Book Title: Amar Kosh
Author(s): Narayanram Acharya
Publisher: Chaukhamba Sanskrit Bhavan
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
पतयः २४३७-२४६१] तृतीयं काण्डम् देवसूर्यों विवस्वन्तौ सरस्वन्तौ नदार्णवौ
२४४९ पक्षिताक्ष्यों गरुत्मन्तौ शकुन्तौ भासपक्षिणी
२४५० अग्युत्पातौ धूमकेतू जीमूतौ मेघपर्वतो
२४५१ हस्तौ तु पाणिनक्षत्रे मरुतौ पवनामरौ
२४५२ यन्ता हस्तिपके सूते भर्ता धातरि पोष्टरि २४५३ यानपात्रे शिशौ पोतः प्रेतःप्राण्यन्तरे मृते २४५४ ग्रहभेदे ध्वजे केतुः पार्थिवे तनये सुतः
२४५५ स्थपतिः कारुभेदेऽपि भूभृद्भूमिधरे नृपे
२४५६ मूर्धाभिषिक्तो भूपेऽपि ऋतुः स्त्रीकुसुमेऽपि च २४५७ विष्णावप्यजिताव्यक्तौ सूतस्त्वष्टरि सारथौ २४५८ व्यक्तः प्राज्ञेऽपि दृष्टान्तावुभौ शास्त्रनिदर्शने २४५९ क्षत्ता स्यात्सारथौ द्वाःस्थे क्षत्रियायां च शूद्रजे '२४६० वृत्तान्तः स्यात्प्रकरणे प्रकारे कार्यवार्तयोः २४६१ रिणमिति स्यात् । देवसूर्यो विवस्वन्तौ । नदार्णवौ सरवन्तौ । पक्षिताक्ष्यो गरुत्मन्तौ । भासपक्षिणौ शकुन्तौ । अन्युत्पातौ धूमकेतू । मेघपर्वतौ जीमूतौ । पाणिः करः नक्षत्रं त्रयोदशम् । उमे हस्तौ । पवनो वायुरमरश्च मरु- . संज्ञौ । महामात्रसारथी यन्तारौ । धाता धारकः । पोष्टा च भर्ता । यानपात्रे चहित्रे शिशौ पोतः। प्राण्यन्तरे भूतान्तरे मृते च प्रेतः । ग्रहमेदे ध्वजे च केतुः। पार्थिवे राज्ञि। तनये पुत्रे च सुतः। कारुः शिल्पी तनेदे, अपि'शब्दात्कअकिनि जीवेष्टियाजके च स्थपतिः। भूमिधरे शैले नृपे च भूभृत्। भूपे 'अपि'शब्दात् प्रधाने क्षत्रियमात्रे च मूर्धाभिषिक्तः । स्त्रीकुसुमे रजसि हेमन्तादौ च ऋतुः। अजितश्चाव्यक्तश्चेति विष्णावपि वर्तेते। 'अपि'शब्दादपरिभूते शंकरे चाजितः । त्वष्टार शिल्पिमेदे । सारथौ च सूतः। प्राज्ञे स्फुटेऽपि व्यकः । शास्त्रं तर्कोदि । निदर्शनमुदाहरणम् । उभौ दृष्टान्तौ। सारथी द्वाःस्थे द्वारपाले शूद्राक्षत्रियायां जाते च सत्ता। चात् भुजिष्यातनये । प्रकरणं प्रस्तावः, प्रकारो भावः, काय साकल्यम् , वार्ता जनश्रुतिः, एतेषु वृत्तान्तः । समरे युद्धे ।
अ. को. मा. ११
For Private and Personal Use Only

Page Navigation
1 ... 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339