Book Title: Agam Suttani Satikam Part 06 Bhagvati
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Agam Shrut Prakashan
View full book text
________________
शतकं-२४, वर्गः-, उद्देशकः-१२
३३९
त्पत्तिस्थानभूतानामुत्कृष्टस्थितिकत्वात्, ‘अंतोमुहुतमब्महियाइंति अप्कायिकस्यतत्रोत्पित्सोरौधिकत्वेऽपि जघन्यकालस्य विवक्षितत्वेनान्तर्मुहूर्तस्थितिकत्वात्, 'उक्कोसेणं सोलसुत्तरं वाससयसहस्सं'ति, इहोत्कृष्टस्थितिकत्वात्पृथिवीकायिकानां तेषां च चतुर्णा भवानां भावात् तत्रोत्पित्सोश्चाप्कायिकस्यौधिकत्वेऽप्युत्कृष्टकालस्य विवक्षितत्वादुत्कृष्टस्थितयश्चत्वारस्तद्भवाः, एवंच द्वाविंशतेवर्ष सहस्राणां सप्तानांच प्रत्येकं चतुर्गुणितत्वे मीलने च षोडशहनाधिकं लक्षं भवति । 'छढे गमए' इत्यादि, षष्ठे गमे हि जघन्यस्थितिक उत्कृष्टस्थितिषूत्पद्यत इत्यन्तर्मुहूर्तस्य वर्षसहस्रद्वाविंशतेश्च प्रत्येकं चतुर्भवग्रहणगुणितत्वे यथोक्तमुत्कृष्टं कालमानं स्यात् अत एव सप्तमादिगमसंवेधा अप्यह्याः नवरं नवमे गमे जघन्येनैकोनत्रिंशद्वर्षसहस्राणि अप्कायिकपृथिवीकायिकोत्कृष्टस्थितेर्मीलनादिति । ___अथ तेजस्कायिकेभ्यः पृथिवीकायिकमुत्पादयन्नाह-'जई त्यादि, 'तिन्नि लेसाओ'त्ति अप्कायिकेषु देवोत्पत्तेः तेजोलेश्यासद्भावाच्चतमस्ता उक्ताः इह तु तदभावात्ति एवेति, 'ठिई जाणियव्य'ति तत्र तेजसो जघन्या स्थितिरन्तर्मुहूर्त्तमितरा तुत्रीण्यहोरात्राणीति ।
तईयगमे इत्यादि, तृतीयगमेऔधिकस्तेजस्कायिकउत्कृष्टस्थितिषुपृथिवीकायिकेषूत्पद्यते इत्यत्रैकस्य पक्षस्योत्कृष्टस्थितिकत्वमतोऽष्टौ भवग्रहणान्युत्कर्षतः, तत्रच चतुर्युपृथिवीकायिकोत्कृष्टभवग्रहणेषु द्वाविंशतेर्वर्षसहस्राणां चतुर्गुणितत्वेऽष्टाशीतिस्तानि भवन्ति, तथा चतुधैव तेजस्कायिकभवेषूत्कर्षतः प्रत्येकमहोरात्रत्रयपरिमाणेषु द्वादशाहोरात्राणीति, ‘एवं संवेहो उवजुंजिऊणभाणियव्वो'त्ति, सचैवं-षष्ठादिनवान्तेषु गमेष्वष्टौ भवग्रहणानि तेषु च कालमानं यथायोगमभ्यूह्यं, शेषगमेषु तूत्कृष्टतोऽसङ्खयेया भवाः कालोऽप्यसङ्घयेय एवेति ।
अथ वायुकायिकेभ्यः पृथिवीकायिकमुत्पादयन्नाह- 'जई'त्यादि, संवेहो वाससहस्सेहिं कायव्यो'त्ति तैजस्कायिकाधिकाऽहोरात्रैः संवेधः कृतः इहतुवर्षसहस्रैः सकार्योवायूनामुत्कर्षतो वर्षसहस्रत्रयस्थितिकत्वादिति।
_ 'तइयगमए'इत्यादि, 'उक्कोसेणं एवं वाससयसहस्सं'ति अत्राष्टौ भवग्रहणानि तेषु च चतुर्खष्टाशीतिवर्षसहस्राणि पुनरन्येषु चतुर्पु वायुसत्केषु वर्षसहनत्रयस्य चतुर्गुणितत्वे द्वादश उभयमीलने च वर्षलक्षमिति, ‘एवं संवेहो उवजुंजिऊण भाणियव्वो'त्ति स च यत्रोत्कृष्टस्थितसम्भवस्तत्रोत्कर्षतोऽष्यै भवग्रहणानि इतरत्र त्वसङ्खयेयानि, एतदनुसारेणच कालोऽपि वाच्य इति।
__ अथवनस्पतिभ्यस्तमुत्पादयन्नाह–'जइवणस्सई'त्यादि, वणस्सइकाइयाणंआउक्काइयगमसरिसा नवगमा भाणियव्य'त्ति, यस्त्वत्र विशेषस्तमाह-'नानासंठिए'त्यादि, अप्कायिकानां स्तिबुकाकारवगाहना एषांतुनानासंस्थिता।
तथा पढमएसु'इत्यादि, प्रथमकेष्वौघिकेषुगमेषुपाश्चात्येषुचोत्कृष्टस्थितिकगमेष्ववगाहना वनस्पतिकायिकानां द्विधाऽपि मध्यमेषु जघन्यस्थितिकगमेषु त्रिषु यथा पृथिवीकायिकानां पृथिवीकायिकेषूत्पद्यमानानामुक्तातथैव वाच्या, अङ्गुलासङ्ख्यातभागमात्रैवेत्यर्थः, 'संवेहो ठिई यजाणियव्व'त्तितत्रस्थितिरुत्कर्षतोदशवर्षसहस्राणिजघन्यातु प्रतीतैव, एतदनुसारेणसंवेधोऽपि ज्ञेयः, तमेवैकत्र गमे दर्शयति- 'तइए'इत्यादि, 'उक्कोसेणं' अट्ठावीसुत्तरं वाससयसहस्संति, इह गमे उत्कर्षतोऽष्टौ भवग्रह-णानितेषु च चत्वारि पृथिव्याश्चत्वारि च वनस्पतेः तत्र चतुर्युपृथिवी
For Private & Personal Use Only
Jain Education International
www.jainelibrary.org

Page Navigation
1 ... 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502 503 504 505 506 507 508 509 510 511 512 513 514 515 516 517 518 519 520 521 522 523 524 525 526 527 528 529 530 531 532