Book Title: Agam Suttani Satikam Part 06 Bhagvati
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Agam Shrut Prakashan
View full book text
________________
शतकं-४१, वर्गः-, उद्देशकः
५११
पंचमं अंगसूत्रं-भगवती समाप्तम् अपरनाम व्याख्याप्रज्ञप्ति समाप्तम
मुनि दीपरलसागरेण संशोधिता सम्पादिता अभयदेवसूरि विरचिता भगवतीअगसूत्रस्य टीका परिसमाप्ता।
प्रशस्तिः ॥१॥ यदुक्तमादाविह साधुयोधैः, श्रीपञ्चमाङ्गोन्नतकुञ्जरोऽयम् ।
सुखाधिगम्योऽस्त्विति पूर्वगुर्वी, प्रारभ्यते वृत्तिवरत्रिकेयम् ॥ ॥२॥ समर्थितं तत्पटुबुद्धिसाधुसाहायकात्केवलमत्र सन्तः।
सद्बुद्धिदात्र्याऽपगुणांल्लुनन्तु, सुखग्रहा येन भवत्यथैषा ॥
चांद्रे कुले सद्वनकक्षकल्पे, महाद्रुमो धर्मफलप्रदानात् ।
छायान्वितः शस्तविशालशाखः, श्रीवर्द्धमानो मुनिनायकोऽभूत् ।। ॥४॥ तत्पुष्पकल्पौ विलसद्विहारसद्गन्धसम्पूर्णदिशौ समन्तात् ।
बभूवतुः शिष्यवरावनीचवृत्ती श्रुतज्ञानपरागवन्तौ ॥ ॥५॥एकस्तयोः सूरिवरो जिनेश्वरः, व्याख्यातस्तथाऽन्यो भुवि बुद्धिसागरः । तयोर्विनेयेन विबुद्धिनाऽप्यलं, वृत्ति कृतैषाऽभयदेवसूरिणा॥
तेयोरेव विनेयानां, तत्पदं चानुकुर्वताम् ।
श्रीमतां जिनचन्द्राख्यसत्प्रभूणां नियोगतः। ॥७॥ श्रीमञ्जिनेश्वराचार्यशिष्याणां गुणशालिनाम्।
जिनभद्रमुनीन्द्राणामस्माकं चाहिसेविनः ।। ॥८॥ यशश्चन्द्रगणेाढसाहाय्यासिद्धिमागता।
परित्यक्तान्यकृत्यस्य, युक्तायुक्तविवेकिनः॥ ॥९॥ शास्त्रार्थनिर्णयसुसौरभलम्पटस्य, विद्वन्मधुव्रतगणस्य सदैव सेव्यः ।
श्रीनिर्वृताख्यकुलसन्नदपद्मकल्पः, श्रीद्रोणसूरिरनवद्ययशः परागः॥ ॥१०॥ शोधितवान् वृत्तिमिनां युक्तो विदुषां महासमूहेन ।
शास्त्रार्थनिष्कनिकषणकषपट्टककल्पबुद्धीनाम् ।। ॥११॥ विशोधिता तावदियं सुधीभिस्तथाऽपि दोषाः किल संभवन्ति ।
मन्मोहतस्तांश्च विहाय सद्भिस्तद्राह्यमाप्ताभिमतं यदस्याम् ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org

Page Navigation
1 ... 512 513 514 515 516 517 518 519 520 521 522 523 524 525 526 527 528 529 530 531 532