Book Title: Amar Kosh
Author(s): Narayanram Acharya
Publisher: Chaukhamba Sanskrit Bhavan

View full book text
Previous | Next

Page 301
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir २१६ भमरकोपे [५. नानार्थवर्गः विधिविधाने दैवेऽपि प्रणिधिः प्रार्थने चरे २५३४ बुधवृद्धौ पण्डितेऽपि स्कन्धः समुदयेऽपि च २५३५ देशे नदविशेषेऽन्धौ सिन्धुना सरिति स्त्रियाम् २५३६ विधा विधौ प्रकारे च साधू रम्येऽपि च त्रिषु २५३७ वधूर्जायां स्नुषा स्त्री च सुधा लेपोऽमृतं स्नुही २५३८ संधा प्रतिज्ञा मर्यादा श्रद्धा संप्रत्ययः स्पृहा २५३९ मधु मद्ये पुष्परसे क्षौद्रेऽप्यन्धं तमस्यपि २५४० अतस्त्रिषु समुन्नद्धौ पण्डितंमन्यगर्वितौ २५४१ ब्रह्मबन्धुरधिक्षेपे निर्देशेऽथावलम्बितः २५४२ अविदूरोऽप्यवष्टब्धः प्रसिद्धौ ख्यातभूषितौ २५४३ सूर्यवह्नी चित्रभानू भानू रश्मिदिवाकरौ २५४४ भूतात्मानौ धातृदेही मूर्खनीचौ पृथग्जनौ २५४५ शुभकर्मणि ब्रह्मण्यपि विधिः । प्रार्थने चरे च प्रणिधिः । बुधवृद्धौ पण्डितेऽपि वर्तते । 'अपि'शब्दात् बुधः सौम्ये। वृद्धः स्थविरे। समुदये समूहे। 'अपि'शब्दात्काण्डे नृपेंडसे च स्कन्धः । देशभेदेऽब्धी समुद्रे सिन्धुशब्दः पुंसि । नदीसामान्ये तु स्त्रीलिङ्गे । सिन्धुः । विधौ विधाने, प्रकारे विधाशब्दः स्यात् । रम्ये, 'अपि'शब्दाद्वार्धषिके सजने साधुः । जाया भार्या । मुषा पुत्रस्य पत्नी। तत्र स्त्रीमात्रे च वधूः । देवालयादि येन लिप्यते स लेपचूर्णविशेषः । अमृते सुह्यामपि सुधा । प्रतिज्ञा स्वीकारः । मर्यादा च संधा । संप्रत्यय आदरः । स्पृहा काटा तत्र श्रद्धेति । मद्ये पुष्परसे, क्षौद्रे माक्षिके च मधु । तमसि अक्षिहीनेऽपि अन्धशब्दः । अतः परे धान्तवर्गपर्यन्तास्त्रिषु । पण्डितमात्मानं मन्यते पण्डितमन्यः । गर्वितश्च समुन्नद्धः । अधिक्षेपे निन्दाप्रयोगे निर्देशे च ब्रह्मबन्धुरिति । अवलम्बितः आश्रितः । अविदूरः सन्निहितः । उभाषवष्टब्धौ। 'अपि'शब्दाद्बद्धोऽपि। ख्यातभूषितौ प्रसिद्धौ । सूर्ये वहौ चचित्रभानुः । रश्मिर्दिवाकरश्च भानुः । भूतं चात्मा च । धाता च देहश्च । मूखो नीचो हीन For Private and Personal Use Only

Loading...

Page Navigation
1 ... 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339