Book Title: Amar Kosh
Author(s): Narayanram Acharya
Publisher: Chaukhamba Sanskrit Bhavan
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
पतयः २९२८-२९४९] तृतीयं काण्डम्
२४९ जलपुष्पाणि लवणं व्यञ्जनान्यनुलेपनम्
२९४१ कोव्याः शतादिसंख्याऽन्या वा लक्षा नियुतं च तत् २९४२ घ्यच्कमसिसुसन्नन्तं यदनान्तमकर्तरि
२९४३ त्रान्तं सलोपधं शिष्टं रात्रं प्राक्संख्ययान्वितम् २९४४ पात्राद्यदन्तरेकार्थो द्विगुर्लक्ष्यानुसारतः
२९४५ द्वन्द्वैकत्वाव्ययीभावौ पथः संख्याव्ययात्परः २९४६ षष्ट्याश्छाया बहूनां चेद्विच्छायं संहतौ सभा २९४७ शालार्थापि पराराजामनुष्यार्थादराजकात् २९४८ दासीसभं नृपसभं रक्षःसभमिमा दिशः
२९४९
भम् , जलपुष्पाणि, लवणम् , व्यञ्जनं अनुलेपनम् , इति । अत्र बाधितादन्यत् इति कम् । आकाशो विहायाः द्यौः। अटवी अरण्यानीत्यादिकम् । एवमन्यदप्यूह्यम् । कोट्या अन्या कोटिशब्दं विना या शतादिसंख्या सा क्लीबे स्यात् । लक्षाशब्दो वा क्लीबे । पक्षे स्त्रियाम् । तदिति लक्षस्य पर्यायो नियुतम् । असन्तमिसन्तमुसन्तमन्नन्तं च यत् यच्कं द्विस्वरं तत्क्लीबे । अकर्तरि कर्तुरन्यत्र यदनान्तं अनेत्यन्ते यस्य तत्कीबे । त्रान्तं क्लीबे । सकारो लकारो वा उपधा अन्त्यात्पूर्वो यस्य तत् सलोपधम् । शिष्टमिति यदवशिष्टं प्रागुक्तादन्यत् तच्च प्रागुक्तम् । संख्यापूर्वो रात्रशब्दः क्लीवे। पात्रादिभिरदन्तैरेकार्थो यो द्विगुः स क्लीबे। आदिना चतुर्युगम् । लक्ष्यानुसारतः शिष्टप्रयोगानुगमेनेत्यर्थः । द्वन्द्वसमासस्यैकत्वं अव्ययीभावश्च क्लीवे । संख्याया अव्ययाच परः पथः क्लीबे । समासे षष्ठीविभक्त्यन्तात्परा छाया क्लीबे । सा चेद्बहूनां संबन्धिनी तयव तदुदाहरति-वीनां पक्षिणां छाया विच्छायमिति । बहूनामिति किम् ? कुड्यच्छाया कुज्यच्छायमिति वा । संहतो समूहविषये सभाशब्दः क्लीबे । अत्रापि षष्ट्या इत्यनुवर्तते। शालार्था, गृहार्था 'अपि'शब्दात् संहत्यर्था च या सभा सा अराजकात् राजशब्दविवर्जितात् राजामनुष्यार्थात् राजार्थाद्राजपर्यायात् अमनुष्यार्थाद्रक्षआदिशब्दात्षष्ट्यन्तात्परा चेत् क्लीबे । षष्ट्या इति किम् ? नृपतिविषये सभा नृपतिसभा । नृणां पतिर्यस्यां सा चासौ सभा चेति वा नृपतिसभा। अमनुष्यार्थादिति किम् ? दासीसभा। इमा दिश इति दासीसभमित्या
For Private and Personal Use Only

Page Navigation
1 ... 332 333 334 335 336 337 338 339