Book Title: Agam Sutra Satik 41B Pindniryukti MoolSutra 2b
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Agam Shrut Prakashan
View full book text ________________
२४४
पिण्डनियुक्तिः-मूलसूत्र
व्यवहारतश्च॥ एतदेव निश्चयव्यवहाराभ्यां सचित्तस्यद्वैविध्यं प्रतिपादयतिमू. (१८) निच्छयओ सचित्तो पुढविमहापब्वयाण बहुमज्झे।
अचित्तभीसवज्जो सेसो ववहारसच्चित्तो।। वृ. निश्चयत- सचितः पृथिवीकायो धर्मादीनां पृथिवीना मेर्वादीनां महापर्वतानामुपलक्षणमेतत् तेन टङ्कादीनां च, बहुमध्वयभागेवेदितव्यः, तत्राचित्तताया मिश्रतायाच हेतूनां शीतादीनामसम्भवात, शेषः पुनः अचित्तमिश्रवों वक्ष्यमाणस्थानसम्भविमिश्राचित्तंव्यतिरिक्तो निराबाधारण्यभूम्यादिषु व्यवस्थितो व्यवहारतः सचितो वेदितव्यः। उक्तः ॥ सचित्तपृथिवीकायः, सम्प्रति तमेव मिश्रमाहमू. (१९) खीरदुमहेट्ठपंथे कट्टोले इंधने यमीसो उ।
पोरिसिएग दुग तिगंबहुइंधनमज्झथोवे य॥ वृ. 'खीरदुमेहट्ट' त्ति क्षीरद्रुमा' वटाश्वत्थादयस्तेषामधस्तान-तले यः पृथिवीकायः स मिश्रः, तत्र हि क्षीरद्रुमाणांमाधुर्येणशस्त्रत्वाभावाकियान्सचित-शीतादिशस्त्रसम्पर्कसम्भवाञ्चकियानचितइतिमिश्रता, तथा पति ग्रामान्नगराद्वा बहिर्यः, पृथिवीकायोवर्तते सोऽपि मिश्रो, यतस्तत्र गन्त्रीचक्रादिभिर्य उत्सातः पृथिवीकायःसकियान्सचित्तःकियांश्चशीतवातादिभिरचित्तीकृतइतिमिश्नः, कट्टोले'त्तिकृष्टोएलविदारितः सोऽपिप्रथमतोहलेनविदार्यमाणःसचित-ततःशीतवातादिभिःक्रियानचित्तीकिश्यते इतिमिश्रः,तथाऽऽो जलमिश्रित-, तथाहि-मेघस्यापिजलं सचित्तपृथिवीकायस्योपरि निपतत् कियन्तंपृथिवीकायं विराधयति तता जलार्द्रपृथिवीकायो मिश्र उपपद्यते, सोऽप्पन्तर्मुहूर्तादनन्तरमचित्तीभवति, परस्परशस्त्रत्वेन द्वयोरपि पृथिव्यपकाययोरचित्तीभवनसम्भवात्, यदा त्वतिप्रभूतं मेघजलं निपततितदा तज्जलं यावन्नाद्यापि स्थिति बध्नातितावत मिश्रःपृथिवीकायः, स्थितिबन्धेतुकृतेसतिसचित्तोऽपिसम्भाव्यते, तथा इन्धने' गोमयादौ मिश्रः, तथाहि-गोमयादिकमिन्धनं सचित्तपृथिवीकायस्य शस्त्रं, शस्त्रेण च परिपीड्यमानो यावन्नाद्यापि सर्वथापरिणमति तावन्मिश्रः । अत्रैवेन्धनविषये कालमानमाह- 'पोरिसी' त्यादि, बहिन्धनमध्यगत एकां पौरुषी यावन्मिनो मध्यमेन्धनसम्पृक्तस्तु पौरुषौद्विकम् अल्पेनन्धनसम्पृक्त स्तु पौरुषीत्रिकं तत उर्वमचित्त इति॥ तदेवमुक्तो मिश्रः पृथिवीकायः, साम्पतमचित्तमाहम. (२०) सीउण्हखारखत्ते अगीलोणूसअंबिलेनेहे।
वुकंतजोणिएणं पयोषणं तेणिम होइ॥ कृ.इहसर्वत्रसप्तमीतृतीयाऽर्थेप्राकृतलक्षणवशात,तथाचाहपाणिनिःप्राकृतलक्षणे- 'व्यत्ययोऽप्यासा' मित्यवसूत्र सप्तमी तृतीयाथै, यथा तिसुतेसुअलंकिया पुह्वी' इति, ततोऽयमर्थः-शीतोष्णक्षारक्षत्रेण, तत्र शीत प्रतीतम उष्णः-सूर्यादिपरितापः क्षारः-यवक्षारादिः क्षत्रं करीषविशेषः- एतः, तथा अग्निलोणूसअंबिलनहे' इति अग्नि:-वैश्नावरः लवणं प्रतीतम ऊषःऊषरादिक्षवाद्भवो लवणिमसम्मिश्रो रजोविशेषः, आम्लं-काधिक स्नेहः-तैलादिः एतैश्वाचितः पृथिवीकायो भवति, इह शीताग्नम्लक्षारक्षत्रस्नेहाः परकायशस्त्राणि, ऊषः, स्वकायशस्त्रम्, उष्णेश्वेह सूर्यपरितापरूपः, स्वभावोष्णः तथाविधपृथिवीकायपरिताप-रूपावागृह्यते नाग्निपरितापल्पस्तस्याग्निग्रहणेनैवगृहीतत्वात,ततःसोऽपि,स्वकायशस्त्रोपादानेन परकायशस्त्रोपादानेन चान्यान्यानि स्वकायपरकायशस्त्राणुपुलक्ष्यन्ते, यथा कटुकरसो मधुररसस्य स्वकायशस्त्रमित्यादि.एतेनपृथिवीकायस्याच्तित्ततयाभवनंचतु प्रतियादितंद्रष्टव्यं, तद्यथा-द्रव्यतःक्षेत्रतः कालतो भावतच, तत्र स्कायेन परकायेण वा यदिचित्तीकरणं तद्रव्यतः यदा तु क्षारादिक्षेत्रोत्पन्नस्य
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org
Loading... Page Navigation 1 ... 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 ... 202