Book Title: Agam Sutra Satik 44 Nandisootra ChulikaSutra 1
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Agam Shrut Prakashan

Previous | Next

Page 17
________________ १४ नन्दी-चूलिकासूत्रं देशान्तरादावपि तथा प्रतीतावन्यथा परिकल्पनं श्रेयः, अतिप्रसङ्गप्राप्तः, नाग्निधूमं जनयति किन्त्वदृष्टः पिशाचादिरित्यस्या अपि कल्पनायाः प्रसङ्गात, अपि च___ अर्थक्रियार्थी प्रेक्षावान् प्रमाणमन्वेषयति, न चाभिप्रायविपयं विकल्पप्रतिबिम्बं विवक्षितार्थक्रियासमर्थं, किन्तु बाह्यमेव वस्तु, न च वाच्यम्-अभिप्रायविषयं विकल्पप्रतिबिम्बं ज्ञात्वा बाह्ये वस्तुनि प्रवर्तिष्यते तेनायमदोष इति, अन्यस्मिन् ज्ञाते अन्यत्र प्रवृत्त्यनुपपत्तेः, न हि घटे परिच्छिन्ने पटे प्रवृतियुक्ता, एतेन विकल्पप्रतिबिम्बकं शब्दवाच्यमिति यत्प्रतिपन्नं तदपि प्रतिक्षिप्तमवसेयं, तत्रापि विकल्पप्रतिबिम्बके शब्देन प्रतिपत्रे वस्तुनि प्रवृत्त्यनुपपत्ते; दृश्यविकल्पावावेकीकृत्य वस्तुनि प्रवर्त्तते इति चेत्, तथाहि-तदेव विकल्पप्रतिबिम्ब बहीरूपतयाऽध्यवस्यति ततो बहि: प्रवर्तत तेनायमदोपइति, न, तयोरेकीकरणासिद्धः, अत्यन्तवैलक्षण्येन साधायोगात्, साधर्म्यं चैकीकरणनिमित्तम्, अन्यथाऽतिप्रसङ्गात्, अपिच-कश्चैतावेकीकरोतीति वाच्यम्, स एव विकल्प इति चेत्, तद् न, तत्र बाह्यस्वरूपलक्षणानवभासात्, अन्यथा विकल्पत्वायोगाद, अनवभासितेन चैकीकरणासम्भवाद, अतिप्रसक्तः,अथविकल्पादनएव कश्चिद्विकल्प्यमेवार्थ दृश्यमित्यध्यवस्यति, हन्त तर्हि स्वदर्शनपरित्यागप्रसङ्गः, एवमभ्युपगमे सति बलादात्मास्तित्वप्रसक्तेः तथाहि-निविकल्पकं न विकल्प्यमर्थं साक्षात्करोति, तदगोचरत्वात्, ततो न तत् दृश्यमर्थं विकल्पेन सहैकीकर्तुमलं, न च देशकालस्वभावव्यवहितार्थविषयेषु शाब्दविकल्पषु तद्विषये निर्विकल्पकसम्भवः, तत्कथं तत्र तेन दृश्यविकल्पार्थेकीकरणम्, ततो विकल्पादन्यः सर्वत्र दृश्यविकल्पावावेकीकुर्वन्, बलादात्मैवोपपद्यते, न च सोऽभ्य्पगम्यते, तस्माच्छब्दो बाह्यस्यार्थस्य वाचक इत्यकामेनापि प्रतिपत्तव्यम, इतश्च प्रतिपत्तव्यम्, अन्यथा सङ्केतस्यापि कर्तुमशक्यत्वात्, तथाहि-येन शब्दन इदं तदित्यादिना सङ्केतो विधेय: तेन किं सङ्केतितेन उतासङ्केतितेन?, न तावत्सङ्केतितेन, अनवस्थाप्रसङ्गात्, तस्यापि हि येन शब्देन सङ्केतः कार्यः तेन किं सङ्केतितेन उतासङ्केतितेनेत्यादि तदेवावर्त्तते, अथासङ्केतितेन सिद्धः तर्हि शब्दार्थयोर्वास्तवः सम्बन्ध इति। तथा 'जगदानन्दः' इह जगच्छब्देन संज्ञिपञ्चेन्द्रियपरिग्रहः तेषामेव भगवद्दर्शनदेशनादित आनन्दसम्भवात्, ततश्च जगतां-संज्ञिपञ्चेन्द्रियाणाममृतस्यन्दिमूर्तिदर्शनमात्रतो निःश्रेयसाभ्युदयसाधकधर्मोपदेशद्वारेण चानन्दहेतुत्वादैहिकामुष्मिकप्रमोदकारणत्वाज्जगदानन्दः, अनेन परार्थसम्पदमाह । तथा 'जगत्राथ' इह जगच्छब्देन सकलचराचरपरिग्रहः, नाथशब्देन च योगक्षेमकृदभिधीयते, योगक्षेमकृत नाथ' इति विद्वत्प्रवादात्, ततश्च जगतः-सकलचराचररूपस्य यथावस्थितस्वरूपप्ररूपणद्वारेण वितथप्ररूपणापायेभ्यः पालनाच्च नाथ इव नाथो जगन्नाथः अनेनापि परार्थसम्पदमाह - ___ तथा 'जगद्बन्धुः' इह जगच्छब्देन सकलप्राणिगणपरिग्रहः, प्राणिन एवाधिकृत्य बन्धुत्वोपपत्तेः, ततश्च जगतः-सकलप्राणिसमुदायरूपस्याव्यापादनोपदेशप्रणयनेन सुखस्थापकत्वाद्वन्धुरिव बन्धुर्जगद्वन्धुः, सकलजगदव्यापादनोपदेशप्रणयनं च भगवतः सुप्रतीतम्, तथा चाचारसूत्रं-"सव्वे पाणा सव्वे भूया सब्वे जीवा सव्वे सत्ता न हंतव्या न अज्जावेयव्वा न परिधेत्तव्वा न उवद्दवेयव्या, एस धम्मे सुद्धे धुवे नीए सासए समेच्च लोयं खेयोहिं पवेइए" Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 ... 265