Book Title: Agam Sutra Satik 02 Sutrakrut AngSutra 02
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Agam Shrut Prakashan

View full book text
Previous | Next

Page 434
________________ श्रुतस्कन्धः - २, अध्ययनं - ६, ४३१ प्तिनिर्जरालक्षणः स च सादिरनन्तश्च तमेवंभूतमुदयं प्राप्तो भगवानन्येषामपि तथामृत्मेवोदयं साधयित कथयति श्लाघते वा । किंभूतो भगवान् ? - 'तायी' 'अयवयपयमयचयतयणय गता' वित्यस्य दण्डकधातोण्निप्रत्येय रूपं, मोक्षं प्रति गमनशील इत्यर्थ, त्रायी वा आसन्नभव्यानां त्राणकरणात्, तथा 'ज्ञाती' ज्ञाताः क्षत्रिया ज्ञातं वा जम्तुजातं विद्यते यस्य स ज्ञाती, विदितसमस्तवेद्य इत्यर्थः । तदेवंभूतेन भगवता तेषां वणिजां निर्विवेकिनां कथं सर्वसाधर्म्यमिति । मू. (७६२) अहिंसयं सव्वपयानुकंपी, धम्मे ठियं कम्मविवेगहेडं । तमायदंडेहिं समायरतं, अबोहीए ते पडिरूवमेयं ॥ वृ. साम्प्रतं देवकृतसमवसरणपद्मावलीदेवच्छन्दकसिंहासनाद्युपभोगं कुर्वन्नप्याधाकर्मकृतवसतिनिषेवकसाधुवत्कथं तदनुमतिकृतेन कर्मणाऽसौ न लिप्यत इत्येतद्गोशालकमतमाशङ्कयाह असौ भगवान् समवसरणाद्युपभोगं कुर्वन्नप्यहिंसकः, स उपभोगं करोति, एतदुक्तं भवति न हि तत्र भगवतो मनागप्याशंसा प्रतिबन्धो वा विद्यते, समतृणमणिमुक्तालोष्टकाञ्चनतया तदुपभोगं प्रति प्रवृत्तेः, देवानामपि प्रवचनोद्विभावयिषूणां कथं नु नाम भव्यानां धर्माभिमुखं प्रवृत्तिर्यथा स्यादित्येवमर्थमात्मलाभार्थं च प्रवर्त्तनादतोऽसौ भगवानहिंसकः । तथा सर्वेषां प्रजायन्त इति प्रजा-जन्तवस्तदनुकम्पी च तान्संसारे पर्यटतोऽनुकम्पते भगवान् तच्छीलश्च तमेवंरूपं 'धर्मे' परमार्थभूते व्यवस्थितं कर्मविवेकहेतुभूतं भवद्विधा आत्मदण्डैः समाचरन्त-आत्मकल्पं कुर्वन्ति वाणिगादिभिरुदाहरणैः, एतच्चाबोधे:- अज्ञानस्य प्रतिरूपं वर्तते, एकं तावदिदमज्ञानं यत्स्वतः कुमार्गप्रवर्तनं द्वितीयं चैतत्प्रतिरूपमज्ञानं यद्भगवतामपि जगद्वन्द्यानां सर्वातिशयनिधानभूतानामितरैः समत्वापादनमिति । साम्प्रतमार्द्रककुमारमपहस्तितगोशालकं ततो भगवदभिमुखं गच्छन्तं दृष्ट्वाऽपान्तराले शाक्यपुत्रीया भिक्षव इदमूचुः मू. (७६३) पिन्नागपिंडीमवि विद्ध सूले, केइ परजा पुरिसे इमेत्ति । अलाउयं वावि कुमारएत्ति, स लिप्पती पाणि वहेण अम्हं ॥ वृ. यदेतद्वणिग्ध्ष्टान्तदूषेणन् बाह्यमनुष्ठानं दूषितं तच्छोभनं कृतं भवता यतोऽतिफल्गुप्रायं बाह्यमनुष्ठानं, आन्तरमेव त्वनुष्ठानं संसामोक्षयोः प्रधानाङ्गम्, अस्मत्सिद्धांते चैतदेव व्यावर्ण्यते, इत्येतदाककुमार भो राजपुत्र ! त्वमहितः शृणु श्रुत्वा चावधारयेति भणित्वा ते भिक्षुका आन्तरानुष्ठानसमर्थकमात्मीयसिद्धान्ताविर्भावनायेदमाहुः पिन्नागे "त्यादि, पिण्याकः ' खलस्तस्य 'पिण्डि' भिन्नकं तदचेतनमपि सत् कश्चित् संभ्रमे म्लेच्छादिविषये केनचिन्नशयता प्रावरणं खलोपरि प्रक्षिप्तं । तञ्च म्लेच्छेनान्वेष्टुं प्रवृत्तेन पुरुषोऽयमिति मत्वा खलपिण्डया सह गृहीतं, ततोऽसौ म्लेच्छो वस्त्रवेष्टितां तां खलपिण्डीं पुरुषबुद्धया शूले प्रोतां पावके पचेत्, तथा 'अलाबुकं' तुम्बकं कुमारकोऽ- यमिति मत्वाऽग्नावेव पपाच स चैवं चित्तस्य दुष्टत्वाव्याणिवधजनितेन पातकेन लिप्यते अस्मत्सिद्धान्ते, चित्तमूलत्वाच्छुमा शुभबन्धस्येति, एवं तावदकुशलचित्तप्रामाण्यादकुर्वन्नपि प्राणातिपातं प्राणिधातकफलेन युज्यते । मू. (७६४) अहवावि विद्धूण मिलक्खु सूले, पिनागबुद्धीइ नरं पएज्जा । कुमारगं वावि अलायंति, न लिप्पइ पाणिवहेण अम्हं ॥ For Private & Personal Use Only Jain Education International www.jainelibrary.org

Loading...

Page Navigation
1 ... 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484