Book Title: Amar Kosh
Author(s): Narayanram Acharya
Publisher: Chaukhamba Sanskrit Bhavan

View full book text
Previous | Next

Page 332
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir पङ्कयः २९०९-२९२७ ] तृतीयं काण्डम् कशेरुजतुवस्तूनि हित्वा तुरुविरामकाः कषणभमरोपान्ता यद्यदन्ता अमी अथ पथनयसटोपान्ता गोत्राख्याश्चरणाह्वयाः नामकर्तरि भावे च घञजब्नङ्गघाथुचः ल्युः कर्तरीमनिज्भावे को घोः किः प्रादितोऽन्यतः २९२५ द्वन्द्वेऽश्ववडवावश्ववडवा न समाहृते कान्तः सूर्येन्दुपर्यायपूर्वोऽयः पूर्वकोऽपि च २९२४ २९२६ २९२७ २४७ For Private and Personal Use Only २९२१ २९२२ २९२३ 1 धूपादयः । चकाराद्गुग्गुलुसिह्नकादयः । अस् च अन् च तावन्तौ येषां ते असन्नन्ता द्व्यच्कमसि सुसन्नन्तमित्यादिना वक्ष्यमाणेन अप्सरभहीनां पूर्वोक्तेन च बाधकेनाबाधिताश्चेत्पुंसि स्युः। अबाधिता इति किम् ? इदं वयः । इदं लोम । तुश्च रुश्च तुरू तौ विरामे येषां ते तुरुविरामकाः । कशेरुजतुवस्तूनि हित्वा तुराब्दान्ताश्च रुशब्दान्ताश्च पुंसि स्युः । कषणभमराः षड्वर्णा उपान्ते अन्त्यसमीपे येषां ते तथा । यदीति । यदि एते कादिवर्णषट्कोपान्ता अदन्ताः स्युस्तर्हि पुंसि भवन्ति । पथनयसटवर्णषट्कोपान्ताः अबाधिताश्चेत्पुंसि स्युः । अत्र ययदन्ता इति पूर्वोक्तं न संबध्यते । अथादित्वात् । गोत्रेति । गोत्रं वंशः तस्मिन्नाख्या संज्ञा येषां ते गोत्राख्या ऋषिसंज्ञकाः गोत्रस्यादिपुरुषाः ये प्रवराध्यायपठिताः येऽप्यन्ये अपत्यप्रत्ययं विना गोत्रवाचि - त्वेन लोके प्रसिद्धास्ते पुंसि स्युः । चरणस्य वेदशाखाया आह्वायाः संज्ञाः पुंसि स्युः । नाम्नि संज्ञायां अकर्तरि च कारके भावमात्रे च विहितास्ते घञ्, अच्, अपू, नब्, ण, घ, अथुच्, एते सप्त प्रत्ययाः पुंसि स्युः । भावे चेति चकाराद, संज्ञायां च घञ्, गृहीतः । ल्युरिति । कर्तरि नन्द्यादिल्युः पुंसि स्यात् । भावे पृथ्वादिभ्यो य इमनिच् स पुंसि स्यात् । भाव इति किम् ? वृणोतीति वरिमा पृथ्वी । अत्र भावे इति शब्दो देहलीदीपन्यायेन पूर्वत्र परत्र च संबध्यते । प्रादितः अन्यतश्च परो यो घुसंज्ञो धातुस्तस्माद्विहितः किप्रत्ययः पुंसि स्यात् । द्वन्द्वे समाहारादन्यत्र द्वन्द्वसमासेऽश्ववडवौ पुंसि । स्वयमेवोदाहरति — अश्वाथ वडवाश्चाश्ववडवाः । एवमश्ववडवान्, अश्ववड वैरित्यादिप्रयोगः । समाहारे त्वश्ववडवमिति क्लीबम् । सूर्यचन्द्रपर्यायपूर्वकः कान्तशब्दः पुंसि । भयोवाचकपूर्वकोऽपि कान्तः पुंसि । इदानीं पुल्लिङ्गविशेषपर्यन्तमनुक्तानां कान्तादिक्रममनतिक्रम्याह

Loading...

Page Navigation
1 ... 330 331 332 333 334 335 336 337 338 339