Book Title: Agam Sutra Satik 02 Sutrakrut AngSutra 02
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Agam Shrut Prakashan

View full book text
Previous | Next

Page 431
________________ ४२८ सूत्रकृताङ्ग सूत्रम् २/६/-/७५२ मू. (७५२ ) आगंतरागेर आरामगारे, समणे उ भीते न उवेति वासं । दक्खा हु संती बहवे मणुस्सा, ऊणातिरित्ता य लवालवा य ॥ घृ. स विप्रतिपन्नः सन्नार्द्रकमेवमाह-योऽसौ भवत्संबन्धी तीर्थकरः स रागद्वेषभययुक्तः, तथाहि असावागन्तुकानां कार्पटिकादीनामगारमागन्तागारं तथाऽऽरामेऽगारमारामागारं तत्रासी 'श्रमणो' भवत्तीर्थकर, तुशब्द एवकारार्थे, भीत एवासौ तदपध्वंसनमत्वात् 'तत्र' आगन्तागारादौ 'न वासमुपैति' न तत्रासनस्थानशयनादिकाः क्रियाः कुरुते । किं तत्र भयकारणमिति चेत्तदाह'दक्षाः ' निपुणाः प्रभूतशास्त्रविशारदाः, हुशब्दो यस्मादर्थे, यस्माद्बहवः सन्ति मनुष्याः तस्मादसौ तद्भीतो न वासं तत्र समुपैति न तत्र वासमातिष्ठते । किंभूताः ? -न्यूनाः स्वतोऽवमा हीना जात्याद्यतिरिक्ता वा ताभ्यां पराजितस्य महांश्छायाभ्रंश इति । तानेव विशिनष्टि-लपन्तीति लपावाचालाः घोषितानेक तर्कविचित्रदण्डकाः तथा अलपा-मौनव्रतिका निष्ठित योगाः गुडिकादियुक्ता वा यद्वशादभिधेयविषया वागेव न प्रवर्तते तस्तद्भयेनासौ युष्मत्तीर्थकृदागन्तागारादौ नैव व्रजतीति मू. (७५३) मेहाविणो सिक्खिय बुद्धिमंता, सुत्तेहि अत्येहि य निच्छयन्ना । पुच्छिंसु मा णे अनगार अन्ने, इति संकमाणो न उवेति तत्थ ॥ वृ. पुनरपि गोशालक एवाह - 'मेहाविणो' इत्यादि, मेघा विद्यते येषां ते मेघाविनोग्रहणधारणसमथा, तथाऽऽचार्यादिः समीपे शिक्षां ग्राहिताः शिक्षिताः तथौत्पत्तिक्यादिचतुर्विधबुद्धयुपेता बुद्धिमन्तः, तथा 'सूत्रे' सूत्रविषये विनिश्चयज्ञाः तथा अर्थविषये च निश्चयज्ञा यथावस्थितसूत्रार्थवेदिना इत्यर्थः । ते चैवंभूताः सूत्रार्थविषयं मा प्रश्नं कार्षुरन्येऽनगारा एके केचनेत्येवमसौ शङ्कमानः- तेषां बिभ्यन्न 'तत्र' तन्मध्ये उपैति उपगच्छतीति, ततश्च न ऋ जुर्मार्गः, इति भययुक्तत्वातस्य, तथा म्लेच्छविषयं गत्वा न कदाचिद्धर्मदेशना च करोति, आर्यदेशेऽपि न सर्वत्र अपितु कुत्रचिदेवेत्यतो विषमदृष्टित्वाद्रागद्वेषवर्त्यसाविति । सू. (७५४) नो कामकिच्चा न य बालकिच्चा, रायाभिओगेण कुओ भएणं । वियागरेज्ज पसिणं नवावि, सकामकिच्चेनिह आरियाणं ॥ वृ. एतद्गोशालकमतं परिहर्तुकाम आर्द्रक आह- स हि भगवान्प्रेक्षापूर्व कारितया नाकामकृत्यो भवति, कमनं कामः इच्छा न कामोऽकामस्तेन कृत्यं कर्तव्यं यस्यासावकामकृत्यः, स एवंभूतो न भवति, अनिच्छाकारी न भवतीत्यर्थः, यो ह्यप्रेक्षापूर्वकारितया वर्ततेसोऽनिष्टमपि स्वपरात्मनोर्निरर्थकमपि कृत्यं कुर्वीत, भगवांस्तु सर्वज्ञः सर्वदर्शी परहितैकरतः कथं स्वपरात्मनोर्निरुपकारकमेवं कुर्यात्, तथा च बालस्येव कृत्यं यस्य स बालकृत्यो, न चासौ बालवदनालोचित - कारी, न परानुरोधान्नापि गौरवाद्धर्मदेशनादिकं विधत्ते अपितु यदि कस्यचिद्भव्यसत्त्वस्योपकाराय तद्भाषितं भवति ततः प्रवृत्तिर्भवति नान्यथा, तथा न राजाभियोगेनासौ धर्मदेशनादौ कथञ्चिप्रवर्तते । " ततः कुतस्तस्य भयेन प्रवृत्तिः स्यादित्येवं व्यवस्थिते केनचित्क्वचित्संशयकृतं प्रश्नं व्यागृणीयाद् यदि तस्योपकारो भवति, उपकारमन्तरेण 'न च' नैव व्यागृणीयाद्, यदिवाऽनुत्तरसुराणां मनःपर्यायज्ञानिनां च द्रव्यमनसैव तन्निर्णयसंभवादतो न व्यागृणीयादित्युच्यते । यदप्युच्यते भवता यदि वीतरागोऽसौ किमिति धर्मकथां करोतीति चेदित्याशङ्कयाह- 'स्वकामकृत्येन ' For Private & Personal Use Only www.jainelibrary.org Jain Education International

Loading...

Page Navigation
1 ... 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484