Book Title: Amar Kosh
Author(s): Narayanram Acharya
Publisher: Chaukhamba Sanskrit Bhavan
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
२४६
Acharya Shri Kailassagarsuri Gyanmandir
अमरकोषे
लङ्का शेफालिका टीका धातकी पञ्जिकाढकी सिधका सारिका हिक्का प्राचिकोल्का पिपीलिका तिन्दुकी कणिका भङ्गिः सुरङ्गासूचिमाढयः पिच्छावितण्डाकाकिण्यवर्णिः शाणी गुणी दरत् सातिः कन्था तथासन्दी नाभी राजसभापि च झल्लरी चर्चरी पारी होरा लट्टा च सिध्मला लाक्षा लिक्षा च गण्डूषा गृध्रसी चमसी मसी ( अथ पुल्लिङ्गशेषसङ्ग्रहः )
पुंस्त्वे सभेदानुचराः सपर्यायाः सुरासुराः स्वर्गयागाद्विमेघाब्धिकालासिशरारयः करगण्डोष्ठदोर्दन्तकण्ठकेशनखस्तनाः
अह्नाहान्ताः क्ष्वेडभेदा रात्रान्ताः प्रागसंख्यकाः श्रीवेष्टाद्याश्च निर्यासा असन्नन्ता अबाधिताः
[ ७. लिङ्गादिसंग्रह वर्ग:
२९०९
२९१०
२९११
२९१२
२९१३
२९१४
२९१५
For Private and Personal Use Only
२९१६
२९१७
२९१८
२९१९
२९२०
चिन्नाम्नां सुखेन लिङ्गज्ञानाय पृथक् पाठं कान्तादिक्रमेणाह - लङ्केति । लङ्का, शेफालिका, टीका, घातकी, पञ्जिका, आढकी, सिध्रका, सारिका, हिका, प्राचिका, उल्का, पिपीलिका, तिन्दुकी, कणिका, भङ्गिः, सुरङ्गा, सूचिः, माढिः, पिच्छा, वितण्डा, काकिणी, चूर्णिः, शाणी, गुणी, दरतू, सातिः, कन्था, आसन्दी नाभिः, राजसभा, झल्लरी, चर्चरी, पारी, होरा, लङ्का, सिध्मला, लाक्षा, लिक्षा, गण्डूषा, गृध्रसी, चमसी, मसी, इति । पुंस्त्वे इति पतद्रहशब्दपर्यन्तमधिकारः । मेदास्तुषितसाध्यादयः, अनुचराः सुनन्दादयः तैः सहिताः सुरासुरा देवदैत्याः पर्यायैः सह पुंसि । स्वर्गः, यागः, अद्रिः, मेघः, अब्धिः, दुः, कालः, असिः, शरः, अरिः, करः, गण्डः, ओष्ठः, दोः, दन्तः, कण्ठः, केशः, नखः, स्तनः, एते ऊनविंशतिः समेदाः सपर्यायाश्च पुंसि स्युः । अह्नः अहश्च एतदन्ताः पुंसि स्युः क्ष्वेडभेदा विषविशेषाः पुंस्त्वे स्युः । रात्रान्ता इति समासान्तस्यैकदेशानुकरणम् । एवमुत्तरत्रापि । रात्रशब्दोऽन्ते येषां ते यदि प्राकू असंख्यावाचकशब्दरहितास्तर्हि पुंसि । श्रीवेष्टादयो ये निर्यासाः द्रवसारवाचकास्ते पुंसि स्युः । आद्येन श्रीवासवृक
,

Page Navigation
1 ... 329 330 331 332 333 334 335 336 337 338 339