Book Title: Agam Suttani Satikam Part 06 Bhagvati
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Agam Shrut Prakashan

View full book text
Previous | Next

Page 512
________________ शतकं-४१, वर्गः-, उद्देशकः-१६९/१९६ ५०९ मू. (१०७९) भगवंगोयमे समणंभगवं महावीरं तिक्खुत्तो आयाहिणपयाहिणं करेइ २ त्ता वंदति नमंसति वंदित्ता नमंसित्ता एवं वयासी-एवमेयं भंते! तहमेयं भंते ! अवितहमेयं भंते असंदिद्धमेयंभंते! इच्छियमेयं भंते! पडिच्छियमेयं भंते! इच्छियपडिछियमेयं भंते! सच्चे णं एसमढे जे णं तुझे वदहत्तिकटु, अपूतिवयणा खलु अरिहंता भगवंतो, समणं भगवं महावीरं वंदति नमंसति वंदित्ता नमंसित्ता संजमेणं तवसा अप्पाणं भावेमाणे विहरइ । ____ सव्वाए भगवईए अद्वतीसं सतं सयाणं १३८ उद्देसगाणं १९२४ । वृ. 'रासीजुम्म'त्ति युग्मशब्दो युगलवाचकोऽप्यस्त्यतोऽसाविह राशिशब्देन विशेष्यते ततो राशिरूपाणि युग्मानि न तु द्वितयरूपाणीति राशियुग्मानि, 'रासीजुम्मकडजुम्मनेरइय'त्ति राशियुग्माना भेदभूतेन कृतयुग्मेन ये प्रतिमास्ते राशियुग्मकृतयुग्मास्ते च ते नैरयिकाश्चेति समासोऽतस्ते ० अनुसमय'मित्यादि, पदत्रयमेकार्थम्।। 'आयजसेणं'ति आत्मनः सम्बन्धि यशो यशोहेतुत्वाद्यशः-संयमः आत्मयशस्तेन, 'आयजसं उवजीवंति'त्ति ‘आत्मयशः' आत्मसंयमम् ‘उपजीवन्ति' आश्रयन्ति विदधतीत्यर्थः, इह च सर्वेषामेवात्मायशसैवोत्पत्ति उत्पत्ती सर्वेषामप्यविरतत्वादिति । इह च शतपरिमाणमिदम्-आद्यानि द्वात्रिंशच्छतान्यविद्यमानावान्तरशतानि ३२ त्रयशिादिषुतुसप्तसु प्रत्येकमवान्तरशतानि द्वादश ८४ चत्वारिंशे त्वेकविंशति २१ एकचत्वारिंशे तु नास्त्यवान्तरशतम् १, एतेषां च सर्वेषां मीलनेऽष्टत्रिंशदधिकं शतानां शतं भवति। एवमुद्देशकपरिमाणमपि सर्वं शास्त्रमवलोक्यावसेयं तच्चैकोनविंशतिशतानि पञ्चविंशत्यधिकानि। इहशतेषुकियत्स्वपिवृत्तिकां, विहितवानहमस्मिसुशङ्कितः ।विवृतिचूर्णिगिरांविरहाद्विध्क, कथमशङ्कमियय॑थवा पथि । शतकं-४१ समाप्तम् अथ भगवत्या व्याख्याप्रज्ञप्त्याः परिमाणाभिधित्सया गाथामाहमू. (१०८०) चुलसीयसयसहस्सा पदाण पवरवरणाणदंसीहिं । भावाभावमनंता पन्नत्ता एत्थमंगंमि॥ वृ. 'चुलसी'त्यादि, चतुरशीति शतसहस्राणि पदानामत्राङ्गे इति सम्बन्धः, पदानि च विशिष्टसम्प्रदायगम्यानि, प्रवराणां वरं यज्ज्ञानं तेन पश्यन्तीत्येवंशीला येते प्रवरज्ञानदर्शिनस्तैः केवलिभिरित्यर्थः प्रज्ञप्तानीति योगः, इदमस्य सूत्रस्य स्वरूपमुक्तमथार्थस्वरूपमाह _ 'भावाभावमनंत ति भावा-जीवादयः' पदार्थाअभावाश्च-तएवान्यापेक्षया भावाभावाः, अथवा भावा-विधयोऽभावा-निषेधाः प्राकृतत्वाच्चेत्थंनिर्देशः 'अनन्ताः' अफरिमाणाः अथवा भावाभावैर्विषयभूतैरनन्तानि भावाभावानन्तानिचतुरशीतिशतसहस्राणिप्रज्ञप्तानि अत्र' प्रत्यक्षे पञ्चमे इत्यर्थ 'अङ्गे प्रवचन परमपुरुषावयव इति गाथार्थः । अथान्त्यमङ्गलार्थं संघं समुद्ररूपकेण स्तुवन्नाह Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 510 511 512 513 514 515 516 517 518 519 520 521 522 523 524 525 526 527 528 529 530 531 532