Book Title: Agam Sutra Satik 44 Nandisootra ChulikaSutra 1
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Agam Shrut Prakashan

Previous | Next

Page 19
________________ आ। १६ नन्दी-चूलिकासूत्रं दितकर्मनिवृत्त्यमर्थमवश्यमहिंसाऽऽसेवनीया, उक्तं च "तम्हा पाणिवहोवज्जियस्स कम्मस्सखवणहेऊओ। वहविरई कायवा संवररूवत्ति नियमेणं।।" अथाहेतुकं न तर्हि तदस्ति, स्वरविषाणवत्, तत्कथं तदपगमाय प्राणिवधोद्यमो भवतः?, अथाहेतुकमप्यस्ति यथाऽऽकाशं, ताकाशस्येव तस्यापि न कथञ्चन विनाश इत्यफलत्वात् न कार्यः प्राणिवधः, यदुप्युक्तं-'ये तु प्रागुपात्तपुण्यकर्मवशतः सुखासिकामनुभवन्तोऽतिष्ठन्तेन ते व्यापदनीया' इत्यादि, तदप्ययुक्तं, यत: पुण्यपापक्षयान्मुक्तिः, ततो यथा परेषां पापक्षपणाय व्यापादने भवतः प्रवृत्तिः तथा पुण्यपणायापि भवति, अथ पापंदुःखनुभवफलं ततो व्यापादनेन दुःखोत्पादनतः पापं क्षपयितुंशक्यं, पुण्यं तु सातानुभवफलं तत्कथं दुःखोत्पादनेन क्षपियतुं शक्यम्?, सातानुभवफलं हि कर्म सातानुभवोत्पादनेनैवक्षपयितुं शक्यम्, नान्यथा, तदपि न समीचीनं, यतो यत्पुण्यं विशिष्टं देवभवे वेदनीयं तन्मनुष्यादिभवव्यापादनेन प्रत्यासन्नीक्रियते, प्रत्यासत्रीकृतं च प्रायः स्वल्पकालवेद्यं भवति, तत एवं पुण्यक्षपणस्यापि सम्भवात् कथं न व्यापादनेन पुण्यपरिक्षयः?, अथव्यापादनानन्तरं विशिष्टदेवभववेदनीयः पुण्योदयः सन्दिग्धः, कस्यचित्पापोदयस्यापि सम्भवात्, ततो न व्यापादनं पुण्यमनुभवतः कर्तुमुचितम्, यद्येवमितरत्र कथं निश्चयः?, ___ इतरत्रापि हि संदेह एव, तथाविदुःखितोऽपि यदि मार्यते तर्हि नरकदुःखानुभवभागीभवति, अमारितश्च सन् कदाचनापि प्रभूतसत्त्वव्यापादनेनपुण्यमुपाय॑ विशिष्टदेवादिभवभागीभवेत्, ततो दुःखितानामपि व्यापादानं न भवतो युक्तम्, एवं च सति सन्दिाधानकान्तिकोऽपि हेतुः, व्यापादनस्य परिणामसुन्दरत्वसन्देहात्, यदप्युक्तं- 'युष्मत्सिद्धान्तानुगतं नारकस्वरूपोपदर्शकं वचः' इत्यादि, तदप्यसमीक्षिताभिधानं, सम्यगस्मत्सिद्धान्तापरिज्ञानाद्, अस्मत्सिद्धान्ते ह्येवं नारकस्वरूपव्यावर्णना-नारकाणां परमाधार्मिकसुरोदीरितदुःखानां परस्परोदीरितदुःखानां वा वेदनातिशयभावतः सम्मोहमुपागतानां नातीव परत्र संक्लेशो यथाऽत्रैवकेषाञ्चिन्मानवानांसम्मूढानां, यथा हि मानवा लकुटादिप्रहारजर्जरीकृतशिरःप्रभृत्यवयवा वेदनातिशयभावतः सम्मूढचेतना नातीव परत्र संक्लिश्यमाना उपलभ्यन्ते, तथा नारका अपि सदैव दृष्टव्याः, ततः तथाविधतीव्रसंक्लेशाभावात् नारकाणां नाभिनवप्रभूततरपापोपचयः, यद्येवंतर्हिसम्मोहो महोपकारी, तथाहिसम्मोहवशान्न परत्रातीव संक्लेशः, तीव्रवेदनाभावतश्च प्रारबद्धपापकर्मपरिक्षयः, सम्मोहश्च हिंस्त्रव्यापारादुपजायते, ततो हिंसका महोपकारिण इति सिद्धमस्मत्समीहितं, तदयुक्तम्, हिंसकानां परपीडोत्पादनतः क्लिष्टकर्मबन्धप्रसक्तेः,नखलु पापस्य परपीडामतिरिच्यान्यन्निबन्धनमीक्षामहे, यदि स्यात्तर्हि मुक्तानामपि पापबन्धप्रसङ्गः, तेषामहिंसत्वात्, ततः कथमिव सचेतनो मनसाऽपि परं व्यापादयितुमुत्सहते? इत्यलं पापचेतोभिः सह प्रसङ्गेन। ___ तथा 'जयति जगत्पितामहः' इति इह जगच्छब्देन सकलसत्त्वपरिग्रहः, ततश्च जगतांसकलसत्त्वानां नरकादिकुगतिविनिपातभयापायरक्षणात् पितेव पिता-सम्यग्दर्शनमूलोत्तरगुणसंहतिस्वरूपो धर्मः, सहिदुर्गतौ प्रपततो जन्तून रक्षति शुभेचनिःश्रेयसदौ स्थानेस्थापयति, तथा चोक्तं निरुक्तिशास्त्रवेदिभिः Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 ... 265