Book Title: Agam Sutra Satik 44 Nandisootra ChulikaSutra 1
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Agam Shrut Prakashan

View full book text
Previous | Next

Page 21
________________ - नन्दी - चूलिकासूत्रं पुरुपव्यापारमन्तरेण वचनमाकाशे ध्वनदुपलभ्यते, अपि च तदपौरुषंयं वचनमकारणत्वान्नित्यमंभ्युपगम्यते, 'सदकारणवन्नित्य' मिति वचनप्रामाण्यात्, ततश्च अत्र विकल्पयुगलमवतेतीर्यते, तदपौरुषेयं वचः किमुपलभ्यस्वभावभुतानुपलभ्यस्वभावं ?, तत्र यद्यनुपलभ्यस्वभावं तर्हि तस्य नित्य-त्वेनाभ्युपगमात् कदाचिदपि स्वभावाप्रच्युते: सर्वदैवोपलम्भाभावप्रसङ्गः, अथोपलम्भस्वभावं तर्हि सर्वदानुपरमेनोपलभ्येत, अन्यथा तत्स्वभावताहानिप्रसङ्गाद्, अथोपलभ्यस्वभावमपि सहकारिप्रत्ययमपेक्षयोपलम्भमुपजनयति तेन न सर्वदोपलम्भप्रसङ्गः, तदयुक्तम्, एकान्तनित्य-स्य सहकार्यपेक्षाया अयोगात्, 1 ततो विशेषप्रतिलम्भलक्षणा हि तस्य तत्रापेक्षा, यदाह धर्मकीर्त्तिः - 'अपेक्षाया विशेषप्रतिलम्भलक्षणत्वादि'ति, न च नित्यस्य विशेषप्रतिलम्भोऽसि, अनित्यत्वापत्तेः तथाहि-स विशेषप्रतिलम्भ: तस्यात्मभूतः, ततो विशेषे जायमाने स एव पदार्थ: तेन रूपेण जातो भवति, प्राक्तनं विशिष्टावस्थालक्षणं रूपं विनष्टमित्यनित्यत्वापत्तिः, अथोच्येत - सविशेषप्रतिलम्भो न तस्यात्मभूतः किन्तु व्यतिरिक्तः कथमनित्यत्वापत्तिः ?, यद्येवं तर्हि कथं स तस्य सहकारी ?, न हि तेन सहकारिणा तस्य वचनस्य किमप्युपक्रियते, भिन्नविशेषकरणात्, अथ भिन्नोऽपि विशेषः तस्य सम्बन्धी तेन तत्सम्बन्धिविशेषकरणात् तस्याप्युपकारी द्रष्टव्य इति सहकारी व्यपदिश्यते, ननु विशेषेणापि सह तस्य वचनस्य कः सम्बन्धो ?, न तावत्तादात्म्यं, भिन्नत्वेनाभ्युपगमात्, नापि तदुत्पत्तिः, विकल्पद्वयानतिक्रमात्, तथाहि किं वचनेन विशेषो जन्यते ? उत विशेषेण वचनम् ?, तत्र न तावदाद्यः पक्षो, विशेषस्य सहकारिणो ऽभावात् नापि द्वितीयो वचनस्य नित्यतया कर्त्तुमशक्यावाद्, अथ मा भूद् वचनविशेषयोर्जन्यजनकभाव:, आधारधेयभावो भविष्यति, तदप्यसमीचीनम्, आधाराधेयभावस्यापि परस्परोपकार्योपकारकभावोपेक्षत्वात् तथा-वदरं पतनधर्मकं सत् कुंडेन स्वानंतरदेशस्थायितया परिणामि जन्यते, तस्यान्यतोऽभावात्, ततः कथमनयोराधाराधेयभावः ?, अथ तेन विशेषेण वचनस्योपकारः कश्चित्कियते ततः स तस्य सम्बन्धी, ननु स उपकारः ततो भिन्नोऽभिन्नो वेत्यादि तदेवावर्त्तते इत्यनवस्था । १८ , अपिच-कुतः प्रमाणाद्वचनस्यापौरुषेयत्वाभ्युपगमः ?, कर्तुरस्मरणादिति चेत्, न, तस्याप्यसिद्धत्वात्, तथाहि - स्मरन्ति जिनप्रणीतागमतत्त्ववेदिनो वेदस्य कर्तृन पिप्पलादप्रभृतीन्, स कर्तृस्मरणवादः तेषां मिथ्यारूप इति चेत्, क इदानीमेवं सति पौरुषयः, सर्व्वस्याप्यपौरुषेयत्वप्रसक्ते:, तथाहि कालिदासादयोऽपि कुमारसम्भवादिष्वात्मानमन्यं वा प्रणेतारमुपदिशन्त एवं प्रतिक्षेतुं शक्यन्ते, मिथ्या त्वमान्तमानमन्यं वा कुमारसम्भवादिषु प्रणेतारमुपदिशसीति, ततः कुमारसम्भवादयोऽपि ग्रन्थाः सर्वेऽप्यपौरुषेयाः भवेयुः तथा च कः प्रतिविशेषो वेदे ? येन स एव प्रमाण तयाऽभ्युपगम्यते न शेषागामा:, अपि च-यौष्माकीणैरपि पूर्वमहर्षिभिः सकृर्तृत्वं वेदस्याभ्युपगतमेव, तथा च तद्ग्रन्थः - 'ऋगिरावृचश्चक्रुः सामानि सामगिरा' विति, अथ तत्र करोतिः स्मरणे वर्त्तते न निष्पादने, दृष्टश्च करोतिर्थान्तरेऽपि वर्त्तमानो, यथा संस्कारे, तथा च लोके वक्तारः - पृष्ठ मे कुरु पादौ मे कुव्विति, अत्र हि संस्कारे एव करोतिर्वर्त्तते, नापूर्वनिर्वर्त्तने सम्भवति, अशक्यक्रियत्वात्, ततोऽन्यथानुपपत्त्या संस्कारे एव करोतिर्वर्त्तते, वेदविषये तु नान्यथाऽनुपपन्नं किमपि निबन्धनमस्ति ततः कथं तत्र स्मरणे वर्त्तयितुं शक्तये ? For Private & Personal Use Only www.jainelibrary.org Jain Education International

Loading...

Page Navigation
1 ... 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 ... 265