Book Title: Agam Sutra Satik 02 Sutrakrut AngSutra 02
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Agam Shrut Prakashan

View full book text
Previous | Next

Page 342
________________ श्रुतस्कन्धः-२, अध्ययनं-२, ३३९ दिगुणोपेतः, एवमात्मानं समुत्कर्षयेदिति।साम्प्रतंमानोत्कर्षविपाकमाह-'देहचुए' इत्यादि, तदेवं जात्यादिमदोन्मत्तः सन्निहैवलोके गर्हितो भवति, अत्रच जात्यादिपदद्वयादिसंयोगा द्रष्टव्याः, ते चैवं भवन्ति-जातिमदः कस्यचित्र कुलमदः,अपरस्य कुलमदो नजातिमदः, परस्योभयम, अपरस्यानुभयमित्येवं पदत्रयेणाष्टौ चतुर्भिः षोडशेत्यादियावदष्टभिः पदैः षट्पंचाशदधिकंशतद्वयमिति, सर्वत्र मदाभावरूपश्चरमभङ्गःशुद्ध इति।। परलोकेऽपि च मानी दुःखभाग्भवतीत्यनेन प्रदर्श्यते-स्वायुषः क्षये देहाच्चुतो भवान्तरं गच्छन् शुभाशुभकर्मद्वितीयः कर्मपरायत्तत्वादवशः-परतन्त्रः प्रयाति, तद्यथा-गर्भाद्गर्भ पञ्चेन्द्रियापेक्षं तथा गर्भादगर्भ विकलेन्द्रियेषूत्पद्यमानः पुनरगर्भाद्गर्भमेवमगर्भादगर्भम् एतच्च नरककल्पगर्भदुःखापेक्षाया मभिहितम्, उत्पद्यमानदुःखापेक्षया त्विदमभिधीयते-जन्मन एकस्मादपरं जन्मांतरं व्रजति, तथा मरणं मारस्तस्मान्मारान्तरं व्रजति, तथा नरकदेश्यात्श्वपाकादिवासाद्रल- प्रभादिकं नरकान्तरं व्रजति, यदिवा नरकात्सीमन्तकादिकादुध्धृत्य सिंहमस्यादावुत्पद्य पुनरपि तीव्रतरं नरकान्तरं व्रजति । तदेवं नटवद्रङ्गभूमी संसारचक्रवाले स्त्रीपुंनपुंसकादीनि बहून्यवस्थान्तराण्यनुभवति । तदेवं मानी परपरिभवे सति चण्डो रौद्रो भवति परस्यापकरोति, तदभावे ह्यात्मानं व्यापादयति तथा स्तब्धश्चपलो यत्किञ्चकारी मानी सन् सर्वोऽप्येतदवस्थो भवतीति । तदेवं 'तत्प्रत्ययिकं' माननिमित्तं सावधं कर्म 'आधीयते' सम्बध्यते । नवममेतक्रियास्थानमाख्यातमिति। मू. (६५८) अहावरे दसमे किरियट्ठाणे मित्तदोसवत्तिएत्ति आहिज्जइ, से जहानामए केइ पुरिसे माईहिं वा पितीहिं वाभाईहिं वा भइणीहिं वा भजाहिं बाधूयाहिं वा पुत्तेहिं वासुण्हाहिं वा सद्धिं संवसमाणे तेसिं अनयरंसि अहालहुगंसि अवराहसि सयमेव गुरुयं दंडं निवत्तेति। तंजहा-सीओदगवियडसि वा कायं उच्छोलित्ता भवति, उसिणोदगवियडेण वा कार्य ओसिंचित्ता भवति, अगनिकाएणं कायं उबड़हित्ता भवति, जोत्तेण वा वेत्तेण वा नेतेण वा तयाइ वा कण्णेण वा छियाए वा लयाए वा अन्नयरेण वा दवरएण पासाई उद्दालित्ता भवति, दंडेण वा अट्ठीण वा मुट्ठीण वा लेलूण वाकवालेणवाकायं आउट्टित्ता भवति, तहप्पगारे पुरिसजाए संवसमाणे दुम्मणा भवति, पवसमाणे सुमणा भवति । तहप्पगारे पुरिसजाए दंडपासी दंडगुरुए दंडपुरकडे अहिए इमंसि लोगंसि अहिए परंसि लोगंसि संजलणे कोहणे पिट्टिमंसियाविभवति, एवं खलु तस्स तप्पत्तियं सावनंति आहिज्जति, दसमे किरियट्ठाणे मित्तदोसवत्तिएत्ति आहिए। वृ. अथापरं दशमं क्रियास्थानं मित्रदोषप्रत्ययिकमाख्यायते, तद्यथा नाम कश्चित्पुरुषः प्रभुकल्पोमातापितृसुहृत्स्वजनादिभिःसार्धं परिवसंस्तेषांचमातापित्रादीनामन्यतमेनानाभोगतया यथाकथंचिल्लधुतमेऽप्यपराधे वाचि दुर्वचनादिके तथा कायिके हस्तपादादिके संघट्टनरूपे कृते सति स्वयमेव-आत्माना क्रोधामातोगुरुतरं दण्डं' दुःखोत्पादकं 'निर्वर्तयति' करोति, तद्यथाशीतोदके 'विकटे' प्रभूते शीते वा शिशिरादौ 'तस्य' अपराधकर्तु कायमधो बोलयिता भवति, तथोष्णोदकविकटेन 'काय' शरीरमपसिञ्चयिता भवति, तत्र विकटग्रहणादुष्णतैलेनकाधिकादिना वा कायमुपतापयिता भवति, तथा अग्निकायेन उल्मुकेन तप्तायसावा कायमुपदाहयिता भवति, Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484