Book Title: Amar Kosh
Author(s): Narayanram Acharya
Publisher: Chaukhamba Sanskrit Bhavan
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
२५३
२९८५ २९८६ २९८७
पतयः २९७४-२९८९] तृतीयं काण्डम् अणाद्यन्तास्तेन रक्ताद्यर्थे नानार्थभेदकाः पदसंज्ञकास्त्रिषु समा युष्मदस्मत्तिडव्ययम् परं विरोधे शेषं तु ज्ञेयं शिष्टप्रयोगतः
८. काण्डसमाप्तिः इत्यमरसिंहकृती नामलिङ्गानुशासने सामान्यकाण्डस्तृतीयः साङ्ग एव समर्थितः
इत्यमरसिंहकृतोऽमरकोषः समाप्तः ।
२९८८ २९८९
तेन रक्तमित्याद्यर्थे अणादितद्धितप्रत्ययान्ता नानार्थभेदका अनेकार्थविशेषणभूताः विशिष्ट याद्वाच्यलिङ्गा इत्यर्थः । रक्ताद्यर्थ इत्यादिशब्दान्मथुराया आगतो माथुरोऽयम् । षट्संज्ञकाः षान्तनान्तसंख्या कतिशब्दश्च त्रिलिङ्गयां समाः सरूपा नित्यं बहुषु वर्तमानाः अतो बहुवचनान्ताश्च । युष्मदस्मच्छन्दौ तिङन्तपदान्यव्ययानि च त्रिषु समानि । परमिति । विरोधे विप्रतिषेधे सति परं लिङ्गानुशासनं प्रवर्तते । अभिधानादिकं शिष्टानां महाकवीनां भाष्यकारादीनां प्रयोगतो ज्ञेयम् । यद्वा अनुक्तं शब्दलिङ्गं शिष्ट प्रयोगतो बोद्धव्यम् ॥
२९८८-२९८९ उक्तमुपसंहरति-इतीति । इत्येवंप्रकारेणामरसिंहस्य कृती नामलिङ्गशास्त्रे सामान्यनामा तृतीयः काण्डः प्रस्तावो वर्गसमूहो वा अङ्गैः सहितः समर्थितो निरूपितः ॥
इन्द्रश्चन्द्रः काशकृत्स्नापिशली शाकटायनः ।
पाणिन्यमरजैनेन्द्री जयन्त्यष्टादिशब्दिकाः ॥ इति श्रीमत्यमरविवेके महेश्वरेण विरचित इत्यं सामान्यकाण्ड
एषोऽन्तिमः समाप्तः।
-
For Private and Personal Use Only

Page Navigation
1 ... 336 337 338 339