Book Title: Amar Kosh
Author(s): Narayanram Acharya
Publisher: Chaukhamba Sanskrit Bhavan
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
अमरकोषे
[७. लिङ्गादिसंग्रहवगेः
उपज्ञोपक्रमान्तश्च तदादित्वप्रकाशने
२९५० कोपज्ञकोपक्रमादि कन्थोशीनरनामसु
२९५१ भावे नणकचियोऽन्ये समूहे भावकर्मणोः २९५२ अदन्तप्रत्ययाः पुण्यसुदिनाभ्यां त्वहः परः
२९५३ क्रियाव्ययानां भेदकान्येकत्वेऽप्युक्थतोटके २९५४ चोचं पिच्छं गृहस्थूणं तिरीटं मर्म योजनम्
२९५५ राजसूयं वाजपेयं गद्यपद्ये कृतौ कवेः
२९५६ माणिक्यभाष्यसिन्दूरचीरचीवरपिञ्जरम्
२९५७ लोकायतं हरितालं विदलस्थालवाह्निकम्
२९५८ (अथ पुनपुंसकसंग्रहः) पुनपुंसकयोः शेषोऽर्धर्चपिण्याककण्टकाः
२९५९ मोदकस्तण्डकष्टङ्कः शाटकः कर्पटोऽर्बुदः २९६० पातकोद्योगचरकतमालामलका नडः
२९६१ दीनि क्रमेण त्रीण्युदाहरणानि, तत्र दासीसभमित्यादि तु संहतावित्यस्यैव । इतरे तु शालासंहतिसाधारणे । तयोरुपज्ञोपक्रमयोरादित्वं प्राथम्यं तस्य प्रकाशने द्योतने उपशान्त उपक्रमान्तश्च समासः क्लीबे स्यात् । उदाहरणमाह-को ब्रह्मा तस्योपज्ञा कोपझं प्रजा । कस्योपक्रमः कोपक्रमं लोकाः । अत्रापि षष्ट्या इत्यनुवर्तते, उशीनराणां नामसु मध्ये षष्ठ्यन्तात्परा कन्था क्लीबे । चकार इत् अनुबन्धो यस्य स चित् । नश्च णश्च कश्च चिच्च नणकचितः । तेभ्योऽन्ये ये तव्यदादयोऽदन्ता धातुप्रत्यया भावे विहितास्ते क्लीबे । पुण्यसुदिनाभ्यां परो विहितसमासान्तोऽहनशब्दः क्लीबे । क्रियाणामव्ययानां च भेदकानि विशेषणानि क्लीबे एकवचने च स्युः । अथ कानिचित्कण्ठरवेणाह-उक्थम् , तोटकम्, चोचम् , पिच्छम् , गृहस्थूणम् , तिरीटम् , मर्म , योजनम् , राजसूयम् , वाजपेयम् , कवेः कृतौ वर्तमानं गद्यम् , पद्यम् ,माणिक्यम् ,भाष्यम् , सिंदूरम् , चीरम् , चीवरम् , पिञ्जरम् , लोकायतम् , हरितालम्, विदलम् , स्थालम् , बाह्निकम्, इति । अथ चिक्कसपर्यन्ताः पुंसि क्लीबे च स्युः । उक्तादन्यः शेषः। ऋचोऽर्धमर्धर्चः, पिण्याकम् , कण्टकम् , मोदकम् , तण्डकः, टङ्कः, शाटकः, कर्पटः, अर्बुदः, पातकम् , उद्योगः, चरकम् , तमालः,
For Private and Personal Use Only

Page Navigation
1 ... 333 334 335 336 337 338 339