________________
४८७
॥४
॥
शतकं-३४/१, वर्ग:-१, उद्देशकः-१ यामुत्तरस्यां वा गतो द्वितीयेन नाड्यां प्रविष्टस्तृतीये ऊर्द्ध गतश्चतुर्थेऽनुश्रेण्यां गत्वा पूर्वादिदिश्युत्पद्यत इति, इदंचप्रायोवृत्तिमङ्गीकृत्योक्तं, अन्यथा पञ्चसामयिक्यपि गति सम्भवति, यदाऽघोलोककोणादूर्ध्वलोककोण एवोत्पत्तव्यं भवतीति, भवन्ति चात्र गाथाः॥१॥ “सुत्ते चइसमयाओ नत्थि गई उपरा विणिद्दिट्ठा ।
जुज्जइयपंचसमया जीवस्स इमा गई लोए। जो तमतमविदिसाए समोहओ बंभलोगविदिसाए।
उववज्जइ गईए सो नियमापंचसमयाए॥ ॥३॥
उजुयायतेगवंका दुहओवंका गई विणिद्दिट्ठा । जुञ्जइ य तिचउवंकावि नाम चउपंचसमयाए । उववायाभावाओ न पंचसमयाऽहवा न संतावि।
भणिया जह चउसमया महल्लबंधे न संतावि ।। __ 'अपज्जत्ताबायरतेउक्काइए ण'मित्यादौ, 'दुसमइएण वा तिसमइएण वा विग्गहेणं उववज्जेजत्ति, एतस्येयं भावना-समयक्षेत्रादेकेनसमयेनोर्ध्वगतौ द्वितीयेनतुनाड्या बहिर्दिग्व्यवस्थितमुत्पत्तिस्थानमिति, तथा समयक्षेत्रादेकेनोर्ध्वं याति द्वितीयेन तुनाड्या बहि पूर्वादिदिशि तृतीयेन तु विदिग्व्यवस्थितमुत्पत्तिस्थानमिति।
अथ लोकचरमान्तमाश्रित्याह-'अपजत्तासुहुमपुढविकाइए णं भंते ! लोगस्से' त्यादि, इह च लोकचरमान्ते बादराः पृथ्वीकायिकाप्कायिकतेजोवनस्पतयो न सन्ति सूक्ष्मास्तु पञ्चापि सन्तिबादरवायुकायिकाश्चेतिपर्याप्तापर्याप्तभेदेन द्वादश स्थानान्यनुसतव्यानीति, इहचलोकस्य पूर्चरमान्तात्पूर्वचरमान्ते उत्पद्यमानस्यैकसमयादिका चतुःसमयान्ता गति. संभवति, अनुश्रेणिविरणिसम्भवात्, पूर्वचरमान्तात्पनुर्दक्षिणचरमान्ते उत्पद्यमानस्य यादिसामयिक्येव गतिरनुश्रेणेरभावात्, एवमन्यत्रापि विश्रेणिगमन इति।
एवमुत्पादमधिकृत्यैकेन्द्रियप्ररूपणा कृता, अथ तेषामेव स्थानादिप्ररूपणायाह-'कहिं ण'मित्यादि, 'सट्ठाणेणं'ति स्वस्थानं यत्रास्ते बादरपृथिवीकायिकस्तेन स्वस्थानेन स्वस्थानमाश्रित्येत्यरथः 'जहा ठाणपदे'त्तिस्थानपदंचप्रज्ञापनाया द्वितीयं पदं, तच्चैवं-'तंजहा-रयणप्पभाए सक्करप्पभाए वालुयप्पभाए' इत्यादि, ‘एगविह'त्ति एकप्रकारा एव प्रकृतस्वस्थानादिविचारमधिकृत्यौघतः ‘अविसेसमणाणत्त'त्ति अविशेषाः-विशेषरहिता यथा पर्याप्तकास्तथैवेतरेऽपि 'अनाणना'त्ति अनानात्वाः-नानात्ववर्जिताः येष्वेवाधारभूताकाशप्रदेशेष्वेकेतेष्वेवेतरेऽपीत्यर्थः 'सव्वलोयपरियावन्न'त्ति उपपातसमुद्घातस्वस्थानैः सर्वलोके वर्तन्त इति भावना, तत्रोपपात-उपपाताभिमुख्यं समुद्घात इह मारणान्तिकादि स्वस्थानं तु यत्र ते आसते ।
समुद्घातसूत्रे 'वेउब्वियसमुग्धाए'त्ति यदुक्तं तद्वायुकायिकानाश्रित्येति ।
एकेन्द्रियानेव भङ्गयन्तरेण प्रतिपादयन्नाह-एगिदिया ण'मित्यादि, 'तुल्लट्ठिइय'त्ति तुल्यस्थितिकाः परस्परापेक्षया समानायुष्का इत्यर्थः, 'तुल्लविसेसाहियं कम्मं पकरेंति'त्ति परस्परापेक्षयातुल्यत्वेन विशेषेण-असङ्खयेयभागादिनाऽधिकं-पूर्वकालबद्धकमपिक्षयाऽधिकतरं तुल्य-विशेषाधिकं 'कर्म' ज्ञानावरणादि 'प्रकुर्वन्ति' बघ्नन्ति ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org