Book Title: Amar Kosh
Author(s): Narayanram Acharya
Publisher: Chaukhamba Sanskrit Bhavan
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
२५२
अमरकोषे
[५. लिङ्गादिसंग्रहवर्गः
षष्ठयन्तप्राक्पदाः सेनाछायाशालासुरानिशाः २९७४ स्याद्धा नृसेनं श्वनिशं गोशालमितरे च दिक्
२९७५ आवन्नन्तोत्तरपदो द्विगुश्चापुंसि नश्च लुपू २९७६
(अथ त्रिलिङ्गशेषसंग्रहः ) त्रिखद्रं च त्रिखट्टी च त्रितक्षं च त्रितक्ष्यपि २९७७
(अथ लिङ्गादिसंग्रहवर्गः ) त्रिषु पात्री पुटी वाटी पेटी कुवलदाडिमौ २९७८ परं लिङ्गं स्वप्रधाने द्वन्द्वे तत्पुरुषेऽपि तत् २१७९ अर्थान्ताः प्राद्यलंप्राप्तापन्नपूर्वाः परोपगाः २९८० तद्धितार्थो द्विगुः संख्यासर्वनामतदन्तकाः २९८१ बहुव्रीहिरदिङ्नाम्नामुन्नेयं तदुदाहृतम्
२९८२ गुणद्रव्यक्रियायोगोपाधिभिः परगामिनः
२९८३ कृतः कर्तयेसंज्ञायां कृत्याः कर्तरि कर्मणि
२९८४ प्राक्पदं यासां ताः पठ्यन्तप्राक्पदाः सेना, छाया, शाला, सुरा, निशा, एते शब्दाः स्त्रियां क्लीबे च स्युः । उदाहरति-नृसेनं नृसेना का इतर इति । एवमन्यत्राप्युदाहर्तव्यम् । आबन्तोत्तरपदोऽन्नन्तोत्तरपदश्च द्विगुसमासः पुंसि न स्यात् । किंतु झी-नपुंसकयोः । अन्नन्तोत्तरपदस्य योऽन्त्यन कारस्तस्य लप लोपक्ष स्यात् । आवन्तान्त्यपदमुदाहरति-त्रिखट्वं त्रिखट्वी च । त्रितक्षं त्रितक्षी च । तक्षशब्दस्थान्त्यनकारो लुप्तः ॥ पात्री, पुटी, वाटी, पेटी, कुवलः, दाडिमः, इति शब्दाः त्रिषु त्रिलिङ्गाः द्वन्द्वैकत्वस्याव्ययीभावस्य च लिङ्गं प्रागुक्तम् । स्वप्रधाने उभयपदप्रधाने । इतरेतराख्ये द्वन्द्वसमासे च तत्पुरुषे च यत्परमग्रिमपदस्थं लिङ्गं तदेव लिङ्गं स्यात् । उक्तस्य तत्पुरुषलिङ्गस्यापवादमाह-अर्थेति । अर्थान्तशब्दाः परोपगाः परगामिनः वायलिङ्गाः । प्राद्यलंप्राप्तापन्नपूर्वाः परोपगाः । तद्धितार्थो द्विगुर्वाच्यलिङ्गः । संख्याशब्दाः सर्वनामसंज्ञकास्तदन्तकाश्च परलिङ्गभाजः । अदिङ्नानां बहुव्रीहिरन्यलिङ्गभाक् । तदुदाहरणं खयमुन्नेयम् । गुणयोगेन द्रव्ययोगेन क्रियायोगेन च य उपाधिर्विशेषणं तेन धर्मिणि प्रवृत्तास्ते धर्मिलिङ्गभाजः । असंज्ञायां कर्तरि कृत्प्रत्ययाः । कर्मणि कर्तरि च वर्तमानाः कृत्प्रत्ययाः परगामिनः।
For Private and Personal Use Only

Page Navigation
1 ... 335 336 337 338 339