Book Title: Agam Sutra Satik 44 Nandisootra ChulikaSutra 1
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Agam Shrut Prakashan

Previous | Next

Page 22
________________ मूलं-२ स्यादेतद्-यदिवेदविषये करोति: स्मरणेनवर्येत तर्हि वेदस्य प्रामाण्यं न स्याद्, अथ च प्रामाण्यमभ्युपगम्यते, तच्चापौरुषपेयत्वादेव, अन्यथा सर्वांगमानामपि प्रामाण्यप्रसक्तेः, ततोऽत्रापि करोतिः प्रामाण्यान्यथानुपपत्त्यां स्मरणे वर्त्य इति, तदेतदसत्, इतरेतराश्रयदोषप्रसङ्गात्, तथाहि-- प्रामाण्ये सिद्धे सति तदन्यथानुपपत्त्या करोते, स्मरणे वर्त्तनं, करोते: स्मरणे वृत्तौ चापौरुषेयत्वसिद्धितः प्रामाण्यमित्येकासिद्धावन्यतरासिद्धिः, अनेकान्तिकं च कर्तुरस्मरणं, वटे वटे वैश्रणव' इत्यादिशब्दानां पौरुषेयाणामपि कर्तुरस्मृतेः, यत्वान् तत्कारमुपलभते एवेति चेत्, न अवश्यं तदुपलम्भसम्भवः, नियमाभावात् किंच___ अपौरुषेयत्वेनाभ्युपगतस्य वेदस्य कर्ता नैवास्ति कश्चित् पौरुषेयत्वेनाभ्युपगतस्य च वटे वटे वैश्रवण इत्यादेरस्तीति न प्रमाणात् कृतश्चिद्विनिश्चयः, किन्तु परोपदेशात्, स च भवतो न प्रमाणं, परस्य रागादिपरीतत्वेन यथावद्वस्तुतत्त्वापरिज्ञानात्, ततः कर्तुभावसन्देह इति सन्दिग्धासिद्धोऽप्यं हेतुः, एतेन यदन्यदपि साधनमवादीद्, वेदवादी-'वेदाध्ययनं सर्वं गुज़ध्ययनपूर्वक, वेदाध्ययनत्वाद्. अधुनातनवेदाध्ययनवदिति, तदपि निरस्तमवसेयं, एवमपौरुषेयत्वसाधने सर्वस्याप्यपौरुषेयत्वप्रसक्तेः, तथाहि-कुमारसम्भवाध्ययनं सर्वं गुर्वध्ययनपूर्वकं, कुमारसम्भवाध्ययनत्वाद्, इदानीन्तनकुमारसम्भवाध्ययनवदिति कुमारसम्भवादीनामध्ययनानादितासिद्धेरपौरुषेयत्वं दुर्निवारं, न च तेषामपौरुषयत्वं, स्वयंकरणपूर्वकत्वेनापि तदध्यययनस्य भावाद्. एवं वेदाध्ययनमपि किञ्चित्स्वयंकरणपूर्वकमपि भविष्यतीति वेदाध्ययनत्वादिति व्यभिचारी हेतुः स्यादेतत्-वेदाध्ययनं स्वयंकरणपूर्वकं न भवति, वेदानां स्वयं कर्तुमशक्तः, तथा चात्र प्रयोगः-पूर्वेषां वेदरचनायामशक्तिः, पुरुषत्वाद्, इदानीन्तपुरुषवदिती,ि तदप्युक्तम्, अत्रापि हेतोर्व्यभिचारात्, तथाहि- भारतादिष्विदानीन्तनपुरुषाणामशक्तावपि कस्यचित्पुरुषस्य व्यासादेः शक्तिः श्रूयते, एवं वेदविषयेऽपि सम्प्रति पुरुषाणां कर्तुमशक्तावपि कस्यचित्प्राक्तनस्य पुरुषविशेषस्य शक्तिर्भविष्यतीति। अपि च-यथाऽग्निसामान्यस्य ज्वालाप्रभवत्वमरणिनिर्मथनप्रभवत्वं च परस्परमबाध्यबाधकत्वान्न विरुध्यते, को ह्यत्र विरोधः अग्निश्च स्यात् कदाचिदरणिनिर्मथनपूर्वकः पथिकाग्नित्याद्, आद्यानन्तराग्निवदित्ययं हेतर्व्यभिचारी, विपक्षे वृत्तिसम्भवात्, तथा वेदाध्ययनमपि विपक्षे वृत्तिसम्भवात् व्यभिचार्येव, तथाहि-वेदाध्ययने स्वयंकरणपूर्वकमपीति, यदा त्वेवं विशिष्यते-यस्तु तथाविधः स्वयंकृत्वाऽध्येतुमसमर्थः तस्य वेदध्ध्ययनमध्ययनान्तरपूर्वकमिति, तदा न कश्चिद्दोषः, यथा यादृशोऽग्निालाप्रभवो दृष्टः तादृशः सर्वोऽपि ज्वालाप्रभव इति, अस्तु वा सर्वं वेदाध्ययनमध्ययनान्तरपूर्वकं, तथाऽप्येवमानदिता सिद्धेद्वेदस्य, नापौरुषेत्वं, अथात एवानादितामात्रादपौरुषेयत्वसिद्धिरिप्यते तर्हि डिम्भकपांशुक्रीडादेरपि पुरुषव्यवहारस्यापौरुषेयतापत्तिः, तस्यापि पूर्वपूर्वदर्शनप्रवृत्तित्वेनानादित्यात्, अपिच स्युरपौरुपेया वेदा यदि पुरुषाणामादिः स्याद् वेदाध्ययनं चानादि, तदाप्याद्यपुरुषस्याध्ययनमध्ययनान्तरपूर्वकं न सिद्धयति, अध्यापतुरभावात्, न च पुरुषस्य ताल्वादिकरणग्रामव्यापाराभावात् स्वयं शब्दाध्यनन्ति, ततो वेदस्य प्रथमोऽवात् स्वयं शब्दा ध्वनन्ति, ततो वेदस्य प्रथमोऽध्येता कर्तववेदितव्यः, अपि च-यद्वस्तु यद्धेतुकमन्वयव्यतिरेकाभ्यां प्रसिद्ध तज्जाती Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 ... 265