Book Title: Agam Suttani Satikam Part 06 Bhagvati
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Agam Shrut Prakashan
View full book text
________________
शतकं-२६, वर्ग:-, उद्देशकः१
४५५
कत्वाचरमो भङ्गः।
कृष्णपाक्षिकस्यप्रथमस्तृतीयश्चसंभवति, तत्रचप्रथमः प्रतीतएव,तृतीयस्त्वायुष्काबन्धकाले न बघ्नात्येव उत्तरकालं तु तद्भन्स्यतीत्येवं स्यात्, द्वितीयचतुर्थी तुतस्य नाभ्युपगम्येते, कृष्णपाक्षिकत्वे सति सर्वथा तदभन्स्यमानताया अभाव इति विवक्षणात्, शुक्लपाक्षिकस्य सम्यग्दृष्टेश्चत्वारः, तत्रबद्धवान्पूर्वबध्नातिच बन्धकाले भन्स्यति चाबन्धकालस्योपरीत्येकः ।
बद्धवान् बघ्नाति न भन्सयति च चरमशरीरत्वे इति द्वितीयः २ तथा बद्धवान् न बघ्नात्यबन्धकाले उपशमावस्थायां वा भन्स्यति च पुनर्बन्धकाले प्रतिपतितो वेति तृतीयः ३ चतुर्थस्तु क्षपकस्येति ।।
मिथ्यष्टिस्तु द्वितीयभङ्गके न भन्स्यति चरमशरीरप्राप्ती, तृतीये न बघ्नात्यबन्धकाले चतुर्थेनबनात्यबन्धकालेन भन्स्यतिचरमशरीरप्राप्ताविति, सम्मामिच्छेत्यादि, सम्यग्मिथ्याष्टिरायुर्न बघ्नाति, चरमशरीरत्वे च कश्चिन्न भन्सयत्यपीतिकृत्वाऽन्त्यावेवेति ।
ज्ञानिनां चत्वारः प्राग्वद्भावयितव्याः, मनःपर्यायज्ञानिनो द्वितीयवर्जास्तत्रासौ पूर्वमायुर्बद्धवान्इदानींतुदेवायुर्बघ्नातिततो मनुष्यायुभन्स्यतीतिप्रथमः, बघ्नातिनभन्स्यतीति न संभवति, अवश्यं देवत्वे मनुष्यायुषो बन्धनादितिकृत्वा द्वितीयो नास्ति, तृतीय उपशमकस्य, सहि न बध्नाति प्रतिपतितश्च भन्सयति, क्षपकस्य चतुर्थ, एतदेव दर्शयति ।
_ 'मनपज्जवे'त्यादि, केवलनाणेचरमो'त्ति केवली ह्यायुर्न बध्नातिनचभन्स्यतीतिकृत्वा, नोसंज्ञोपयुक्तस्य भङ्गकत्रयं द्वितीयवर्जं मनःपर्यावद्भावनीयं, एतदेवाह-एएण'मित्यादि, 'अवेदए'इत्यादि, अवेदकोऽकषायीच क्षपक उपशमको वा तपोश्च वर्तमानबन्धो नास्त्यायुषः उपशमकश्च प्रतिपतितो भन्स्यतिक्षपकस्तु नैवं भन्स्यतीतिकृवा तयोस्तृतीयचतुर्थी।
'सेसेसुत्ति शेषपदेषु-उक्तव्यतिरिक्तेषु अज्ञान १ मत्यज्ञानादि ३ संज्ञोयुक्ताहारादिसंज्ञोपयुक्त ४ सवेद १ स्त्रीवेदादि ३ सकषाय १ क्रोधादिकषाय४ सयोगि १ मनोयोग्यादि २ साकारोपयुक्तानाकारोपयुक्तलक्षणेषु चत्वार एवेति।
नारकदण्डके-'चत्तारिभंग'त्ति, तत्र नारक आयुर्बद्धवान् बध्नाति बन्धकाले भन्स्यति भवान्तर इत्येकः १, प्राप्तव्यसिद्धिकस्य द्वितीयः, बन्धकालाभावंभाविबन्धकालंचापेक्ष्य तृतीयः, बद्धपरभविकायुषोऽनन्तरं प्राप्तव्यचरमभवस्य चतुर्थ, एवं सर्वत्र, विशेषमाह ।
____ 'नवर'मित्यादि, लेश्यापदे कृष्णलेश्येषुनारकेषुप्रथमतृतीयौ, तथाहि-कृष्णलेश्योनारको बद्धवान् बघ्नाति भन्स्यति चेतिप्रथमः प्रतीत एव, द्वितीयस्तुनास्ति, यतःकृष्णलेश्यो नारकस्तिर्यसूत्पद्यते मनुष्येषु चाचरमशरीरेषु, कृष्णलेश्या हि पञ्चमनरकपृथिव्यादिषु भवति न च तत उद्वृत्त-सिद्ध्यतीति, तदेवमसौ नारकस्तिर्यगाद्यायुर्बद्धा पुनर्भन्स्तयतिअचरमशरीरत्वादिति
तथा कृष्णलेश्योनारक आयुष्काबन्धकालेतन बघ्नातिबन्धकाले तुभन्स्यतीतितृतीयः, चतुर्थस्तु तस्य नास्ति आयुरबन्धकत्वस्याभावादिति । तथा कृष्णपाक्षिकनारकस्य प्रथमः प्रतीत एव, द्वितीयो नास्ति, यतः कृष्णपाक्षिको नारक आयर्बद्धा पुनर्न भन्सयतीत्येतन्नास्ति, तस्य चरमभवाभावात्, तृतीयस्यु स्यात्, चतुर्थोऽपिन उक्तयुक्तेरेवेति। “सम्मामिच्छत्ततइयचउत्थ'त्ति सम्यग्मिथ्यादृष्टेरायुषोबन्धाभावादिति।असुरकुमारदण्डके
For Private & Personal Use Only
Jain Education International
www.jainelibrary.org

Page Navigation
1 ... 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502 503 504 505 506 507 508 509 510 511 512 513 514 515 516 517 518 519 520 521 522 523 524 525 526 527 528 529 530 531 532