Book Title: Agam Sutra Satik 02 Sutrakrut AngSutra 02
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Agam Shrut Prakashan

View full book text
Previous | Next

Page 461
________________ ४५८ सूत्रकृताङ्ग सूत्रम् २/७/-/८०४ आयाणसो जाव तेसु पञ्चायंति, जेहिं समणोवासगस्स सुपचक्यायं भवइ, ते पाणावि जाव अयंपि भेदे से० । वृ. पुनरपि गौतमस्वाम्युदकं प्रतीदमाह तद्यथा-बहुभि प्रकारैस्त्रससद्भावः संभाव्यते, ततश्चाशूयन्यस्तैः संसारः, तदशून्यत्वे न निर्विषयं श्रावकस्य त्रसवधनिवृत्तिरूपं प्रत्याख्यानं । तदधुना बहुप्रकारत्रससंभूत्याऽशून्यतां संसारस्य दर्शयति-भगवानाह 'सन्ति' विद्यन्ते शान्तिप्रधाना वा एके केचन श्रमणोपासका भवन्ति तेषां चेदमुक्तपूर्वं भवति-संभाव्यते च श्रावकाणामेवं भूतस्य वचसः संभव इति, तद्यथा- न खलु वयं शक्नुमः प्रव्रज्यां ग्रहीतुं, किंतु ? वयं णमिति वाक्यालङ्कारे चतुर्द्दश्यष्टमी पौर्णमासीषु संपूर्ण पौषधमाहारशरीरसत्कारब्रह्मचर्याव्यापाररूपं पौषधं सम्यगनुपालयन्तो विहरिष्यामः, तथा स्थूलप्राणातिपातमृषावादादत्तादानमैथुनपरिग्रहं प्रत्याख्यास्यामो द्विविध मिति कृतकारितप्रकारद्वयेन अनुमतेः श्रावकस्याप्रतिषिद्धत्वात् तथा त्रिविधेनेति मनसा वाचा कायेन च, तथा 'मा' इति निषेधे 'खलु' इति वाक्यालङ्कारे मदर्थं पचनपाचनादिकं पौषधस्थस्य मम कृते मा कार्ष्ट, तथा परेण मा कारयत तत्राप्यनुमतावपि सर्वथा यदसंभवि तत्प्रत्याख्यास्यामः, ते एवंभूतकृतप्रतिज्ञाः सन्तः श्रावकाः अभुक्त्वाऽपीत्वाऽस्नात्वा च पौषधोपेतत्वादासन्दीपीठिकातः प्रत्यारुह्य अवतीर्य सम्यक् पौषधं गृहीत्वा कालं कृतवन्तः, ते तथाप्रकारेण कृतकालाः सन्तः किं सम्यक्कृतकाला उतासम्यगिति ?” कथं वक्तव्यं स्यादिति ?, एवं पृष्टैर्निर्ग्रन्थैरवश्यमेवं वक्तव्यं स्यात् सम्यक्का लगता इति, एवंच कालगतानामवश्यंभावी तेषां देवलोकेषूत्पादः, तदुत्पनश्च त्रस एव, ततश्च कथं निर्विषयता प्रत्याख्यानस्योपासकस्येति पुनरन्यथा श्रावकोद्देशेनैव प्रत्याख्यानस्य विषयं प्रदर्शयितमाहगौतमस्वाम्येवाह - तद्यथा 'सन्ति' विद्यन्ते एके केचन श्रमणोपासकाः, तेषां चैतदुक्तपूर्वं भवति, तद्यथा-खलु न शक्नुमो वयं प्रव्रज्यां ग्रहीतुं नापि चतुर्द्दश्यादिषु सम्यक् पौषधं पालयितुं वयं चापश्चिमया संलेखनक्षपणया क्षपितकाया यदिवा संलेखनाजोषणया सेवनया जोषिताः सेविता उत्तमार्थगुणैरित्येवंभूताः सन्तो भक्तपानं प्रत्याख्याय 'कालं' दीर्घकाल मनवकाङ्क्षमाणा विहरिष्यामः, इदमुक्तं भवति न वयं दीर्घकाल पौषधादिकं व्रतं पालयितुं समर्थाः, किंतु वयं सर्वमपि प्राणातिपातादिकं प्रत्याख्याय संलेखनया संलिखितकायाश्चतुर्विधाहारपरित्यागेन जीवितं परित्यक्तुमलमिति । एतत्सूत्रेणैव दर्शयति- 'सव्वं पाणाइवाय' मित्यादि, सुगमं, यावत्ते तथा कालगताः किं वक्तव्यमेतस्यात् सम्यक् ते कालगता इति ?, एवं पृष्टथ निर्ग्रन्था एतदुचुः, यथा ते सन्मनसःशोभनमनसस्ते कालगता इति, ते च सम्यक्संलेखनया यदाकालं कुर्वन्ति तदाऽवश्यमन्यतमेषु देवलोकेषूत्पद्यन्ते, तत्र चोत्पन्ना यद्यपि ते व्यापादयितुं न शक्यन्ते तथापि त्रसत्वात्ते श्रावकस्य त्रसवधनिवृत्तस्य विषयतां प्रतिपद्यन्ते । पुनरप्यन्यथा प्रत्याख्यानस्य विषयमुपदर्शयितुमाहभगवानाह - एके केचन मनुष्या एवंभूता भवन्ति, तद्यथा-महेच्छा महारम्भा महापरिग्रहा इत्यादि सुगमं यावद्यैर्येषुव श्रमणोपासकस्यादीयत इत्यादानं प्रथमव्रतग्रहणं, तत आरभ्याऽऽरणान्ताद्दण्डो निक्षिप्तः - परित्यक्तो भवति, ते च ताद्यग्विधास्तस्माद्भवात्कान्तत्यते स्वायुषं विजहन्ति, त्यक्त्वा त्रसजीवितं ते भूयः पुनः स्वकर्म-स्वकृतं किल्विषमादाय गृहीत्वा दुर्गतिगामिनो भवन्ति । एतदुक्तं भवति - महारम्भपरिग्हत्वात्ते मृताः पुनरन्यतरपृथिव्यां नारकत्रसत्वेनोत्पद्यन्ते, तेच सामान्यसंज्ञया प्राणिनो विशेषसंज्ञा त्रसा महाकायाः चिरस्थितका इत्यादि पूर्ववद्यावत् 'नो For Private & Personal Use Only www.jainelibrary.org Jain Education International

Loading...

Page Navigation
1 ... 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484