________________
शतकं-२५, वर्ग:-, उद्देशकः-७
४४७
बहुदोषः 'अन्नाणदोसे'त्ति अज्ञानात्-कुशासंस्कारात् हिंसादिषु अधर्मस्वरूपेषु धर्मबुद्ध्या या प्रवृत्तिस्तल्लक्षणो दोषोऽज्ञानदोषः ‘आमरणंतदोसे'त्ति मरणमेवान्तो मरणान्तः आमरणान्तमसंजातानुतापस्यकालकशौकरिकादेरिव या हिंसादिप्रवृत्ति सैव दोषः आमरणान्तदोषः । ___'चउप्पडोयारे'त्तिचतुर्युभेदलक्षणालम्बनानुप्रेक्षा४ लक्षणेषुपदार्थेषुप्रत्यवतारःसमवतारो विचारणीयत्वेन यस्य तच्चतुष्प्रत्यवतारं, चतुर्विधशब्दस्यैव पर्यायो वाऽयम्, ‘आणाविजये'त्ति आज्ञा-जिनप्रवचनं तस्या विचयो-निर्णयो यत्र तदाज्ञाविचयं प्राकृतत्वाच्च ‘आणाविजए'त्ति एवं शेषपदान्यपि, नवरमपाया-रागद्वेषादिजन्याअनर्थाविपाकः-कर्मफलं संस्थानानि लोकद्वीपसमुद्राधाकृतयः ‘आणारूइ'त्ति आज्ञा-सूत्रस्यव्याख्यानं नियुक्त्यादितत्र तयावारुचिः-श्रद्धानं साऽऽज्ञारुचिः 'निसग्गरुइ'त्ति स्वभावत एव तत्त्वश्रद्धानं 'सुत्तरुईत्ति आगमात्तत्वश्रद्धानम् 'ओगाढरुइ'त्ति अवगाढनमवगाढं-द्वादशाङ्गावगाहो विस्ताराधिगमस्तेन रुचिअथवा 'ओगाढ'त्ति साधुप्रत्यासन्नीभूतस्तस्य साधूपदेशाद् रुचिरवगाढरुचिः, आलंबण'त्तिधर्मध्यानसौधशिखरारोहणार्थं यान्यालम्बव्यन्ते तान्यालम्बनानि-वाचनादीनि, 'अणुप्पेह'त्ति धर्मध्यानस्य पश्चाप्रेक्षणानि-पालोचनान्यनुप्रेक्षाः।
___ 'पुहुत्तवियक्क. सवियारे'ति पृथक्त्वेन-एकद्रव्याश्रितानामुत्पादादिपर्यायाणां भेदेन वितर्को-विकल्पः पूर्वगतश्रुतालम्बनो नानानयानुसरणलक्षणो यत्र तत्पृथक्त्ववितर्क, तथा विचारः-अर्थाद्वयञ्जने व्यञ्जनादर्थेमनःप्रभृतियोगानांचान्यस्मादन्य स्मिन् विचरणंसह विचारेण यत्तत्सविचारि, सर्वधनादित्वादिन समासान्तः१।।
'एगत्तवियक्के अवियार'त्ति एकत्वेन अभेदेनोत्पादादिपर्यायाणामन्यतमैकपर्यायालम्बनतयेत्यर्थ वितर्क-पूर्वगतश्रुताश्रयो व्यञ्जनरूपोऽर्थरूपो वा यस्य तदेकत्ववितर्कं, तथा . विद्यते विचारोऽर्थव्यञ्जनयोतरस्मादितरत्र तथा मनःप्रभृतीनामन्यस्मादन्यत्र यस्य तदविचारीति २ । 'सुहुमकिरिए अनियट्टि'त्ति सूक्ष्मा क्रिया यत्र निरुद्धवाग्मनोयोगत्वे सत्यर्द्धनिरुद्धकाययोगत्वात्तत्सूक्ष्मक्रियं न निवर्तत इत्यनिवर्तिवर्द्धमानपरिणामत्वात्, एतच्च निर्वाणगमनकाले केवलिन एव स्यादिति ३। _ 'समुच्छिन्नकिरिए अप्पडिवाइ'त्ति समुच्छिन्ना क्रिया-कायिक्यादिका शैलेशीकरणनिरुद्धयोगत्वेन यस्मिंस्तत्तथा अप्रतिपाति-अनुपरतस्वभावम्, 'अवहे'त्ति देवाधुपसर्गजनितं भयंचलनवा व्यथा तदभावोऽव्यथम् ‘असंमोहे'त्ति देवादिकृतमायाजनितस्य सूक्ष्मपदार्थविषयस्य च संमोहस्य-मूढताया निषेधोऽसंमोहः 'विवेगे'त्ति देहादात्मनः आत्मनो सर्वसंयोगानां विवेचनं बुद्धया पृथक्करणं विवेकः ४।
मू. (९६९) सेकिंतंविउसग्गे?, विउसग्गे दुविहे पं०, तं०-दव्वविउसग्गेयभावविउसग्गे य, से किं तं दव्वविउसग्गे?, दव्वविउसग्गे चउब्विहे पं० तं०-गणविउसग्गे सरीरविउसग्गे उवहिविउसग्गे भत्तपाणविउसग्गे, सेत्तं दव्वविउसग्गे।
से किं तं भावविउसग्गे ?, भावविउसग्गे तिविहे पं०, तं०-कसायविउसग्गो संसारविउसग्गो कम्मविउसग्गो, से किं तं कसायविउसग्गे?, कसायविउसग्गे चउलिटे पं०, तंजहा-कोहविउसग्गे मानविउसग्गे मायाविउसग्गे लोभविउसग्गे, सेत्तं कसायविउसग्गे।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org