Book Title: Amar Kosh
Author(s): Narayanram Acharya
Publisher: Chaukhamba Sanskrit Bhavan
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
२२२
अमरकोषे
सभा संसदि सभ्ये च त्रिष्वध्यक्षेऽपि वल्लभः किरणप्रग्रह रश्मी कपिभेकौ लवंगमौ इच्छा मनोभवौ कामौ शौर्योद्योगौ पराक्रमौ धर्माः पुण्ययमन्याय स्वभावाचारसोमपाः उपायपूर्व आरम्भ उपधा चाप्युपक्रमः वणिक्पथः पुरं वेदो निगमो नागरो वणिक् नैगमौ द्वौ बले रामो नीलचारुसिते त्रिषु शब्दादिपूर्वो वृन्देऽपि ग्रामः क्रान्तौ च विक्रमः स्तोमः स्तोत्रेऽध्वरे वृन्दे जिह्मस्तु कुटिलेऽलसे उष्णेऽपि धर्मश्चेष्टालंकारे भ्रान्तौ च विभ्रमः गुल्मा रुक्स्तम्बसेनाश्च जामिः स्वसृकुलस्त्रियोः क्षितिक्षान्त्योः क्षमा युक्ते क्षमं शक्ते हिते त्रिषु
[ ५. नानार्थवर्ग:
२६०९
२६१०
२६११
२६१२
२६१३
२६१४
२६१५
२६१६
२६१७
२६१८
२६१९
२६२०
सन्तजातीफलचम्पकेषु ना सुगन्धिमनोज्ञयोस्त्रिषु । सुवर्णे पङ्कजे च क्लीबम् । संसदि सदसि सभ्यः सदस्यः सभा । अध्यक्षे अपिशब्दाद्दयिते च वल्लभः । अश्वादेर्बन्धनरज्जुः प्रग्रहः किरणश्च रश्मिः । कपौ मेके च प्लवंगमः । मनोभवो मदनः इच्छा च कामः । शौर्य सामर्थ्यम् । उद्योगश्च पराक्रमः । पुण्या दिषट्के धर्मशब्दः । उपायं ज्ञात्वा य आरम्भः स उपायपूर्वः । अमात्यशीलपरीक्षोपाय उपधा । चिकित्सायां चोपक्रमः । वणिक्पथो वणिज्यम् । पुरं नगरम् । वेद आम्नायः । एते निगमाः । नगरे भवो नागरः वणिकू चैतौ नैगमौ । बले बलदेवे पुंसि । नीलादिषु त्रिलिनयां रामशब्दः । शब्दादिपूर्वो ग्रामशब्दो वृन्दे वर्तते । 'अपि' शब्दात्संवसथे ग्रामः । क्रान्तौ विक्रमे परक्रमे च विक्रमः । स्तोत्रेऽध्वरे वृन्दे च स्तोमः । कुटिले खले अलसे जडे च जिह्नः । उष्णे धर्मः । चेष्टायां अलंकारे भ्रान्तौ च विभ्रमः । रुक् रोगभेदः प्लीहाख्यः । स्तम्बः कुशादिगुच्छः । सैन्यरक्षणे च गुल्मशब्दः । स्वसा भगिनी, कुलस्त्री कुलवधूः तयोर्खामिशब्दः । क्षितिर्भूमिः । क्षान्तिस्तितिक्षा तयोः क्षमा । युके योग्ये क्षमं क्लीवम् । शक्ते हिते क्षमस्त्रिलिङ्गः । हरित्पाकशः
For Private and Personal Use Only

Page Navigation
1 ... 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339