Book Title: Agam Suttani Satikam Part 06 Bhagvati
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Agam Shrut Prakashan

View full book text
Previous | Next

Page 450
________________ शतकं-२५, वर्ग:-, उद्देशकः-७ ४४७ बहुदोषः 'अन्नाणदोसे'त्ति अज्ञानात्-कुशासंस्कारात् हिंसादिषु अधर्मस्वरूपेषु धर्मबुद्ध्या या प्रवृत्तिस्तल्लक्षणो दोषोऽज्ञानदोषः ‘आमरणंतदोसे'त्ति मरणमेवान्तो मरणान्तः आमरणान्तमसंजातानुतापस्यकालकशौकरिकादेरिव या हिंसादिप्रवृत्ति सैव दोषः आमरणान्तदोषः । ___'चउप्पडोयारे'त्तिचतुर्युभेदलक्षणालम्बनानुप्रेक्षा४ लक्षणेषुपदार्थेषुप्रत्यवतारःसमवतारो विचारणीयत्वेन यस्य तच्चतुष्प्रत्यवतारं, चतुर्विधशब्दस्यैव पर्यायो वाऽयम्, ‘आणाविजये'त्ति आज्ञा-जिनप्रवचनं तस्या विचयो-निर्णयो यत्र तदाज्ञाविचयं प्राकृतत्वाच्च ‘आणाविजए'त्ति एवं शेषपदान्यपि, नवरमपाया-रागद्वेषादिजन्याअनर्थाविपाकः-कर्मफलं संस्थानानि लोकद्वीपसमुद्राधाकृतयः ‘आणारूइ'त्ति आज्ञा-सूत्रस्यव्याख्यानं नियुक्त्यादितत्र तयावारुचिः-श्रद्धानं साऽऽज्ञारुचिः 'निसग्गरुइ'त्ति स्वभावत एव तत्त्वश्रद्धानं 'सुत्तरुईत्ति आगमात्तत्वश्रद्धानम् 'ओगाढरुइ'त्ति अवगाढनमवगाढं-द्वादशाङ्गावगाहो विस्ताराधिगमस्तेन रुचिअथवा 'ओगाढ'त्ति साधुप्रत्यासन्नीभूतस्तस्य साधूपदेशाद् रुचिरवगाढरुचिः, आलंबण'त्तिधर्मध्यानसौधशिखरारोहणार्थं यान्यालम्बव्यन्ते तान्यालम्बनानि-वाचनादीनि, 'अणुप्पेह'त्ति धर्मध्यानस्य पश्चाप्रेक्षणानि-पालोचनान्यनुप्रेक्षाः। ___ 'पुहुत्तवियक्क. सवियारे'ति पृथक्त्वेन-एकद्रव्याश्रितानामुत्पादादिपर्यायाणां भेदेन वितर्को-विकल्पः पूर्वगतश्रुतालम्बनो नानानयानुसरणलक्षणो यत्र तत्पृथक्त्ववितर्क, तथा विचारः-अर्थाद्वयञ्जने व्यञ्जनादर्थेमनःप्रभृतियोगानांचान्यस्मादन्य स्मिन् विचरणंसह विचारेण यत्तत्सविचारि, सर्वधनादित्वादिन समासान्तः१।। 'एगत्तवियक्के अवियार'त्ति एकत्वेन अभेदेनोत्पादादिपर्यायाणामन्यतमैकपर्यायालम्बनतयेत्यर्थ वितर्क-पूर्वगतश्रुताश्रयो व्यञ्जनरूपोऽर्थरूपो वा यस्य तदेकत्ववितर्कं, तथा . विद्यते विचारोऽर्थव्यञ्जनयोतरस्मादितरत्र तथा मनःप्रभृतीनामन्यस्मादन्यत्र यस्य तदविचारीति २ । 'सुहुमकिरिए अनियट्टि'त्ति सूक्ष्मा क्रिया यत्र निरुद्धवाग्मनोयोगत्वे सत्यर्द्धनिरुद्धकाययोगत्वात्तत्सूक्ष्मक्रियं न निवर्तत इत्यनिवर्तिवर्द्धमानपरिणामत्वात्, एतच्च निर्वाणगमनकाले केवलिन एव स्यादिति ३। _ 'समुच्छिन्नकिरिए अप्पडिवाइ'त्ति समुच्छिन्ना क्रिया-कायिक्यादिका शैलेशीकरणनिरुद्धयोगत्वेन यस्मिंस्तत्तथा अप्रतिपाति-अनुपरतस्वभावम्, 'अवहे'त्ति देवाधुपसर्गजनितं भयंचलनवा व्यथा तदभावोऽव्यथम् ‘असंमोहे'त्ति देवादिकृतमायाजनितस्य सूक्ष्मपदार्थविषयस्य च संमोहस्य-मूढताया निषेधोऽसंमोहः 'विवेगे'त्ति देहादात्मनः आत्मनो सर्वसंयोगानां विवेचनं बुद्धया पृथक्करणं विवेकः ४। मू. (९६९) सेकिंतंविउसग्गे?, विउसग्गे दुविहे पं०, तं०-दव्वविउसग्गेयभावविउसग्गे य, से किं तं दव्वविउसग्गे?, दव्वविउसग्गे चउब्विहे पं० तं०-गणविउसग्गे सरीरविउसग्गे उवहिविउसग्गे भत्तपाणविउसग्गे, सेत्तं दव्वविउसग्गे। से किं तं भावविउसग्गे ?, भावविउसग्गे तिविहे पं०, तं०-कसायविउसग्गो संसारविउसग्गो कम्मविउसग्गो, से किं तं कसायविउसग्गे?, कसायविउसग्गे चउलिटे पं०, तंजहा-कोहविउसग्गे मानविउसग्गे मायाविउसग्गे लोभविउसग्गे, सेत्तं कसायविउसग्गे। Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502 503 504 505 506 507 508 509 510 511 512 513 514 515 516 517 518 519 520 521 522 523 524 525 526 527 528 529 530 531 532