Book Title: Agam Sutra Satik 02 Sutrakrut AngSutra 02
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Agam Shrut Prakashan

View full book text
Previous | Next

Page 435
________________ ४३२ सूत्रकृताङ्ग सूत्रम् २/६/-७६४ वृ. अमुमेव दृष्टान्तं वैपरीत्येनाह-अथवापि सत्यपुरुष खलबुद्धया कश्चिन्म्लेच्छः शूले प्रोतमग्नौ पचेत्, तथा कुमारकं च लाबुकबुध्याऽग्नावेव पचेत्, न चासौ प्राणिवधजनितेन पातकेन लिप्यतेऽस्माकमिति। मू. (७६५) पुरिसंच विभ्रूण कुमारगंवा, सूलंमि केई पए जायतेए। पिनाय पिंडिं सतिमारुहेत्ता, बुद्धाणं तं कप्पति पारणाए। वृ.किंचान्यत्-'पुरिस'मित्यादि, पुरुषं वा कुमारकंवा विद्धवाशूलेकश्चित्पचेत् 'जाततेजसि' अग्नावारुह्य खलपिण्डीयमिति मत्वा 'सती' शोभनां, तदेतद्बुद्धानामपि पारणाय' भोजनाय 'कल्पते योग्यं भवति, किमुतापरेषाम्?,एवं सर्वास्ववस्थास्वचिन्तितं-मनसाऽसंकल्पितं कर्म चयं न गच्छत्यस्मत्सिद्धान्ते, तदुक्तम्-"अविज्ञानोपचितंपरिज्ञानोपचितमीर्यापथिकं स्वप्नान्तिकं चेति कर्मोपचयं न याति" पुनरपि शाक्य एव दानफलमधिकृत्याहमू. (७६६) सिणायगाणं तु दुवे सहस्से, जे भोयए नियए भिक्खुयाणं । ते पुन्नखंधं सुमहं जिणित्ता, भवंति आरोप्प महंतसत्ता ।। पृ.स्नातका बोधिसत्त्वाः, तुशब्दात्पञ्चशिक्षापदिकादिपरिग्रहः,तेषां भिक्षुकाणां सहस्रद्वयं 'निजे' शाक्यपुत्रीये धर्मे व्यवस्थितः कश्चिदुपासकः पचनपाचनाद्यपि कृत्वा भोजयेत् समांसगुडदाडिमेनेष्टेन भोजनेन, ते पुरुषामहासत्त्वाः श्रद्धालवःपुण्यस्कन्धं महान्तं समावM तेन च पुण्य स्कन्धेनारोप्याख्या देवा भवन्त्याकाशोपगाः, सर्वोत्तमां देवगतिं गच्छन्तीत्यर्थः । मू. (७६७) अजोगरूवं इह संजयाणं, पावंतु पाणाण पसज्झ काउं। अबोहिए दोण्हवितं असाहु, वयंतिजे यावि पडिस्सुणंति ॥ वृतदेवं बुद्धेन दानमूलः शीलमूलश्च धर्म प्रवेदितः, तद् ‘एहि' आगच्छ बौद्धसिद्धान्तं प्रतिपद्यस्वेत्येवंभिक्षुकैरभिहितः सन्नाकोऽनाकुलया दृष्ट्या तान्वीक्ष्योवाचेदं वक्ष्यमाणमित्याह'अजोगरूव'मित्यादि, 'इह' अस्मिन् भवदीये शाक्यमते 'संयतानां भिक्षूणां यदुक्तं प्राक्तदत्यन्तेनायोग्यरूपम्-अघटमानकं, तथाहि-अहिंसार्थमुत्थितस्य त्रिगुप्तिगुप्तस्य पञ्चसमितिसमितस्य सतः प्रव्रजितस्य सम्यगज्ञानपूर्विकां क्रियां कुर्वतो भावशुद्धि फलवती भवति, तद्विपर्यस्तमतेस्तवज्ञानावृतस्य महामोहाकुलीकृतान्तरात्मतया खलपुरुषयोरपि विवेकमजानतः कुतस्त्याभावशुद्धिः?, अतोऽत्यंतमसाम्प्रतमेतबुद्धमतानुसारिणांयत्खलबुद्धयापुरुषस्य शूलपोतनपचनादिकं, तथा बुद्धस्य पिन्नाकबुद्धया पिशितभक्षणानुमत्यादिकमिति । एतदेव दर्शयति-प्राणानाम्इन्द्रियादीनामपगमेन तुशब्दस्यैवकारार्थत्वात्पापमेव कृत्वा रससातागौरवादिगृद्धास्तदभावं व्यावर्णयन्ति, एतच्चतेषांपापाभावव्यावर्णनम् 'अबोध्यै अबोधिलामार्थतयोर्द्वयोरपि संपद्यते, अतोऽसाध्वेतत् ।कयोद्धयोरित्याह-ये वदन्तिपिण्याकबुद्धयापुरुषपाकेऽपि पातकाभावं, येच तेभ्यः शृण्वन्ति, एतयोद्धयोरपि वर्गयोरसाध्वेतदिति । अपिच-नाज्ञानावृतमूढजने भावशुद्धया शुद्धिर्भवति, यदि च स्यात्संसारमोचकादीनामपि तर्हि कर्मविमोक्षः स्यात्, तथा भावशुद्धिमेव केवलामभ्युपगच्छतां भवतां शिरस्तुण्डमुण्डनपिण्डपातादिकं चैत्यकर्मादिकंचानुष्ठानमनर्थकमापद्यते, तस्मानैवंविधया मावशुद्धया शुद्धिरुपजायत इति स्थितम् । Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484