Book Title: Agam Sutra Satik 02 Sutrakrut AngSutra 02
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Agam Shrut Prakashan

View full book text
Previous | Next

Page 403
________________ ४०० सूत्रकृताङ्ग सूत्रम् २/४/-/७०३ तेस्व मैथुनसद्भावोऽपि, तथाऽशनादेः स्थापनात्परिग्रहसद्भावोऽपीत्येवं क्रोधमानमयालोमा यावन्मिध्यादर्शनशल्यसद्भावश्चतेषामवगन्तव्यः, तत्सद्भावाञ्चतेदिवा रात्रीवासुप्ताजाग्रदवस्था वा नित्यं प्रशठव्यतिपातचित्तदण्डा भवंति, तदेव दर्शयितुमाह - 'तंजहा इत्यादि,तेह्यसंज्ञिनःक्वचिदपि निवृत्तेरभावात्तात्ययिककर्मबन्धोपेता भवंति, तद्यथा-प्राणातिपातयावन्मिथ्यादर्शनशल्यवन्तो भवन्ति, तद्वत्तया च यद्यपि ते विशिष्टमनोवाग्यापाररहितास्तथापिसर्वेषां प्राणिनांदुःखोत्पादनतया तथाशोचनतया-शोकोत्पादनत्वेन तथा 'जूरणतया जूरणं-वयोहानिरूपंतत्करणशीलतया तथा त्रिभ्यो-मनोवाक्कायेभ्य-पातनंत्रिपातनं तद्भावस्तया यदिवा 'तिप्पणयाए त्ति परिदेवनतया तथा 'पिट्टणयाए'त्ति मुष्टिलोष्टादिप्रहारेण तथा तथाविधपरितापनतया' बहिरन्तश्च पीडया, ते चासंज्ञिनोऽपि यद्यपि देशकालस्वभावविप्रकृष्टानां न सर्वेषां दुःखमुत्पादयन्ति तथापि विरतेरभावात्तद्योग्यतया दुःखपरितापक्लेशादेरप्रतिविरता भवन्ति, तत्सद्भावाच्चतप्रत्ययिकेन कर्मणा बध्यन्ते।तदेवं विप्रकृष्टविषयमपि कर्मबन्धप्रदर्शोपसंजिहीर्षुराह-इतिरुपप्रदर्शने खलुशब्दोवाक्यालङ्कारे विशेषणेवा, किं विशिनष्टि __ये इमे पृथिवीकायादयोऽसंज्ञिनः प्राणिनस्तेषांनतर्को नसंज्ञानप्रज्ञान मनो न वाक्न स्वयं कर्तुंनान्येनकारयितुंनकुर्वन्तमनुमन्तुंवाप्रवृत्तिरस्ति,तेचाहर्निशममित्रभूता मिथ्यासंस्थिता नित्यं प्रशठव्यतिपातचित्तदण्डा दुःखोत्पादनयावत्परितापनपरिक्लेशादेरप्रतिविरता असंज्ञिनोऽपि सन्तोऽहर्निसंसर्वकालमेवप्राणातिपाते कर्तव्येतद्योग्यतया तदसंप्राप्तावपि ग्रामघातकवुपाख्यायन्ते यावन्मिथ्यादर्शनशल्य उपाख्यायन्तइति, उपाख्यानंचासंज्ञिनोऽपियोग्यतया पापकर्मानिवृत्तेरित्यभिप्रायः । तदेवं दर्शिते दृष्टान्तद्वये तत्प्रतिबद्धमेवार्थशेष प्रतिपादयितुं चोद्यं क्रियते, तद्यथा। किमेते सत्त्वाः संज्ञिनोऽसंज्ञिनश्च भव्याभव्यत्ववनियतरूपा एवाहोस्वित्संझिनो भूत्वाऽसंज्ञित्वं प्रतिपद्यन्ते असंज्ञिनोऽपि संज्ञित्वमित्येवंचोदिते सत्याहाचार्य-सव्वजोणियावि खलु'इत्यादि, यदिवा सन्त्येवंभूता वेदान्तवादिनोय एवं प्रतिपादयन्ति-'पुरुषः पुरुषत्वमश्नुते पशुरपि पशुत्व'मिति, तदत्रापिसंज्ञिनःसंज्ञिन एव भविष्यन्त्यसंज्ञिनोऽप्यसंजिन इति, तन्मतव्यवछेदार्थमाह-सव्वजोणियावी'त्यादि, यदिवाकिं संज्ञिनोऽसंज्ञिकर्मबन्धं प्राक्तने सत्येव कर्मणि कुर्वन्ति किंवानेत्येवमसंज्ञिनोऽपिसंज्ञिकर्मबन्धंग्राक्तनेसत्येवकुर्वान्त्याहोस्विन्नेत्येतदा-शङ्कयाह _ 'सव्वजोणियावी' त्यादि, सर्वा योनयो येषां ते सर्वयोनयः संवृतविवृतोभयशीतोष्णोभयसचित्ताचित्तोभयरूपयोनय इत्यर्थः, तेचनारकतिर्यङनरामराअपिशब्दाद्विशिष्टैकयोनयोऽपि, खल्विति विशेषणे, एतद्विशिनष्टि-तजन्मापेक्षया सर्वयोनयोऽपि सत्वाः पर्याप्तपेक्षया यावन्मनःपर्याप्तिननिष्पद्यतेतावदसंज्ञिनः करणतःसन्तः पश्चात्संज्ञिनो भवन्त्येकस्मिन्नेवजन्मनि, अन्यजन्मापेक्षयात्वेकेन्द्रियादयोऽपिसन्तः पश्चात्संज्ञिनो भवन्तीति, तथा भूतकर्म-परिणामात, न पुनर्भव्याभव्यत्ववत् व्यवस्थानियमो, भव्याभव्यत्वे हि न कर्मायत्ते अतो नानयोयभिचारः, ये पुनः कर्मवशगास्ते संज्ञिनो भूत्वाऽन्यत्रसंज्ञिनो भवन्त्यसंज्ञिनश्च भूत्वां संझिन इति । वेदान्तवादिमतस्य तु प्रत्यक्षेणैव व्यभिचारः समुपलभ्यते, तद्यथा संश्यपिकश्चिन्मूर्छाद्यवस्थायामसंज्ञित्वं प्रतिपद्यते, तदपगमेतुपुनः संज्ञित्वमिति, जन्मान्तरे तु सुतरां व्यभिचार इति । तदेवं संझ्यसंज्ञिनोः कर्मपरतन्त्रत्वादन्योऽन्यानुगतिरविरुद्धा, यथा प्रतिबुद्धो निद्रोदयात्स्वपिति सुप्तश्च प्रतिबुध्यते इत्येवं स्वापप्रतिबोधयोरन्योऽन्यानुगम Jain Education International For Private & Personal Use Only For www.jainelibrary.org

Loading...

Page Navigation
1 ... 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484