Book Title: Agam Suttani Satikam Part 06 Bhagvati
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Agam Shrut Prakashan

View full book text
Previous | Next

Page 459
________________ ४५६ भगवतीअङ्गसूत्रं (२) २६/-/१/९८० 'कण्हलेसेवि चत्तारि भंग'त्ति नारकदण्डके कृष्णलेश्यनारकस्य किल प्रथमतृतीयावुक्ती, असुरकुमारस्यतु कृष्णलेश्यस्यापिचत्वार एव, तस्य हि मनुष्यगत्यवाप्तौ सिद्धिसम्भवेन द्वितीयचतुर्थयोरपि भावादिति। पृथिवीकायिकदण्डके कण्हपक्खिएपढमतइया भंग'त्ति, इह युक्तिपूर्वोक्तैवनुसरणीया तेजोलेश्यापदे तृतीयो भङ्गः, कथं ?, कश्चिद्देवस्तेजोलेश्यः पृथिवीकायिकेषूत्पन्नः स चापर्याप्तकावस्थायांतेजोलेश्यो भवति, तेजोलेश्याद्धायांचापगतायामायुर्बघ्नातितस्तेजोलेश्यः पृथिवीकायिक आयुर्बद्धवान्, देवत्वे न बघ्नाति तेजोलेश्यावस्थायां भन्स्यति च तस्यामपगतायामित्येवं तृतीयः, एवं आउकाइयवणस्सइकाइयाणवि त्ति उक्तन्यायेन कृष्णपाक्षिकेषु प्रथमतृतीयौ भङ्गौ, तेजोलेश्यायां च तृतीयभङ्गसम्भवस्तेष्वित्यर्थः, अन्यत्र तु चत्वारः, 'तेऊकाइए'इत्यादि, तेजस्कायिकवायुकायिकानांसर्वत्र एकादशस्वपिस्थानकेष्वित्यर्थप्रथमतृतीयभङ्गी भवस्तत उद्वृत्तानामनन्तरं मनुष्येष्वनुत्पत्त्या सिद्धिगमनाभावेन द्वितीयचतुर्थासम्भवाद्, मनुष्येषु अनुत्पत्तिश्चैतेषां। ॥१॥ “सत्तममहिनेरइया तेउवाऊ अनंतरुव्वट्टा । न य पावे माणुस्सं तहेवऽसंखाउआ सव्वे ॥" . .. -इति वचनादिति - 'बेइंदिए'इत्यादि, विकलेन्द्रियाणां सर्वत्र प्रथमतृतीयभङ्गौ, यतस्तत उद्वृत्तानामानन्तर्येण सत्यपि मानुषत्वे निर्वाणाभावस्तस्मादश्यं पुनस्तेषामायुषो बन्ध इति, यदुक्तं विकलेन्द्रियाणां सर्वत्रप्रथमतृतीयभङ्गाविति तदपवादमाह-'नवरंसम्मत्ते'इत्यादि,सम्यक्त्वेज्ञानेआभिनिबोधिके श्रुतेच विकलेन्द्रियाणां तृतीय एव, यतः सम्यक्त्वादीनितेषांसासादनभावेनापर्याप्तकावस्थायामेव, तेषुचापगतेष्वायुषो बन्ध इत्यतः पूर्वभवे बद्धवन्तः सम्यक्त्वाद्यस्थायां च न बघ्नन्ति तदनन्तरं च भन्स्यंतीति तृतीय इति। ___ 'पंचिंदियतिरिक्खे' त्यादि, पञ्चेन्द्रयितिरश्चां कृष्णपाक्षिकपदे प्रथमतृतीयौ, कृष्णपाक्षिको ह्यायुर्बद्धाऽबद्धा वा तदबन्धकोऽनन्तरमेव भवति तस्य सिद्धिगमानायोग्यत्वादिति । 'सम्मामिच्छत्तेतईयचउत्थ'त्ति सम्यग्मिथ्याटेरायुषोबन्धाभावात्तीयचतुर्थावेव, भावितं चैतमागेवेति । 'सम्मत्ते'इत्यादि, पञ्चेन्द्रियतिरश्चांसम्यक्त्वादिषुपञ्चसु द्वितीयवर्जा भङ्गा भवन्ति, कथं ?, यदा सम्यग्दृष्टयादि पञ्चेन्द्रियतिर्यगायुर्भवति तदा देवेष्वेव स च पुनरपि भन्स्यतीति न द्वितीयसम्भवः, प्रथमतृतीयौतुप्रतीतावेव, चतुर्थपुनरेवं-यथा मनुष्येषुबद्धायुरसौ सम्यक्त्वादि प्रतिपद्यते अनन्तरंच प्राप्तस्य चरमभवस्तदैवेति।। 'मणुस्साणंजहाजीवाणं'ति, इह विशेषमाह-'नवर'मित्यादि, सम्यक्त्वसामान्यज्ञानादिषु पञ्चसु पदेषु मनुष्या द्वितीयविहीनाः, भावना चेह पञ्चेन्द्रियतिर्यक्सूत्रवदवसेयेति ।। शतकं-२६ उद्देशकः-१ समाप्तः -शतक-२६ उद्देशकः-२:वृ. प्रथमोद्देशके जीवादिद्वारे एकादशकप्रतिबद्धैर्नवभिः पापकर्मादिप्रकरणैर्जीवादीनि पञ्चविंशतिजीवस्थानानि निरूपितानि द्वितीयेऽपि तथैव तानि चतुर्विंशतिनिरूप्यन्त Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502 503 504 505 506 507 508 509 510 511 512 513 514 515 516 517 518 519 520 521 522 523 524 525 526 527 528 529 530 531 532