Book Title: Amar Kosh
Author(s): Narayanram Acharya
Publisher: Chaukhamba Sanskrit Bhavan
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
२३८
अमरकोषे
[ ५. नानार्थवर्गः
२८१२
२८१३
२८१४
व्यूहो वृन्देऽप्यहिर्वृत्रेऽप्यग्नीन्द्र को स्तमोपहाः परिच्छदे नृपाऽर्थे परिबर्होऽव्ययाः परे आङीषदर्थेऽभिव्याप्तौ सीमार्थे धातुयोगजे आ प्रगृह्यः स्मृतौ वाक्येऽप्यास्तु स्यात्कोपपीडयोः २८१५ पापकुत्सेषदर्थे कु धिङ निर्भर्त्सननिन्दयोः चान्वाचयसमाहारेतरेतरसमुच्चये
२८१६
स्वस्त्याशीः क्षेमपुण्यादौ प्रकर्षे लङ्घनेऽप्यति स्वित्प्रश्ने च वितर्के च तु स्याद्भेदेऽवधारणे सकृत्सहैकवारे चाप्याराद्दरसमीपयोः प्रतीच्यां चरमे पश्चादुताप्यर्थविकल्पयोः पुनः सहार्थयोः शश्वत्साक्षात्प्रत्यक्षतुल्ययोः खेदानुकम्पासंतोषविस्मयामन्त्रणे बत
२८१७
२८१८
२८१९
२८२०
२८२१
२८२२
२८२३
विन्यासेऽपि व्यूहः । वृत्रासुरे सर्वेऽप्यहिः । वह्निचन्द्रसूर्यास्तमोपहाः । नृपाहैं ये राजयोग्यद्रव्ये सितच्छत्रादौ परिबर्हः । परेऽत ऊर्ध्व वक्ष्यमाणा आादिशब्दा अव्यया उच्यन्ते । तेषामत्र वर्गे उपन्यासस्तु पूर्ववन्नानार्थत्वात् । आङित्यव्ययं ईषदर्थे अभिव्याप्तौ सीमार्थे धातुयोगजे क्रियायोगजेऽर्थे यः प्रगृत्यसंज्ञकः आ इति निपातः स स्मृतौ स्मरणे वाक्ये वाक्यपूरणे च वर्तते । सविसर्गस्तु आ इति निपातः, स पीडायां कोपे च वर्तते । पापे कुत्सायां ईषदर्थे कुशब्दः । अपकारशब्देर्भयोत्पादनं निर्भर्त्सनम् । तत्र निन्दायां च धिक् । अन्यतरस्यानुषङ्गिकत्वेऽन्वाचयः, समाहारः समूहः, मिलितानामन्वय इतरेतरयोगः, परस्परनिरपेक्षस्यानेकस्यैकस्मिन्नन्वयः, समुच्चयः, एतेषु चशब्दः । आशीराशीर्वादः, तत्र क्षेमे निरुपद्रवे, पुण्ये, आदिना मङ्गलेऽपि स्वस्ति । प्रकर्षे, लङ्घने, अपिना मृशेऽप्यति । प्रश्नवितर्कयोः स्वित् । मेदावधारणयोः तुशब्दः । सहार्थे एकवारे च सकृत् । दूरे समीपे तु आरात् । प्रतीच्यां पश्चिमदिशि । चरमेऽन्त्ये च पश्चात् । अपिशब्दस्यार्थः समुष्ययस्तत्र विकल्पे च उतशब्दः । पुनरर्थे पौनःपुन्ये सहार्थे च शश्वत् । प्रत्यक्षे तुल्ये च साक्षात् ।
For Private and Personal Use Only

Page Navigation
1 ... 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339