Book Title: Agam Suttani Satikam Part 06 Bhagvati
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Agam Shrut Prakashan
View full book text
________________
भगवतीअङ्गसूत्रं (२) २५/-/३/८७२
'ओयपएसिए' त्ति विषमसङ्खयप्रदेशनिष्पन्नं 'जुम्मपएसिए'त्ति समसङ्घयप्रदेशनिष्पन्नं, 'तत्थ णं जे से ओयपएसिए पयरवट्टे से जहनेणं पंचपएसिए' इत्यादि, इत्थं पञ्चप्रदेशावगाढं पश्चाणुकात्मकमित्यर्थः, उत्कर्षेणानन्तप्रदेशिकमसङ्घयेयप्रदेशावगाढं लोकस्याप्यसङ्घयेयप्रदेशात्मकत्वात् ।
'जे से जुम्मपएसिए से जहन्त्रेणं बारसपएसिए' इति, 'जे से ओयपएसिए घनवट्टे से जहन्त्रेण सत्तपएसिए सत्तपएसोगाढे' त्ति, अस्य मध्यपरमाणोरुपर्येकः स्थापितोऽधश्चैक इत्येवं सप्तप्रदेशिकं घनवृत्तं भवतीति, 'जे से जुम्पएसिए से जहन्त्रेणं बत्तीसइपएसिए' इत्यादि, अस्य चोपरीध्श एव प्रतरः स्थाप्यस्ततः सर्वे चतुर्विंशतिस्ततः प्रतरद्वयस्य मध्याणूनां चतुर्णामुपर्यन्ये चत्वारोऽधश्चेत्येवं द्वात्रिंशदिति ।
३७६
त्र्यम्नसूत्रे - 'जे से ओयपएसिए से जहन्नेणं तिपएसिए' त्ति, अस्य स्थापना - 'जे से जुम्मपएसिए से जहन्नेणं छप्पएसिए' त्ति 'जे से ओयपएसिए से जहन्त्रेणं पणतीसपएसिए'त्ति, अस्य पञ्चदश-प्रदेशिकस्य प्रतरस्योपरि दशप्रदेशिकः एतस्याप्युपर षट्प्रदेशिकः एतस्याप्युपरि त्रिप्रदेशिकः प्रतरः एतस्याप्युपर्येकः प्रदेशो दीयते इत्येवं पञ्चत्रिंशप्रदेशा इति ।
'जे से जुम्मपएसिए से जहन्नेणं चउप्पएसिए' इति, अस्य स्थापना - अत्रैकस्योपरि प्रदेशो दीयत इत्येवं चत्वार इति ।
चतुरस्रसूत्रे - 'जे से ओयपएसिए जे जहन्नेणं नवपएसिए' त्ति एवं 'जे से जुम्मपएसिए से जहन्त्रेणं चउप्पएसिए' त्ति, एवं जेसे ओयपएसिए से जहन्त्रेणं सत्तावीसपएसिए "त्ति, एवमेतस्य नवप्रदेशिकप्रतरस्योपर्यन्यदपि प्रतरद्वयं स्थाप्यत इत्येवं सप्तविंशतिप्रदेशिकं चतुरस्रं भवतीति, 'जे से जुम्मपएसिए से जहन्नेणं अट्ठपएसिए' अस्योपर्यन्यश्चतुष्प्रदेशिकप्रतरो दीयत इत्येवमष्टप्रदेशिकं स्यादिति ।
आयतसूत्रे - 'सेढिआयए' त्ति श्रेण्यायतं - प्रदेश श्रेणीरूपं 'प्रतरायतं' कृतविष्कम्भश्रेणीद्वयादिरूपं 'घनायतं' बाहल्यविष्कम्भोपेतमनेकश्रेणीरूपं, तत्र श्रेण्यायतमोजःप्रदेशिकं जघन्यं त्रिप्रदेशिकं, १ तदेव युग्मप्रदेशिकं द्विप्रदेशिकं 'जे से ओयपएसिए से जहन्नेणं पन्नरसएसिए' त्ति एवं - तदेव युग्मप्रदेशिकं जघन्यं षट्प्रदेशिकं तच्चैवं एवं घनायतमोजःप्रदेशिकं जघन्यं पञ्चचत्वारिंशत्प्रदेशिकं अस्योपर्यन्त् प्रतरद्वयं स्थाप्यत इत्येवं पञ्चचत्वारिंशत्प्रदेशिकं जघन्यमोजः प्रदेशिकं घनायतं भवति, तदेव युग्मप्रदेशिकं द्वादशप्रदेशिकं तच्चैवम् - एतस्य षड्प्रदेशिकस्योपरि षट्प्रदेशिक एवान्यः प्रतरः स्थाप्यते ततो द्वादशप्रदेशिकं भवतीति ।
'परिमंडलेण' मित्यादि, इह ओजोयुग्मभेदी न स्तः, युग्मरूपत्वेनैकरूपत्वात्परिमण्डलस्येति, तत्र प्रतरपरिमण्डलं जघन्यतो विंशतिप्रदेशिकं भवति, एतस्यैवोपरि विंशतिप्रदेशिकेऽन्यस्मिन् प्रतरे दत्ते चत्वारिंशत्प्रदेशिकघनपरिमण्डलं भवतीति । अनन्तरं परिमण्डलं प्ररूपितम्, अथ परिमण्डलमेवादौ कृत्वा संस्थानानि प्रकारान्तरेण प्ररूपयन्नाह
मू. (८७३) परिमंडले णं भंते! संठाणे दव्वट्टयाए किं कडजुम्मे ते ओए दावरजुम्मे कलियोए गोयमा ! नो कडजुम्मे नो तेयोए नो दावरजुम्मे कलियोए, वट्टे णं भंते! संठाणे दव्वट्ठयाए एवं चेव एवं जाव आयते ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org

Page Navigation
1 ... 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502 503 504 505 506 507 508 509 510 511 512 513 514 515 516 517 518 519 520 521 522 523 524 525 526 527 528 529 530 531 532