________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
अलङ्कारमहोदधौ
व्युत्पत्ति व्याचष्टेलोके शब्दादिशास्त्रेषु काव्य-नाट्य-कथासु च । आगमादिषु च प्रौटिव्युत्पत्तिरिति कथ्यते । ८॥ लोके स्थावर-जङ्गमात्मनो लोकस्य वृत्ते, शब्दादिशास्त्रेषु व्याकरणच्छन्दोऽनुशासनाभिधानकोश-गजाश्वलक्षण-भरत--चाणक्य-वात्स्यायनाध्यात्मप्रभृतिग्रन्थेषु, काव्येषु रघुवंशादिषु, नाट्येष्वभिज्ञानशकुन्तलादिषु, कथासु च कादम्बरीप्रमुखासु, आगमादिषागम--श्रुति-स्मृति-पुराणेतिहासप्रभृतिषु धर्मशास्त्रेषु च प्रौढिः सम्यक्तत्ववेदित्वं व्युत्पत्तिरिति कथ्यतेऽभिधीयते इति । लोकवृत्तादिनैपुण्यसंस्कृतप्रतिभस्य हि काव्यं तदनतिक्रमेणोपनिबद्धं तद्विदावर्जकं भवतीति ।। ८ ॥
अथाभ्यासं विवृणोतिकेवलेऽथ प्रबन्धस्थे काव्ये काव्यज्ञशिक्षया पुनः पुनः प्रवृत्तिर्या सोऽभ्यासः परिकीर्तितः ॥ ९ ॥ सोऽभ्यासः परिकीर्तितः कथितः। केवले विशकलितरूपेऽथ प्रबन्धस्थे परस्परपेक्षपक्तिस्थापिते हारप्रोतमौक्तिककल्पे काव्ये या पुनः पुनर्भूयो भूयः प्रवृत्तिः प्रवर्तनम् । कथम् ? काव्यज्ञशिक्षया काव्यं कर्तुं विचारयितुं च ये जानन्ति ते काव्यज्ञाः कविसहृदयास्तेषां शिक्षयोपदेशेनेत्यर्थः । न खापदेष्टारमन्तरेण शिखण्डिताण्डवमिव स्वभ्यस्ताऽपि कला चेतनचमत्कारिणी भवति ॥ ९॥
काव्यज्ञशिक्षयेत्युक्तमिति शिक्षा लक्षयतिसतोऽप्यबन्धः कस्यापि बन्धोऽन्यस्यासतोऽपि हि । शिक्षा स्थानियमश्छायाद्यपहारादयस्तथा ॥ १० ॥ शिक्षा स्यादुपदेशो भवेत् । केयमित्याह-सतोऽप्यबन्धः कस्यापीति । कस्यापि जाति-द्रव्य-गुण-क्रियाऽऽदेः सतोऽपि विद्यमानस्याप्यबन्धो गुम्फाभावः । तत्र १५. ०त्मको। २ अ. नात्म। ३ व. ते लो० । ४ व. तद्वदा० । ५ अ. तिः क० ।
६ प. बा। ७ प. ०लु अ०। ८ अ. सतो वि०।
For Private And Personal Use Only