमायुधलोहयोः २६९४ स्थाज्जटांशुकयोर्नेत्रं क्षेत्रं पत्नीशरीरयोः २६९५ मुखाग्रे कोडहलयोः पोत्रं गोत्रं तु नानि च २६९६ सत्रमाच्छादने यज्ञे सदादाने वनेऽपि च २६९७ अजिरं विषये कायेऽप्यम्बरं व्योनि वाससि २६९८ 'अपि'शब्दात्खण्ड विकृत्यादौ शर्कराशब्दः । याप्यतेऽनेन यापनं तस्मिन् । गती च यात्रा। भ्वादिषु चतुर्यु इराशब्दः । श्रमादिना सर्वेन्द्रियापटुत्वं प्रमीला। निद्रा च तन्द्री । उपमाता क्षीरप्रदा। क्षितिः पृथ्वी । आमलकी वृक्षभेदः । अपिना जनन्यपि धात्री । व्यङ्गा हीनाङ्गी । नटी नर्तनशीला। सरधा मधुमक्षिका। कण्टकारिका बृहती। वेश्या चक्षद्रा । क्रूरादित्रये क्षुद्रम् । त्रिषु । परिच्छदादित्रये मात्रा । स्त्रियाम् । काावधारणयोः मात्रम् । क्लीबम् । आलेख्ये भित्त्यादौ नानावर्णलेखने आश्चर्ये च चित्रम् । श्रोणिः कटिः, भार्या स्त्री, द्वयोः कलत्रम् । योग्ये भाजने च पात्रम् । वाहनपक्षयोः पत्रम् । निदेश आज्ञा, ग्रन्थो व्याकरणादिः, तत्र शास्त्रम् । आयुधे लोहे च शस्त्रम् । जटा वृक्षमूलम् , अंशुकं बनभेदः, द्वयोः नेत्रम् । पन्यां देहे च क्षेत्रम् । क्रोडः सूकरः, तस्य हलस्य च मुखाग्रे पोत्रम् । नानि चकाराच्छैले कुलेऽपि च गोत्रम्। आच्छादनं वस्त्रम् । सदादानं नित्यत्यागः । यज्ञः वनम् , 'अपि'शब्दात्कैतवश्च सत्रशब्दवाच्यः । विषयेरूपादौ दाये देहे अपिना चत्वरे अजिरम् । व्योम्न्याकाशे, वाससि वस्त्रे चाग्न For Private and Personal Use Only

Loading...

Page Navigation
1 ... 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339