Book Title: Agam Sutra Satik 02 Sutrakrut AngSutra 02
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Agam Shrut Prakashan

View full book text
Previous | Next

Page 451
________________ सूत्रकृताङ्ग सूत्रम् २/७/-/७९८ मू. (७९८) एवं हं पञ्चक्खंताणं सुपचक्खायं भवइ, एवं हं पञ्चखावेमाणाणं सुपच्चक्खावियं भवइ, एवं ते परं पद्यक्खावेमाणा नातियरंति सयं पइण्णं, नन्नत्थ अभिओगेणं गाहावइचोरग्गहणविमोक्खणयाए तसभूएहिं पाणेहिं निहाय दंड, एवमेव सइ भासाए परक्कमे विज्रमाणे जे ते कोहा वा लोहा व परं पञ्चक्खावेति अयंपि नो उवएसे नो नेआउए भवइ, अवियआई आउसो ! गोयमा ! तुब्भंपि एवं रोयइ ? । वृ. तदेवं व्यवस्थिते नागरिकध्ष्टान्तेन त्रसमेव स्थावरत्वेनायातं व्यापादयतोऽवश्यंभावी प्रतिज्ञाविलोपो यतः तत एव मदुक्तया वक्ष्यमाणनीत्या प्रत्याख्यानं कुर्वतां सुप्रत्याख्यातं भवति, एवमेव च प्रत्याख्यापयतां सुप्रत्याख्यापितं भवति, एवं च ते प्रत्याख्यापयन्तो नातिचरन्ति स्वीयां प्रतिज्ञामित्येतद्दर्शयितुमाह- 'नन्नत्थे 'त्यादि, तत्र गृहपतिः प्रत्याख्यानमेवं गृह्णाति, तद्यथा ૪૪૮ 'त्रसभूतेषु' वर्तमानकाले त्रसत्वेनोत्पन्नेषु प्राणिषु दण्डयतीति दण्डः - प्राण्युपभर्दस्तं 'विहाय' परित्यज्य प्रत्याख्यानं करोति, तदिह भूतत्वविशेषणात्स्थावरपर्यायापन्नवधेऽपि न प्रतिज्ञाविलोपः तथा 'नान्यत्राभियोगेने 'ति राजाद्यभियोगादन्यत्र प्रत्याख्यानमिति । तथा गृहपतिचौरविमोक्षणतयेति, एतच्च भवद्भिः सम्यगुक्तं, एतदपिनसकाये भूतत्वविशेषणमभ्युपगम्यतामिति, एतदभ्युपगमेऽपि हि यथा क्षीरविकृतिप्रत्याख्यायिनो दधिभक्षणेऽपि न प्रतिज्ञाविलोपः तथा त्रसभूताः सत्त्वा न हन्तव्या इत्येवं प्रतिज्ञावतः स्थावरहिंसायामपि न प्रत्याख्यानातिचारः । तदेवं विद्यमाने सति ‘भाषायाः ' प्रत्याख्यानवाचः 'पराक्रमे' भूतविशेषणाद्दोषपरिहारसा मर्थ्ये एवं पूर्वोक्तया नीत्या सति दोषपरिहरणोपाये ये केचन क्रोधाद्वा लोभाद्वा परं श्रावकादिकं निर्विशेषणमेव प्रत्याख्यापयन्ति तेषां प्रत्याख्यानं ददतां मृषावादो भवति, गृह्णतां चावश्यंभावी व्रतविलोप इति, तदेवमयमपि नः अस्मदीयोपदेशाभ्युपगमो भूतत्वविशेषणविशिष्टः पक्षः किं भवतां 'नो' नैव 'नैयायिको न्यायोपपन्नो भवति ?, इदमुक्तं भवति भूतत्वविशेषणेन हित्रसान् स्थावरोत्पन्नान् हिंसतोऽपि न प्रतिज्ञातिचार इति, अपि चैतदायुष्मन् गौतम् ! तुभ्यमपि रोचतेएवमेतद्यथा मया व्याख्यातम् । मू. (७९९) सवायं भगवं गोयमे ! उदयं पेढालपुत्तं एवं वयासी- आउसंतो ! उदगा नो खलु अम्हे एयं रोयइ, जे ते समणा वा माहणा वा एवमाइक्खति जाव परुवेति नो खलु ते समणा वा निग्गंथा वा भासं भासंति, अनुतावियं खलु ते भासं भासंति, अब्भाइक्खति खलु ते समणे समणोवासएवा, जेहिंवि अन्नेहिं जीवेहिं पाणेहिं भूएहिं सत्तेहिं संजमयंति ताणवि ते अब्माइक्खंति, कस्स णं तं हेउं ?, संसारिया खलु पाणा, तसावि पाणा थावरत्ताए पञ्चायंति थावरावि पाणा तसत्ताए पञ्चायंति तसकायाओविप्पमुच्चमाणा धावरकायंसि उववज्रंति थावरकायाओविष्पमुच्चमाणा तसकायंसि उववज्जंति, तेसिं च णं तसकायंसि थावरकायंसि उव्वजंति थावरकायाओ विप्पमुञ्चमाणा तसकायंसि उववज्रंति, तेसिं च णं तसकायंसि उववन्नाणं ठाणमेयं अधत्तं । यू. एवमभिहितो गौतमः सद्वाचं सवादं वा तमुदकं पेढालपुत्रमेवं वक्ष्यमाणमवादीत्, तद्यथा-नो खल्वायुष्मन्नुदकास्मभ्येतदेवं यद्यथा त्वयोच्यते तद्रोचत इति, इदमुक्तं भवति-यदिदं त्रसकायविरती भूतत्वविशेषणं क्रियते तन्निरर्थकतयाऽस्मभ्यं न रोचत इति । तदेवं व्यवस्थिते भो उदक! ये ते श्रमणा वा ब्राह्मणा वा एवं भूतशब्दविशेषणत्वेन प्रत्याख्यानमाचक्षते, परैः पृष्टास्तथैव भाषन्ते प्रत्याख्यानं, स्वतः कुर्वन्तः कारयन्तश्चैवमिति - सविशेषणं प्रत्याख्यानं भाषन्ते, Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484