Book Title: Amar Kosh
Author(s): Narayanram Acharya
Publisher: Chaukhamba Sanskrit Bhavan

View full book text
Previous | Next

Page 324
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir २३९ पतयः २८१२-२८३६] तृतीयं काण्डम् हन्त हर्षेऽनुकम्पायां वाक्यारम्भविषादयोः प्रति प्रतिनिधौ वीप्सालक्षणादौ प्रयोगतः इति हेतुप्रकरणप्रकाशादिसमाप्तिषु प्राच्यां पुरस्तात्प्रथमे पुरार्थेऽग्रत इत्यपि यावत्तावच्च साकल्येऽवधी मानेऽवधारणे मङ्गलानन्तरारम्भप्रश्रकार्येष्वथो अथ वृथा निरर्थकाविध्यो नाऽनेकोभयार्थयोः नु पृच्छायां विकल्पे च पश्चात्सादृश्ययोरनु प्रभावधारणानुज्ञानुनयामन्त्रणे ननु गहासमुच्चयप्रश्नशङ्कासंभावनास्वपि उपमायां विकल्पे वा सामि त्वर्धे जुगुप्सिते अमा सह समीपे च कं वारिणि च मूर्धनि इवेत्थमर्थयोरेवं नूनं तर्केऽर्थनिश्चये २८२४ २८२५ २८२६ २८२७ २८२८ २८२९ २८३० २८३१ २८३२ २८३३ २८३४ २८३५ २८३६ खेदाद्यर्थपश्चके बत । हर्षादिचतुष्के हन्तशब्दः । यो मुख्येन सदृशः प्रतिनिधिखत्र वीप्सायां लक्षणायां च, आदिना इत्यंभूताख्यानादौ, प्रयोगत इति शिष्टप्रयोगानुसारेण प्रतिशब्दस्य प्रक्षेपः । हेत्वर्थे प्रकरणे प्रकाशे, 'आदि'शब्दादेवमर्थे समाप्ताववसाने इतिशब्दः । प्राच्याद्यर्थचतुष्के पुरस्तात् । अपिशब्दः प्राच्या. द्यर्थे स्यात् । साकल्ये अवधौ माने परिमाणे अवधारणे निश्चये यावत्तावच्छब्दः । अथो अथ इमो शब्दो मालामङ्गले । अनन्तरे आरम्मे प्रश्ने कार्ये अथो अथ इति शब्दौ । निरर्थक अविधौ विधिहीने वृथाशन्दः । अनेकार्थे उभयार्थे च नानाशब्दः । पृच्छायां विकल्पे नुशब्दः । पश्चादर्थे सादृश्ये अनुशब्दः । प्रश्ने अवधारणे अनुज्ञायां अनुनये सान्त्वने आमत्रणे ननुशब्दः । गोंयां समुच्चये प्रश्ने शङ्कायां संभावनायां अपिशब्दः । उपमायां विकल्पे वाशब्दः । अर्धे जुगु. प्सिते च सामि। सहार्थे समीपे अमा। वारिणि मूर्धनि च कम । इवार्थे इत्थमर्षे च एवंशब्दः । तर्के अर्थनिश्रये च नूनम् । तूष्णीमर्थे मौने मुखे च For Private and Personal Use Only

Loading...

Page Navigation
1 ... 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339