Book Title: Agam Sutra Satik 02 Sutrakrut AngSutra 02
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Agam Shrut Prakashan
View full book text
________________
४५२
सूत्रकृताङ्ग सूत्रम् २/७/-/८०१
थावरावि वृच्छंति थावरा थावरसंभारकडेणं कम्मुणा नामंच णं अब्भुवगयं भवइ, थावराउयं चणं पलिक्खीणं भवइ, थावरकायडिया ते तओ आउयं विप्पजर्हति तओ आउयं विप्पजहित्ता भुजो परलोइयत्ताए पञ्चायंति ते पाणावि वुश्चंति, ते तसावि वुच्छंति, ते महाकाया ते चिरट्टिइया वृ. 'त्रसा अपि ' द्वीन्द्रियादयोऽपि त्रसा इत्युच्यन्ते च त्रसाः त्रससंभारकृतेन कर्मणा भवन्ति, संभारो नामावश्यंतया कर्मणो विपाकानुभवेन वेदनं तच्चेह त्रसनाम प्रत्येकनामेत्यादिकं नामकर्माभ्युपगतं भवति, त्रसत्वेन यत्परिबद्धमायुष्कं तद्यदोदयप्राप्तं भवति, तदा त्रससंभारकृतेन कर्मणा नसा इति व्यपदिश्यन्ते, न तदा कथञ्चित्स्थावरत्वव्यपदेश यदा च तदायुः परिक्षीणं भवति, णमिति वाक्यालङ्कारे, त्रसकायस्थितिकं च कर्म यदा परिक्षीणं भवति, तच्च जघन्यतोऽन्तमुहूर्तमुत्कृष्टतः सातिरेकसहस्रद्वयसागरी पमपरिमाणं, तदा ततस्त्रसकायस्थितेरभावात्तदायुष्कं ते परित्यजन्ति, अपराण्यपि तत्सहचरितानि कर्माणि परित्यज्य स्थावरत्वेन प्रत्यायान्ति, स्थावरा अपि स्थावरसंभारकृतेन कर्मणा तत्रोत्पद्यन्ते, स्थावरादिनाम च तत्राभ्युपगतं भवति, अपराण्यपि तत्सहचरितानि सर्वात्मना त्रसत्वं परित्यज्य स्थावरत्वेनोदयं यान्ति, इति, एवं च व्यवस्थिते कथं स्थावरकायं व्यापादयतो गृहीतत्रसकायप्राणातिपातनिवृत्तेः श्रावकस्य व्रतभङ्ग इति ? !
किंचान्यत्-‘थावराउयं च ण' मित्यादि, यदा तदपि स्थावरायुष्कं परिक्षीणं भवति तथा स्थावरकायस्थितिश्च सा जघन्यतोऽन्तर्मुहूर्तमुत्कृष्टतोऽनन्तकालमसंख्येयाः पुद्गलपरावर्ता इति, ततस्तत्कायस्थितेरभावात्तदायुष्कं परित्यज्य 'भूयः पुनरपि पारलौकिकत्वेन स्थावरकायस्थितेरभावात् त्रसत्वेन सामर्थ्यात्प्रत्यायान्ति तेषां च त्रसानामन्वर्थिकान्यभिधानान्यभिधित्सुराह'ते पाणावी' त्यादि, ते त्रससंभारकृतेन कर्मणा समुत्पन्नाः सन्तः सामान्यसंज्ञया प्राणा अप्युच्यन्ते, तथा विशेषतः 'त्रस भयचलनयो' रिति धात्वर्थानुगमाद्भयचलनाभ्यामुपपेतास्त्रसा अप्युच्यन्ते, तथा महान् कायो येषां ते महाकायाः योजनलक्षप्रमाणशरीरविकुर्वणात्, तथा चिरस्थितिका अप्युच्यन्ते, भवस्थित्यपेक्षया त्रयस्त्रिंशत्सागरोपमायुष्कसद्भावात्, ततस्त्रसपर्यायव्यवस्थितानामेव प्रत्याख्यानं तेन गृहीतं, न तु स्थावरकायत्वेन व्यवस्थितनामपीति ।
यस्तु नागरकष्टान्तो भवतोपन्यस्तः असावपि ष्टान्तदान्तिकयोरसाम्यात्केवलं भवतोऽनुपासितगुरुकुलवासित्वमाविष्करोति, तथाहि - नगरधर्मैयुक्तो नागरिकः स च मया न हन्तव्य इति प्रतिज्ञां गृहीत्वा यदा तमेव व्यापादयति बहिः स्थितं पर्यायापन्नं तदा तस्य किल व्रतभङ्ग इति भवतः पक्ष इति, स च न घटते, यतो यो हि नगरधर्मैरुपेतः स बहिःस्थोऽपि नागरिक एव, अतः पर्यायापन्न इत्येतद्विशेषणं नोपपद्यते, अथ सामस्त्येन परित्यज्य नगरधर्मानसी वर्तते अतस्तमेवेत्येतद्विशेषणं नोपपद्यते, तदेवमत्र त्रसः सर्वात्मना त्रसत्व परित्यज्य यदा स्थावरः समुत्पद्यते तदा पूर्वपर्यायपरित्यागादपरपर्यायापत्नत्वात्रस एवासौ न भवति, तद्यथा - नागरिकः पल्ल्यां प्रविष्टस्तद्धर्मोपेतत्वात्पूर्वधर्मपरित्यागाच्च नागरिक एवासौ न भवतीति ।।
पुनरप्यन्यथोदकः पूर्वपक्षमारचयितुमाह
मू. (८०२) सवायं उदए पेढालपुत्ते भयवं गोयमं एवं वयासी- आउसंतो गोयमा ! नत्थि णं से केइ परियाए जणं समणोवासगस्स एगपाणातिवायविरएव दंडे निक्खित्ते, कस्स णं तं हेउं ?, संसारिया खलु पाणा, थावरावि पाणा तसत्ताए पञ्चायंति, तसावि पाणा थावरताए पञ्चायंति, थावरकायाओ विष्पमुच्चमाणा सव्वे तसकायंसिउववज्रंति, तसकायाओविष्पमुच्चमाणा सव्वे धावरकायंसि उववज्जंति, तेसिं च गं थावरकायंसि उववन्नाणं ठाणमेयं धत्तं ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org

Page Navigation
1 ... 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484