Book Title: Agam Suttani Satikam Part 06 Bhagvati
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Agam Shrut Prakashan
View full book text
________________
भगवती अङ्गसूत्रं (२) २५/-/७/७५८ तिबुद्धयाऽऽलोचनाऽऽचार्यं वैयावृत्यकणादिनाऽऽवर्ज्य यदालोचनमसावालोचनादोषः 'अणुमाणइत्त' त्ति अनुमान्य - अनुमानं कृत्वा लघुतरापराधनिवेदनेन मृदुदण्डादित्वमाचार्यस्याकालय्य यदालोचनमसौ तद्दौषः, एवं 'जं दिट्ठ' त्ति यदाचार्यादिना ष्टमपराधजातं तदेवालोचयति 'बायरं व 'त्ति बादरमेवातिचारजातमालोचयति न सूक्ष्मं तत्रावज्ञापरत्वात्, 'सुहुमंव'त्ति सूक्ष्ममेवातिचारजातमालोचयति यः किल सूक्ष्मं तदालोचयति स कथं बादरं तन्नालोचयतीत्येवंरूपभावसम्पादनायाऽऽचार्यस्येति, 'छन्नं'ति छन्नं प्रतिच्छन्नं प्रच्छनं - अतिलज्जालुतयाऽव्यक्तवचनं यथा भवति, एवमालोचयति यथाऽऽत्मनैव शृणोति ।
'सद्दाउलयं 'ति शब्दाकुलं - बृहच्छब्दं यथा भवत्येवमालोचयति, अगीतार्थान् श्रावयन्नित्यर्थः, 'बहुजण’त्ति बहवो जना - आलोचनागुरवो यत्रालोचने तद्बहुजनं यथा भवत्येवमालोचयति, एकस्याप्यपराधस्य बहुभ्यो निवेदनमित्यर्थः, 'अव्वत्त' त्ति अव्यक्तः - अगीतार्थस्तस्मै आचार्याय यदालोचनं तदप्यव्यक्तमित्युच्यते, 'तस्सेवि' त्ति यमपराधमालोचयिष्यति तमेवासेवते यो गुरु स तत्सेवी तस्मै यदालोचनं तदपि तस्वेवीति, यतः समानशीलाय गुरवे सुखेनैव विवक्षितापराधो निवेदयितुं शक्यत इति तत्सेविने निवेदयतीति ।
४४०
मू. ( ९५९) दसहिं ठाणेहिं संपन्ने अनगारे अरिहति अत्तदोसं आलोइत्तए, तंजा - जातिसंपन्ने २ कुलसंपन्ने २ विनयसंपन्ने ३ नाणसंपन्ने ४ दंसणसंपन्ने ५ चरित्तसंपन्ने ६ खंते ७ दंते ८ अमायी ९ अपच्छाणुतावी १० ।
अहिं ठाणेहिं संपन्ने अणगारे अरिहति आलोयणं पडिच्छित्तए, तंजहा - आयारवं १ आहारवं २ ववहारवं ३ उव्वीलए ४ पकुव्वए ५ अपरिस्सावी ६ निजवए ७अवायदंसी ८ । वृ. 'जाइसंपन्ने' इत्यादि, नन्वेतावान् गुणसमुदाय आलोचकस्य कस्मादन्विष्यते ? इति, उच्यते, जातिसम्पन्नः प्रायोऽकृत्यं न करोत्येव कृतं च सम्यगालोचयतीति, कुलसम्पन्नोऽङ्गीकृतप्रायश्चित्तस्य वोढा भवति, विनयसम्पन्नो वन्दनादिकाया आलोचनासामाचार्या प्रयोक्ता भवतीति, ज्ञानसम्पन्नः कृत्याकृत्यविभागं जानाति, दर्शनसम्पन्नः प्रायश्चित्ताच्छुद्धिं श्रद्धत्ते, चारित्रसम्पन्नः प्रायश्चित्तमङ्गिकरोति, क्षान्तो- गुरुभिरुपालम्भितो न कुप्यति, दान्तो- दान्तेन्द्रियतया शुद्धिं सम्यग् वहति, अमायी - अगोपयन्नपराधमालोचयति, अपश्चात्तापी आलोचितेऽपराधे पश्चात्तापमकुर्वन्निर्जराभागी भवतीति ।
'आयारव' मित्यादि, तत्र 'आचारवान् ' ज्ञानादिपञ्चप्रकाराचारयुक्तः 'आहारवं 'ति आलोचितापराधानामवधारणावान् 'ववहारवं' ति आगमश्रुतादिपञ्चप्रकारव्यवहाराणामन्यतमयुक्तः 'उव्वीलए 'त्ति अपव्रीडकः लजजयाऽतीचारान् गोपायन्तं विचित्रवचनैर्विलज्ञ्जीकृत्य सम्यगालोचनांकारयतीत्यर्थः 'पकुव्वए' त्ति आलोचितेष्वपराधेषु प्रायश्चित्तदानतो विशुद्धिं कारयितुं समर्थः 'अपरिस्सावि' त्ति आलोचकेनालोचितान् दोषान् योऽन्यस्मै न कथयत्यसावपरिश्रावी 'निज्जवए' त्ति 'निर्य्यापकः' असमर्थस्य प्रायश्चित्तिनः प्रायश्चित्तस्य खण्डशः करणेन निर्वाहकः 'अवायदंसि 'त्ति आलोचनाया अदाने पारलौकिकापायदर्शनशील इति ।
अनन्तरमालोचनाचार्य उक्तः, स च सामाचार्या प्रवर्त्तको भवतीति तां प्रदर्शयन्नाहपू. (९६०) दसविहा सामायारि प० तं०
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org

Page Navigation
1 ... 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502 503 504 505 506 507 508 509 510 511 512 513 514 515 516 517 518 519 520 521 522 523 524 525 526 527 528 529 530 531 532