Book Title: Amar Kosh
Author(s): Narayanram Acharya
Publisher: Chaukhamba Sanskrit Bhavan

View full book text
Previous | Next

Page 322
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ० पतयः २७८९-२८११] तृतीयं काण्डम् २३७ ओकः सद्माश्रयश्चौकाः पयः क्षीरं पयोऽम्बु च ओजो दीप्तौ वले स्रोत इन्द्रिये निम्नगारये २८०२ तेजः प्रभावे दीप्तौ च बले शुक्रेऽप्यतस्त्रिषु २८०३ विद्वान्विदंश्च बीभत्सो हिंस्रोऽप्यतिशये त्वमी २८०४ वृद्धप्रशस्ययोायान्कनीयांस्तु युवाल्पयोः २८०५ वरीयांस्तूरुवरयोः साधीयान्साधुबाढयोः २८०६ दलेऽपि बहं निर्बन्धोपरागार्कादयो ग्रहाः २८०७ द्वार्यापीडे काथरसे नि!हो नागदन्तके २८०८ तुलासूत्रेऽश्वादिरश्मौ प्रग्राहः प्रग्रहोऽपि च २८०९ पत्नीपरिजनादानमूलशापाः परिग्रहाः २८१० दारेषु च गृहाः श्रोण्यामप्यारोहो वरस्त्रियाः २८११ काशः । तत्र नभः क्लीबे । श्रावणे पुंसि । सद्मनि गृहे ओकः । आश्रय आश्रयमानं ओकाः । क्षीरे पयसि अम्बुनि च पयः । दीप्तौ बले ओजः । इन्द्रियनदीवेगयोः स्त्रोतः । प्रभवादिचतुष्के तेजः । अतः परं सान्तसमाप्तिपर्यन्ता वाच्यलिङ्गाः । विदन् ज्ञाता । चकारादात्मज्ञोऽपि विद्वान् । हिंस्र क्रूरे । 'अपि'शब्दाद्रसमेदेऽपि बीभत्सः। अमी वक्ष्यमाणा ज्यायआदयः साधीयःपर्यन्ताः सान्ता वृद्धादीनां बाढपर्यन्तानां अतिशये ज्ञेयाः । अतिशयेन वृद्धे प्रशस्ये स्तुत्ये च ज्यायान् । अतिशयितयोर्युवाल्पयोः कनीयान् । उरुर्महान् वरः श्रेष्ठस्तयोरतिशयितयोर्वरीयान् । अतिशयेन साधुः साधीयान् । अतिशयितं बाढं साधीयः । दले पत्रे, 'अपि'शब्दापिछेऽपि वहम् । निर्बन्ध आग्रहविशेषः, उपरागश्चन्द्रार्कप्रहणम् । तत्र ग्रहः । द्वारि द्वारे, आपीडे शेखरे, क्वाथरसे कथितद्रव्यरसे, नागदन्तके गृहादिभित्तिस्थकीलद्वये निर्ग्रहः । हस्ते यद्गृहीत्वा तुलया द्रव्यमुन्मीयते तत्तुलासूत्रं तत्र । अश्ववृषादिरश्मौ च प्रग्राहप्रग्रहौ । परिजनः परिवारः, आदानं खीकारः । तत्र पन्नीमूलशापेषु च परिग्रहः । दारेषु पन्यां, चकारात्सानि गृहाः पुंभूग्नि । या वरस्त्री उत्तमा स्त्री तस्याः श्रोण्यां कय्यामारोहः। 'अपि'शब्दादवरोहे गजारोहे च । वृन्दे, 'अपि'शब्दावल For Private and Personal Use Only

Loading...

Page Navigation
1 ... 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339