Book Title: Agam Suttani Satikam Part 06 Bhagvati
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Agam Shrut Prakashan

View full book text
Previous | Next

Page 490
________________ ४८७ ॥४ ॥ शतकं-३४/१, वर्ग:-१, उद्देशकः-१ यामुत्तरस्यां वा गतो द्वितीयेन नाड्यां प्रविष्टस्तृतीये ऊर्द्ध गतश्चतुर्थेऽनुश्रेण्यां गत्वा पूर्वादिदिश्युत्पद्यत इति, इदंचप्रायोवृत्तिमङ्गीकृत्योक्तं, अन्यथा पञ्चसामयिक्यपि गति सम्भवति, यदाऽघोलोककोणादूर्ध्वलोककोण एवोत्पत्तव्यं भवतीति, भवन्ति चात्र गाथाः॥१॥ “सुत्ते चइसमयाओ नत्थि गई उपरा विणिद्दिट्ठा । जुज्जइयपंचसमया जीवस्स इमा गई लोए। जो तमतमविदिसाए समोहओ बंभलोगविदिसाए। उववज्जइ गईए सो नियमापंचसमयाए॥ ॥३॥ उजुयायतेगवंका दुहओवंका गई विणिद्दिट्ठा । जुञ्जइ य तिचउवंकावि नाम चउपंचसमयाए । उववायाभावाओ न पंचसमयाऽहवा न संतावि। भणिया जह चउसमया महल्लबंधे न संतावि ।। __ 'अपज्जत्ताबायरतेउक्काइए ण'मित्यादौ, 'दुसमइएण वा तिसमइएण वा विग्गहेणं उववज्जेजत्ति, एतस्येयं भावना-समयक्षेत्रादेकेनसमयेनोर्ध्वगतौ द्वितीयेनतुनाड्या बहिर्दिग्व्यवस्थितमुत्पत्तिस्थानमिति, तथा समयक्षेत्रादेकेनोर्ध्वं याति द्वितीयेन तुनाड्या बहि पूर्वादिदिशि तृतीयेन तु विदिग्व्यवस्थितमुत्पत्तिस्थानमिति। अथ लोकचरमान्तमाश्रित्याह-'अपजत्तासुहुमपुढविकाइए णं भंते ! लोगस्से' त्यादि, इह च लोकचरमान्ते बादराः पृथ्वीकायिकाप्कायिकतेजोवनस्पतयो न सन्ति सूक्ष्मास्तु पञ्चापि सन्तिबादरवायुकायिकाश्चेतिपर्याप्तापर्याप्तभेदेन द्वादश स्थानान्यनुसतव्यानीति, इहचलोकस्य पूर्चरमान्तात्पूर्वचरमान्ते उत्पद्यमानस्यैकसमयादिका चतुःसमयान्ता गति. संभवति, अनुश्रेणिविरणिसम्भवात्, पूर्वचरमान्तात्पनुर्दक्षिणचरमान्ते उत्पद्यमानस्य यादिसामयिक्येव गतिरनुश्रेणेरभावात्, एवमन्यत्रापि विश्रेणिगमन इति। एवमुत्पादमधिकृत्यैकेन्द्रियप्ररूपणा कृता, अथ तेषामेव स्थानादिप्ररूपणायाह-'कहिं ण'मित्यादि, 'सट्ठाणेणं'ति स्वस्थानं यत्रास्ते बादरपृथिवीकायिकस्तेन स्वस्थानेन स्वस्थानमाश्रित्येत्यरथः 'जहा ठाणपदे'त्तिस्थानपदंचप्रज्ञापनाया द्वितीयं पदं, तच्चैवं-'तंजहा-रयणप्पभाए सक्करप्पभाए वालुयप्पभाए' इत्यादि, ‘एगविह'त्ति एकप्रकारा एव प्रकृतस्वस्थानादिविचारमधिकृत्यौघतः ‘अविसेसमणाणत्त'त्ति अविशेषाः-विशेषरहिता यथा पर्याप्तकास्तथैवेतरेऽपि 'अनाणना'त्ति अनानात्वाः-नानात्ववर्जिताः येष्वेवाधारभूताकाशप्रदेशेष्वेकेतेष्वेवेतरेऽपीत्यर्थः 'सव्वलोयपरियावन्न'त्ति उपपातसमुद्घातस्वस्थानैः सर्वलोके वर्तन्त इति भावना, तत्रोपपात-उपपाताभिमुख्यं समुद्घात इह मारणान्तिकादि स्वस्थानं तु यत्र ते आसते । समुद्घातसूत्रे 'वेउब्वियसमुग्धाए'त्ति यदुक्तं तद्वायुकायिकानाश्रित्येति । एकेन्द्रियानेव भङ्गयन्तरेण प्रतिपादयन्नाह-एगिदिया ण'मित्यादि, 'तुल्लट्ठिइय'त्ति तुल्यस्थितिकाः परस्परापेक्षया समानायुष्का इत्यर्थः, 'तुल्लविसेसाहियं कम्मं पकरेंति'त्ति परस्परापेक्षयातुल्यत्वेन विशेषेण-असङ्खयेयभागादिनाऽधिकं-पूर्वकालबद्धकमपिक्षयाऽधिकतरं तुल्य-विशेषाधिकं 'कर्म' ज्ञानावरणादि 'प्रकुर्वन्ति' बघ्नन्ति । Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502 503 504 505 506 507 508 509 510 511 512 513 514 515 516 517 518 519 520 521 522 523 524 525 526 527 528 529 530 531 532