Book Title: Agam Sutra Satik 02 Sutrakrut AngSutra 02
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Agam Shrut Prakashan

View full book text
Previous | Next

Page 444
________________ ४४१ श्रुतस्कन्धः - २, अध्ययन-६, मू. (७९०) संवच्छरेणावि य एगमेगं, पाणं हणंता अनियत्तदोसा। सेसाण जीवाण वहेण लग्गा, सिया य धोवं गिहिणोऽवितम्हा।। वृ.संवत्सरेणैकैकंप्राणिनंनतोऽपिप्राणातिपातादनिवृत्तदोषास्तेभवन्ति, आशंसादोषश्च भवतां पञ्चेन्द्रियमहाकायसत्त्ववधपरायणानामतिदुष्टो भवति, साधूनांतुसूर्यरश्मिप्रकाशितवीथिषु युगमात्रष्टया गच्छतामीर्यासमितिसमितानां द्विचत्वारिंशद्दोषरहितमाहारमन्वेषयतांलामालाभसमवृत्तीनां कुतस्त्य आशंसादोषः पिपीलिकादिसत्त्वोपघातो वेत्यर्थः, स्तोकसत्त्वोपघातेनैवंभूतेन दोषाभावो भवताऽभ्युपगम्यते, तथा च सति गृहस्था अपि स्वारम्भदेशवर्तिन एव प्राणिनो घ्नन्ति शेषाणां च जन्तूनां क्षेत्रकालव्यवहितानां भवदभिप्रायेण वधे न प्रवृत्ताः, यत एवं तस्मात्कारणात्स्यादेवं 'स्तोक'मिति स्वल्पं यस्मात् घ्नन्ति ततस्तेऽपि दोषरहिता इति । मू. (७९१) संवच्छरेणाविय एगमेगं, पाणं हणंता समणव्ववासु । आयाहिए से पुरिसे अणजे, न तारिसे केवलिणो भवंति ॥ वृ. साम्प्रतमार्द्रककुमारोहस्तितापसान्दूषयित्वा तदुपदेष्टारंदूषयितुमाह-'संवच्छरेणे त्यादि, श्रमणानां-यतीनांव्रतानि श्रमणव्रतानि तेष्वपि व्यवस्थिताः सन्त एकैकंसंवत्सरेणापि ये मन्ति येचोपदिशन्ति तेऽनार्या, असत्कर्मानुष्ठायित्वात्, तथाआत्मानं परेषांचाहितास्तेपुरुषाः,बहुवचनमार्षत्वात्, न ताशाः केवलिनो भवन्ति, तथाहि-एकस्य प्राणिनः संवत्सरणापि घाते तेऽन्ये पिश्रितास्तत्संस्कारे च क्रियमाणे स्थावरजङ्गमा विनाशमुपयान्ति ते तैः प्राणिवधोपदेष्टुभिर्न दृष्टाः, न च तैर्निरवद्योपायो माधुकर्या वृत्त्या यो भवति स दृष्टः, अतस्ते न केवलमकेवलिनो विशिष्टविवेकरहिताश्चेति । तदेवं हस्तितापसानिराकृत्य भगवदन्तिकं गच्छन्तमार्द्रककुमारं महता कलकलेन लोकेनाभिष्ट्रयमानं तं समुपलभ्य अभिनवगृहीतः सर्वलक्षणसंपूर्णो वनहस्ती समुत्पन्नतथाविधविवेकोऽचिन्तयत्। __यथाऽयमाककुमारोऽपाकृताशेषतीथिको निष्प्रत्यूहंसर्वज्ञपादपद्मान्तिकंवन्दनायव्रजति तथाऽहमपियद्यपगताशेषबन्धनः स्यांतत एनंमहापुरुषमार्द्रककुमारंप्रतिबुद्धतस्करपञ्चशतोपेतं तथा प्रतिबोधितानेकवादिगणसमन्वितं परमयाभक्त्यैतदन्तिकंगत्वा वन्दामीत्येवंयावदसी हस्ती कृतसंकल्पस्तावत्रटनटदिति त्रुटितसमस्तवन्धनः सन्नाककुमाराभिमुखंप्रदत्तकर्णतालस्तथोर्ध्वप्रसारितदीर्धकरः प्रधावितः, तदनन्तरं लोकेन कृतहाहारवगर्भकलकलेन पूत्कृतं-यता धिक् कष्टंहतोऽयमाककुमार महर्षिर्महापुरुषः,तदेवंप्रलपन्तोलोका इतश्चेतश्चप्रपलायमानाःअसावपि वनहस्ती समागत्याककुमारसमीपं भक्तिसंभ्रमावनताग्रभागोत्तमाङ्गो निवृत्तकर्णतालस्त्रिः प्रदक्षिणीकृत्य निहितधरणीतलदन्ताग्रभागः स्पृष्टकराग्रतच्चरणयुगलः सुप्रणिहितमनाः प्रणिपत्य महर्षि वनाभिमुखं ययाविति । __तदेवमाककुमारतपोऽनुभावाब्दन्धनोन्मुक्तं महागजमुपलभ्य सपौरजनपदः श्रेणिकराजस्तमाककुमारं महर्षिं तत्त्पःप्रभावं चामिनन्द्याभिवन्ध च प्रोवाच-भगवन्नाश्चर्यमिदं यदसौ वनहस्ती ताग्विधाच्छाच्छेद्याच्छृङ्खलाबन्धनायुष्मत्तपःप्रभावान्मुक्तइत्येतदतिदुष्करमित्येवमभिहिते आर्द्रककुमारः प्रत्याह-भोः श्रेणिकमहाराज ! नैतद्दुष्करं यदसौ वनहस्ती बन्धनान्मुक्तः, अपि त्वेतहुष्करं यत्स्नेहपाशमोचनं, एतच्च प्राङनियुक्तिगाथया प्रदर्शितं । सा चेयं-- ॥१॥ “न दुक्करं वा नरपासमोयणं, गयस्स मत्तस्स वर्णभि राय। जहा उ चत्तालिएण तंतुणा, सुदुक्करं मे पडिहाइ मोयणं ।। Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484