Book Title: Agam Sutra Satik 02 Sutrakrut AngSutra 02
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Agam Shrut Prakashan

View full book text
Previous | Next

Page 437
________________ ४३४ सूत्रकृताङ्ग सूत्रम् २/६/-/७७२ वृ. तदेवं परपक्षं दूषयित्वा स्वपक्षस्थापनायाह- मौनीन्द्रशासनप्रतिपन्नाः सर्वज्ञोक्त मार्गानुसारिणो जीवानामनुभागम् अवस्थाविशेषं तदुपमर्द्देन पीडां वा सुष्ठु 'विचिन्तयन्तः' पर्यालोचयन्तोऽनविधी शुद्धिम् 'आहृतवन्तः ' स्वीकृतवन्तो द्विचत्वारिंशद्दोषरहितेन शुद्धेनाहारेणाहारं कृतवन्तो न तु यथा भवतां पिशिताद्यपि पात्रपतितंन दोषायेति । तथा 'छन्नपदोपजीवी' मातृस्थानोपजीवी रून् न व्यागृणीयाद् 'एषः' अनन्तरोक्तोऽनु-पश्चाद्धर्मोऽनुधर्मस्तीर्थकरानुष्ठानाद- नन्तरं भवतीत्यनुना विशिष्यते । 'इह' अस्मिन् जगति प्रवचने वा सम्यग्यतानां संयतानां सत्साधूनां न तु पुनरेवंविधो भिक्षूणामिति । यच्च भवद्भिरोदनादेरपि प्राण्यङ्गसमानतया हेतुभूतया मांसादिसाध्श्यं चोद्यते तदविज्ञान लोकतीर्थान्तरीयमतं, तथाहि प्राण्यङ्गत्वे तुल्येऽपि किञ्चिन्मांसं किंचिच्चामांसमित्येवं व्यवह्रियते, तद्यथा- गोक्षीररुधिरादेर्भक्ष्याभक्ष्यव्यवस्थिति, तथा समानेऽपि स्त्रीत्वे भार्यास्वानादौ गम्यागम्यव्यवस्थितिरिति । तथा शुष्कतर्कदृष्टया योऽयं प्राण्डङ्गत्वादिति हेतुर्भवतोपन्यस्यते तद्यथा || 9 11 भक्षणीयं भवेन्मांसं, प्राण्यङ्गत्वेन हेतुना । ओदनादिवदित्येवं कश्चिदाहातितार्किकः ॥ सोऽसिद्धानैकान्तिकविरुद्धदोषदुष्टत्वादपकर्णनीयः, तथाहि - निरंशत्वाद्वस्तुनस्तदेव मासं तदेव च प्राण्यङ्गमिति प्रतिज्ञार्थैकदेशासिद्धः, तद्यथा-नित्यः शब्दो नित्यत्वाद्, अथ भिन्नं प्राण्यङ्ग ततः सुतरामसिद्धो व्यधिकरणत्वाद्, यथा देवदत्तस्य गृहं काकस्य कार्ण्यात्, तथाऽनेकान्तिकोऽपि श्वादिमांसस्याभक्ष्यत्वात्, अथ तदपि किचित्कदाचित्केषाञ्चिद्भक्ष्यमिति चेदेवं च सत्यस्थ्यादेरभक्ष्यत्वादनैकान्तिकत्वं तथा विरुद्धाव्यभिचार्यपि, यथाऽयं हेतुर्मासस्य भक्ष्यत्वं साधयत्येवं बुद्धास्थ्नामपूज्यत्वमपि । तथा लोकविरोधिनी चेयं प्रतिज्ञा, मांसोदनयोरसाम्यादृष्टान्तविरोधश्चेत्येवं व्यवस्थिते यदुक्तं प्राग् यथा बुद्धानामपि पारणाय कल्पत एतदिति, तदसाध्विति स्थितम् । मू. (७७३) सिणावगाणं तु दुवे सहस्से, जे भोयए नियए भिक्खुगाणं । असंजए लोहियपाणि से ऊ, नियच्छति गरिहमिव लोए ।। वृ. अन्यदपि भिक्षुकोक्तमार्द्रककुमारोऽनूद्य दूषयितुमाह- 'सिणायगाणं तु' इत्यादि, 'स्नातकानां ' बोधिसत्त्वकल्पानां भिक्षूणां नित्यं यः सहद्वयं भोजयेदित्युक्तं प्राक् तद्दूषयतिअसंयतः सन् रुधिरक्लिन्नपाणिरनार्य इव 'गर्हा' निन्दां जुगुप्सापदवीं साधुजनानामिहलोक एव निश्चयेन गच्छति परलोके चानार्यगम्यां गति यातीति । एवं तावत्सावद्यानुष्ठानानुमन्तृणामपात्रभूतानां यद्दानं तत्कर्मबन्धायेत्युक्तं, किंचान्यत् यू. (७७४) धूलं उरब्धं इह मारियाणं, उद्दिभत्तं च पगप्पएत्ता । तं लोणतेल्लेण उवक्खडेत्ता, सपिप्पलीयं पगरंति मंसं ॥ यू. आर्द्रकुमार एव तन्मतमाविष्कुर्वन्निदमाह, 'स्थूलं' बृहत्कायमुपचितमांसशोणितमुरभ्रम्ऊरणकमिह - शाक्यशासने भिक्षुक संघोद्देशेन 'व्यापाद्य' घातयित्वा तथोद्दिष्टभक्तं च प्रकल्पयित्वा विक वा तमुरभ्रं तन्मांसं च लवगतैलाभ्यामुपस्कृत्य पाचयित्वा सपिप्पलीकमपरसंस्कारकद्रव्यसमन्वितं प्रकर्षेण भक्षणयोग्यं मांसं कुर्वन्तीति । Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484