Book Title: Agam Sutra Satik 02 Sutrakrut AngSutra 02
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Agam Shrut Prakashan

View full book text
Previous | Next

Page 411
________________ ४०८ सूत्रकृताङ्ग सूत्रम् २/५/-७१५ विद्यत' इतिकृत्वा सांख्याभिप्रायेणसत्त्वरजस्तमोरूपस्य प्रधानस्यैकत्वात्तस्य च सर्वस्यैव कारणत्वात्अतःसर्वसर्वात्मकमित्येवं व्यवस्थिते सर्वत्र घटपटादौ अपरस्य-व्यक्तस्य वीर्यं शक्तिविद्यते, सर्वस्यैव हि व्यक्तस्य प्रधानकार्यत्वात्कार्यकारणयोश्चैकत्वाद्, अतः सर्वस्य सर्वत्र वीर्यमस्तीत्येवंसंज्ञांनोनिवेशयेत्, तथा सर्वेभावाः स्वभावेन, स्वस्वभावव्यवस्थिता'इति प्रतिनियतशक्तित्वान्न सर्वत्र सर्वस्य वीर्यशक्तिरित्येवमपि संज्ञांनोनिवेशयेत्।युक्तिश्चात्र-यत्तावदुच्यते 'सांख्याभिप्रायेण सर्वसर्वात्मकं देशकालाकारप्रतिबन्धात्तुनसमानकालोपलब्धिरिति, तदयुक्तं, यतो भेदेन सुखदुःखजीवितमरणदूरासन्नसूक्ष्मबादरसुरूपकुरूपादिकं संसारवैचित्र्यमध्यक्षेणानुभूयते, नच टेऽनुपपन्न नाम, नच सर्वंमिथ्येत्यभ्युपपत्तुंयुज्यते, यतो दृष्टहानिरष्टिकल्पना घ पापीयसी। किंच-सर्वथैक्येऽभ्युपगम्यमाने संसारमोक्षाभावतया कृतनाशोऽकृताभ्यागमश्च बलादापतति, यञ्चैतत् सत्वरजस्तमसां साम्यावस्था प्रकृति प्रधानमित्येतत्सर्वस्यास्य जगतः कारणं तन्निरन्तराः सुहृदः प्रत्येष्यन्ति, नियुक्तिकत्वाद्, अपिच-सर्वथा सर्वस्य वस्तुन एकत्वेऽभ्युपगम्यमानेसत्त्वरजस्तमसामप्येकत्वंस्यात्, तद्भदेच सर्वस्यतद्वदेवभेद इति।तथा यदप्युच्यते'सर्वस्य व्यक्तस्य प्रधानकार्यत्वात्सत्कार्यवादाच्च मयूराण्डकरणे चञ्चुपिच्छादीनां सतामेवोत्पादाभ्युपगमाद् असदुत्पादेचाम्रफलादीनामप्युत्पत्तिप्रसङ्गादित्येतद्वाङ्मात्रं,तथाहि-यदि सर्वथा कारणे कार्यमस्ति नतर्युत्पादोनिष्पन्नघटस्येव, अपिच मृत्पिण्डावस्थायामेव घटगताः कर्मगुणव्यपदेशा भवेयुः, न च भवन्ति, ततो नास्ति कारणे कार्यम्, अथानभिव्यक्तमस्तीति चेन्न तर्हि सर्वात्मना विद्यत, नाप्येकान्तेनासत्कार्यवाद एव, तद्भावे हि व्योमारविन्दानामप्येकान्तेनासतां मृत्पिण्डादेर्घटादेरिवोत्पत्ति स्यात्, न चैतद्दष्टमिष्टं वा। - अपिच-एवंसर्वस्य सर्वस्मादुत्पत्तेः कार्यकारणभावानियमः स्याद्, एवंचनशाल्यङ्कुरार्थी शालीबीजमेवादद्याद् अपि तु यत्किञ्चिदेवेति, नियमेन च प्रेक्षापूर्वकारिणामुपादानकारणादौ प्रवृत्तिः, अतोनासत्कार्यवादइति। तदेवंसर्वपदार्थानां सत्त्वज्ञेयत्वप्रमेयत्वादिभिधर्मः कथञ्चिदेकत्वं तथा प्रतिनियतार्थकार्यतयायदेवार्थक्रियाकारितदेवपरमार्थतः सदितिकृत्वा कथञ्चिभेद इति सामान्यविशेषात्मकं वस्त्विति स्थितम् । अनेन च स्यादस्ति स्यान्नास्तीतिभङ्गकद्वयेन शेषभङ्कका अपि द्रष्टव्याः, ततश्च सर्वं वस्तु सप्तमङ्गीस्वभावं । तेचामी-स्वद्रव्यक्षेत्रकालभावापेक्षया स्यादस्ति, परद्रव्याधपेक्षया स्यान्नास्ति, अनयोरेव धर्मयोटैगपद्येनाभिधातुमशक्यत्वात्स्यादवक्तव्यं, तथा कस्यचिदंशस्य स्वद्रव्याद्यपेक्षया विवक्षितत्वात्कस्यचिच्चांशस्य परद्रव्याद्यपेक्षया विवक्षितत्वात्स्यादस्तिच स्यान्नास्ति चेति, तथैकस्यांशस्य स्वद्रव्याद्यपेक्षयापरस्यतुसामस्त्येन स्वपरद्रव्याधपेक्षयाविवक्षितत्वात्स्यादस्तिचावक्तव्यंचेति, तथैकस्यांशश्यपरद्रव्याद्यपेक्षया परस्यतु परद्रव्याद्यपेक्षयाऽन्यस्यतुयोगपद्येनस्वपरद्रव्याद्यपेक्षया विवक्षितत्वात्स्यादस्तिच नास्ति चावक्तव्यं चेति, इयंच सप्तमङ्गी यथायोगमुत्तरत्रापि योजनीयेति ___ तदेवं सामान्येन सर्वस्यैव वस्तुनो भेदाभेदी प्रतिपाद्याधुना सर्वशून्यवादिमतनिरासेन लोकालोकयोः प्रविभागेनास्तित्वं प्रतिपादयितुकाम आह-यदिवा सर्वत्रवीर्यमस्ति नास्ति सर्वत्र वीर्य'मित्यनेन सामान्येन वस्त्वस्तित्वमुक्तं, तथाहि-सर्वत्र वस्तुनो 'वीर्य' शक्तिरर्थक्रियासामार्थ्यमन्तशः स्वविषयज्ञानोत्पादनं, तच्चैकान्तेनात्यन्ताभावाच्छशविषाणादेरप्यस्तीत्येवं संज्ञा ननिवेशयेत्, सर्वत्र वीर्यनास्तीतिनोएवंसंज्ञा निवेशयेदिति, अनेनाविशिष्टं वस्त्वस्तित्वंप्रसाधितम्, Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484